145

Summary (SA)

Chapter 145- Discussion about the best way to liberation

{{Ref- SS 238}}

ब्रह्मोवाच-

मार्कण्डेयं नाम तीर्थं सर्वपापविमोचनम् ।
सर्वक्रतुफलं पुण्यम् अघौघविनिवारणम् ॥ १ ॥

तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः ।
मार्कण्डेयो भरद्वाजो वसिष्ठो ऽत्रिश् च गौतमः ॥ २ ॥

याज्ञवल्क्यश् च जाबालिर् मुनयो ऽन्ये ऽपि नारद ।
एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः ॥ ३ ॥

पुराणन्यायमीमांसाकथासु परिनिष्ठिताः ।
मिथः समूचुर् विद्वांसो मुक्तिं प्रति यथामति ॥ ४ ॥

केचिज् ज्ञानं प्रशंसन्ति केचित् कर्म तथोभयम् ।
एवं विवदमानास् ते माम् ऊचुर् उभयं मतम् ॥ ५ ॥

मदीयं तु मतं ज्ञात्वा ययुश् चक्रगदाधरम् ।
तस्य चापि मतं ज्ञात्वा ऋषयस् ते महौजसः ॥ ६ ॥

पुनर् विवदमानास् ते शङ्करं प्रष्टुम् उद्यताः ।
गङ्गायां च भवं पूज्य तम् एवार्थं शशंसिरे ॥ ७ ॥

कर्मणस् तु प्रधानत्वम् उवाच त्रिपुरान्तकः ।
क्रियारूपं च तज् ज्ञानं क्रिया सैव तद् उच्यते ॥ ८ ॥

तस्मात् सर्वाणि भूतानि कर्मणा सिद्धिम् आप्नुयुः ।
कर्मैव विश्वतोव्यापि तदृते नास्ति किञ्चन ॥ ९ ॥

विद्याभ्यासो यज्ञकृतिर् योगाभ्यासः शिवार्चनम् ।
सर्वं कर्मैव नाकर्मी प्राणी क्वाप्य् अत्र विद्यते ॥ १० ॥

कर्मैव कारणं तस्माद् अन्यद् उन्मत्तचेष्टितम् ।
ऋषीणां यत्र संवादो यत्र देवो महेश्वरः ॥ ११ ॥

चकार निर्णयं सर्वं कर्मणावाप्यते नृभिः ।
मार्कण्डं मुख्यतः कृत्वा ततो मार्कण्डम् उच्यते ॥ १२ ॥

तीर्थम् ऋषिगणाकीर्णं गङ्गाया उत्तरे तटे ।
पितॄणां पावनं पुण्यं स्मरणाद् अपि सर्वदा ॥ १३ ॥

तत्राष्टौ नवतिस् तात तीर्थान्य् आह जगन्मयः ।
वेदेन चापि तत् प्रोक्तम् ऋषयो मेनिरे च तत् ॥ १४ ॥