Summary (SA)
Chapter 146- Story of Yayāti
{{Ref- SS 239-240}}
ब्रह्मोवाच-
यायातम् अपरं तीर्थं यत्र कालञ्जरः शिवः ।
सर्वपापप्रशमनं तद्वृत्तम् उच्यते मया ॥ १ ॥
ययातिर् नाहुषो राजा साक्षाद् इन्द्र इवापरः ।
तस्य भार्याद्वयं चासीत् कुललक्षणभूषितम् ॥ २ ॥
ज्येष्ठा तु देवयानीति नाम्ना शुक्रसुता शुभा ।
शर्मिष्ठेति द्वितीया सा सुता स्याद् वृषपर्वणः ॥ ३ ॥
ब्राह्मण्य् अपि महाप्राज्ञा देवयानी सुमध्यमा ।
ययातेर् अभवद् भार्या सा तु शुक्रप्रसादतः ॥ ४ ॥
शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा ।
देवयानी शुक्रसुता द्वौ पुत्रौ समजीजनत् ॥ ५ ॥
यदुं च तुर्वसुं चैव देवपुत्रसमाव् उभौ ।
शर्मिष्ठा च नृपाल् लेभे त्रीन् पुत्रान् देवसन्निभान् ॥ ६ ॥
द्रुह्युं चानुं च पूरुं च ययातेर् नृपसत्तमात् ।
देवयान्याः सुतौ ब्रह्मन् सदृशौ शुक्ररूपतः ॥ ७ ॥
शर्मिष्ठायास् तु तनयाः शक्राग्निवरुणप्रभाः ।
देवयानी कदाचित् तु पितरं प्राह दुःखिता ॥ ८ ॥
देवयान्य् उवाच-
मम त्व् अपत्यद्वितयम् अभाग्याया भृगूद्वह ।
मम दास्याः सभाग्याया अपत्यत्रितयं पितः ॥ ९ ॥
तद् एतद् अनुमृश्यायं दुःखम् अत्यन्तम् आगता ।
मरिष्ये दानवगुरो ययातिकृतविप्रियात् ।
मानभङ्गाद् वरं तात मरणं हि मनस्विनाम् ॥ १० ॥
ब्रह्मोवाच-
तद् एतत् पुत्रिकावाक्यं श्रुत्वा शुक्रः प्रतापवान् ।
कुपितो ऽभ्याययौ शीघ्रं ययातिम् इदम् अब्रवीत् ॥ ११ ॥
शुक्र उवाच-
यद् इदं विप्रियं मे त्वं सुतायाः कृतवान् असि ।
रूपोन्मत्तेन राजेन्द्र तस्माद् वृद्धो भविष्यसि ॥ १२ ॥
न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः ।
स्पृहयन् मनसैवास्ते निःश्वासोच्छ्वासनष्टधीः ॥ १३ ॥
वृद्धत्वम् एव मरणं जीवताम् अपि देहिनाम् ।
तस्माच् छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम् ॥ १४ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा ययातिस् तु शापं शुक्रस्य धीमतः ।
कृताञ्जलिपुटो राजा ययातिः शुक्रम् अब्रवीत् ॥ १५ ॥
ययातिर् उवाच-
नापराध्ये न सङ्कुप्ये नैवाधर्मं प्रवर्तये ।
अधर्मकारिणः पापाः शास्या एव महात्मनाम् ॥ १६ ॥
धर्मम् एव चरन्तं वै कथं मां शप्तवान् असि ।
देवयानी द्विजश्रेष्ठ वृथा मां वक्ति किञ्चन ॥ १७ ॥
तस्मान् न मम विप्रेन्द्र शापं दातुं त्वम् अर्हसि ।
विद्वांसो ऽपि हि निर्दोषे यदि कुप्यन्ति मोहिताः ।
तदा न दोषो मूर्खाणां द्वेषाग्निप्लुष्टचेतसाम् ॥ १८ ॥
ब्रह्मोवाच-
ययातिवाक्याच् छुक्रो ऽपि सस्मार सुतया कृतम् ।
असकृद् विप्रियं तस्य दिवा रात्रौ प्रचण्डया ॥ १९ ॥
गतकोपो ऽहम् इत्य् उक्त्वा काव्यो राजानम् अब्रवीत् ॥ २० ॥
शुक्र उवाच-
ज्ञातं मयानयाकारि विप्रियं न वदे ऽनृतम् ।
शापस्येमं करिष्यामि शृणुष्वानुग्रहं नृप ॥ २१ ॥
यस्मै पुत्राय सन्दातुं जराम् इच्छसि मानद ।
तस्य सा यात्व् इयं राजञ् जरा पुत्राय मद्वरात् ॥ २२ ॥
ब्रह्मोवाच-
पुनर् ययातिः श्वशुरं शुक्रं प्राह विनीतवत् ॥ २३ ॥
ययातिर् उवाच-
यो गृह्णाति मया दत्तां जरां भक्तिसमन्वितः ।
स राजा स्याद् दैत्यगुरो तद् एतद् अनुमन्यताम् ॥ २४ ॥
यो मद्वाक्यं नाभिनन्देत् सुतो दैत्यगुरो दृढम् ।
तं शपेयम् अनुज्ञात्र दातव्यैव त्वया गुरो ॥ २५ ॥
ब्रह्मोवाच-
एवम् अस्त्व् इति राजानम् उवाच भृगुनन्दनः ।
ततो ययातिः स्वं पुत्रम् आहूयेदं वचो ऽब्रवीत् ॥ २६ ॥
ययातिर् उवाच-
यदो गृहाण मे शापाज् जरां जातां सुतो भवान् ।
ज्येष्ठः सर्वार्थवित् प्रौढः पुत्राणां धुरि संस्थितः ।
पुत्री तेनैव जनको यस् तदाज्ञावशे स्थितः ॥ २७ ॥
ब्रह्मोवाच-
नेत्य् उवाच यदुस् तातं ययातिं भूरिदक्षिणम् ।
ययातिश् च यदुं शप्त्वा तुर्वसुं कामम् अब्रवीत् ॥ २८ ॥
नागृह्णात् तुर्वसुश् चापि पित्रा दत्तां जरां तदा ।
तं शप्त्वा चाब्रवीद् द्रुह्युं गृहाणेमां जरां मम ॥ २९ ॥
द्रुह्युश् च नैच्छत् तां दत्तां जरां रूपविनाशिनीम् ।
अनुम् अप्य् अब्रवीद् राजा गृहाणेमां जरां मम ॥ ३० ॥
अनुर् नेति तदोवाच शप्त्वा तं पूरुम् अब्रवीत् ।
अभिनन्द्य तदा पूरुर् जरां तां जगृहे पितुः ॥ ३१ ॥
सहस्रम् एकं वर्षाणां यावत् प्रीतो ऽभवत् पिता ।
यौवने यानि भोग्यानि वस्तूनि विविधानि च ॥ ३२ ॥
पुत्रयौवनसन्तुष्टो ययातिर् बुभुजे सुखम् ।
ततस् तृप्तो ऽभवद् राजा सर्वभोगेषु नाहुषः ।
ततो हर्षात् समाहूय पूरुं पुत्रम् अथाब्रवीत् ॥ ३३ ॥
ययातिर् उवाच-
तृप्तो ऽस्मि सर्वभोगेषु यौवनेन तवानघ ।
गृहाण यौवनं पुत्र जरां मे देहि कश्मलाम् ॥ ३४ ॥
ब्रह्मोवाच-
नेत्य् उवाच तदा पूरुर् जरया क्षीयते मया ।
विकारास् तात भावानां दुर्निवाराः शरीरिणाम् ॥ ३५ ॥
बलात् कालागता सह्या जराप्य् अखिलदेहिभिः ।
सा चेद् गुरूपकाराय गृहीता त्यज्यते कथम् ॥ ३६ ॥
स्वीकृतत्यागपापाद् धि देहिनां मरणं वरम् ।
अथवा तु जरां राजंस् तपसा नाशयाम्य् अहम् ॥ ३७ ॥
ब्रह्मोवाच-
एवम् उक्त्वा तु पितरं ययौ गङ्गाम् अनुत्तमाम् ।
गौतम्या दक्षिणे पारे ततस् तेपे तपो महत् ॥ ३८ ॥
ततः प्रीतो ऽभवद् देवः कालेन महता शिवः ।
लोकातीतमहोदारगुणसन्मणिभूषितम् ।
किं ददामीति तं प्राह पूरुं स सुरसत्तमः ॥ ३९ ॥
पूरुर् उवाच-
शापप्राप्तां जरां नाथ पितुर् मम सुराधिप ।
तां नाशयस्व देवेश पितृशप्तांश् च कोपतः ।
मद्भ्रातॄञ् शापतो मुक्तान् कुरुष्व सुरपूजित ॥ ४० ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा जगन्नाथः शापाज् जातां जरां तथा ।
अनाशयज् जगन्नाथो भ्रातॄंश् चक्रे विशापिनः ॥ ४१ ॥
ततः प्रभृति तत् तीर्थं जरारोगविनाशनम् ।
अकालजजरादीनां स्मरणाद् अपि नाशनम् ॥ ४२ ॥
तन्नाम्ना चापि विख्यातं कालञ्जरम् उदाहृतम् ।
यायातं नाहुषं पौरं शौक्रं शार्मिष्ठम् एव च ॥ ४३ ॥
एवमादीनि तीर्थानि तत्राष्टोत्तरम् एव च ।
शतं विद्यान् महाबुद्धे सर्वसिद्धिकरं तथा ॥ ४४ ॥
तेषु स्नानं च दानं च श्रवणं पठनं तथा ।
सर्वपापप्रशमनं भुक्तिमुक्तिप्रदं भवेत् ॥ ४५ ॥