Summary (SA)
Chapter 147- Viśvāmitra and the Apsarases
{{Ref- SS 240-241}}
ब्रह्मोवाच-
अप्सरोयुगम् आख्यातम् अप्सरासङ्गमं ततः ।
तीरे च दक्षिणे पुण्यं स्मरणात् सुभगो भवेत् ॥ १ ॥
मुक्तो भवत्य् असन्देहं तत्र स्नानादिना नरः ।
स्त्री सती सङ्गमे तस्मिन्न् ऋतुस्नाता च नारद ॥ २ ॥
वन्ध्यापि जनयेत् पुत्रं त्रिमासात् पतिना सह ।
स्नानदानेन वर्तन्ती नान्यथा मद्वचो भवेत् ॥ ३ ॥
अप्सरोयुगम् आख्यातं तीर्थं येन च हेतुना ।
तत्रेदं कारणं वक्ष्ये शृणु नारद यत्नतः ॥ ४ ॥
स्पर्धासीन् महती ब्रह्मन् विश्वामित्रवसिष्ठयोः ।
तपस्यन्तं गाधिसुतं ब्राह्मण्यार्थे यतव्रतम् ॥ ५ ॥
गङ्गाद्वारे समासीनं प्रेरितेन्द्रेण मेनका ।
तं गत्वा तपसो भ्रष्टं कुरु भद्रे ममाज्ञया ॥ ६ ॥
तदोक्तेन्द्रेण सा मेना विश्वामित्रं तपश्च्युतम् ।
कृत्वा कन्यां तथा दत्त्वा जगामेन्द्रपुरं पुनः ॥ ७ ॥
तस्यां गतायां सस्मार गाधिपुत्रो ऽखिलं कृतम् ।
तं तु देशं परित्यज्य तीर्थं तु सुरवल्लभम् ॥ ८ ॥
जगाम दक्षिणां गङ्गां यत्र कालञ्जरो हरः ।
तपस्यन्तं तदोवाच पुनर् इन्द्रः सहस्रदृक् ॥ ९ ॥
उर्वशीं च ततो मेनां रम्भां चापि तिलोत्तमाम् ।
नैवेत्य् ऊचुर् भयत्रस्ताः पुनर् आह शचीपतिः ॥ १० ॥
गम्भीरां चातिगम्भीराम् उभे ये गर्विते तदा ।
ते ऊचतुर् उभे देवं सहस्राक्षं पुरन्दरम् ॥ ११ ॥
गम्भीरातिगम्भीरे ऊचतुः-
आवां गत्वा तपस्यन्तं गाधिपुत्रं महाद्युतिम् ।
च्यावयावो नृत्यगीतै रूपयौवनसम्पदा ॥ १२ ॥
यासाम् अपाङ्गे हसिते वाचि विभ्रमसम्पदि ।
नित्यं वसति पञ्चेषुस् ताभिः को ऽत्र न जीयते ॥ १३ ॥
ब्रह्मोवाच-
तथेत्य् उक्ते सहस्राक्षे ते आगत्य महानदीम् ।
ददृशाते तपस्यन्तं विश्वामित्रं महामुनिम् ॥ १४ ॥
मृत्योर् अपि दुराधर्षं भूमिस्थम् इव धूर्जटिम् ।
सहस्रम् एकं वर्षाणाम् ईक्षितुं न च शक्नुतः ॥ १५ ॥
दूरे स्थिते नृत्यगीतचाटुकाररते तदा ।
विलोक्य मुनिशार्दूलस् ततः कोपाकुलो ऽभवत् ॥ १६ ॥
प्रतीपाचरणं दृष्ट्वा क्रोधः कस्य न जायते ।
निस्पृहो ऽपि महाबाहुस् तम् इन्द्रं प्रहसन्न् इव ॥ १७ ॥
आभ्यां मुक्तः सहस्राक्षो ह्य् अप्सरोभ्यां ब्रुवन्न् इव ।
शशाप ते स गाधेयो द्रवरूपे भविष्यथः ॥ १८ ॥
द्रवितुं मां समायाते यतस् त्व् इह ततो लघु ।
ततः प्रसादितस् ताभ्यां शापमोक्षं चकार सः ॥ १९ ॥
भवेतां दिव्यरूपे वां गङ्गया सङ्गते यदा ।
तच्छापात् ते नदीरूपे तत्क्षणात् सम्बभूवतुः ॥ २० ॥
अप्सरोयुगम् आख्यातं नदीद्वयम् अतो ऽभवत् ।
ताभ्यां परस्परं चापि ताभ्यां गङ्गासुसङ्गमः ॥ २१ ॥
सर्वलोकेषु विख्यातो भुक्तिमुक्तिप्रदः शिवः ।
तत्रास्ते दृष्ट एवासौ सर्वसिद्धिप्रदायकः ॥ २२ ॥
तत्र स्नात्वा तु तं दृष्ट्वा मुच्यते सर्वबन्धनात् ॥ २३ ॥