Summary (SA)
Chapter 149- Viṣṇu as Narasiṃha
{{Ref- SS 242-243}}
ब्रह्मोवाच-
नारसिंहम् इति ख्यातं गङ्गाया उत्तरे तटे ।
तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम् ॥ १ ॥
हिरण्यकशिपुः पूर्वम् अभवद् बलिनां वरः ।
तपसा विक्रमेणापि देवानाम् अपराजितः ॥ २ ॥
हरिभक्तात्मजद्वेषकलुषीकृतमानसः ।
आविर्भूय सभास्तम्भाद् विश्वात्मत्वं प्रदर्शयन् ॥ ३ ॥
तं हत्वा नरसिंहस् तत्सैन्यम् अद्रावयत् तदा ।
सर्वान् हत्वा महादैत्यान् क्रमेणाजौ महामृगः ॥ ४ ॥
रसातलस्थाञ् शत्रूंश् च जित्वा स्वर्लोकम् ईयिवान् ।
तत्र जित्वा भुवं गत्वा दैत्यान् हत्वा नगस्थितान् ॥ ५ ॥
समुद्रस्थान् नदीसंस्थान् ग्रामस्थान् वनवासिनः ।
नानारूपधरान् दैत्यान् निजघान मृगाकृतिः ॥ ६ ॥
आकाशगान् वायुसंस्थाञ् ज्योतिर्लोकम् उपागतान् ।
वज्रपाताधिकनखः समुद्धूतमहासटः ॥ ७ ॥
दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः ।
महानादैर् वीक्षितैश् च प्रलयानलसन्निभैः ॥ ८ ॥
चपेटैर् अङ्गविक्षेपैर् असुरान् पर्यचूर्णयत् ।
एवं हत्वा बहुविधान् गौतमीम् अगमद् धरिः ॥ ९ ॥
स्वपदाम्बुजसम्भूतां मनोनयननन्दिनीम् ।
तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः ॥ १० ॥
देवानां दुर्जयो योद्धा बलेन महतावृतः ।
तेनाभवन् महारौद्रं भीषणं लोमहर्षणम् ॥ ११ ॥
शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना ।
निजघान हरिः श्रीमांस् तं रिपुं ह्य् उत्तरे तटे ॥ १२ ॥
गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम् ।
स्नानदानादिकं तत्र सर्वपापग्रहार्दनम् ॥ १३ ॥
सर्वरक्षाकरं नित्यं जरामरणवारणम् ।
यथा सुराणां सर्वेषां न कोपि हरिणा समः ॥ १४ ॥
तीर्थानाम् अप्य् अशेषाणां तथा तत् तीर्थम् उत्तमम् ।
तत्र तीर्थे नरः स्नात्वा कुर्यान् नृहरिपूजनम् ॥ १५ ॥
स्वर्गे मर्त्ये तले वापि तस्य किञ्चिन् न दुर्लभम् ।
इत्याद्य् अष्टौ मुने तत्र महातीर्थानि नारद ॥ १६ ॥
पृथक् पृथक् तीर्थकोटिफलम् आहुर् मनीषिणः ।
अश्रद्धयापि यन्नाम्नि स्मृते सर्वाघसङ्क्षयः ॥ १७ ॥
भवेत् साक्षान् नृसिंहो ऽसौ सर्वदा यत्र संस्थितः ।
तत् तीर्थसेवासञ्जातं फलं कैर् इह वर्ण्यते ॥ १८ ॥
यथा न देवो नृहरेर् अधिकः क्वापि वर्तते ।
तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित् ॥ १९ ॥