144

Summary (SA)

Chapter 144- Ātreyī, Aṅgiras, and Agni (the fire)

{{Ref- SS 237-238}}

ब्रह्मोवाच-

परुष्णीसङ्गमं चेति तीर्थं त्रैलोक्यविश्रुतम् ।
तस्य स्वरूपं वक्ष्यामि शृणु पापविनाशनम् ॥ १ ॥

अत्रिर् आराधयाम् आस ब्रह्मविष्णुमहेश्वरान् ।
तेषु तुष्टेषु स प्राह पुत्रा यूयं भविष्यथ ॥ २ ॥

तथा चैका रूपवती कन्या मम भवेत् सुराः ।
तथा पुत्रत्वम् आपुस् ते ब्रह्मविष्णुमहेश्वराः ॥ ३ ॥

कन्यां च जनयाम् आस शुभात्रेयीति नामतः ।
दत्तः सोमो ऽथ दुर्वासाः पुत्रास् तस्य महात्मनः ॥ ४ ॥

अग्नेर् अङ्गिरसो जातो ह्य् अङ्गारैर् अङ्गिरा यतः ।
तस्माद् अङ्गिरसे प्रादाद् आत्रेयीम् अतिरोचिषम् ॥ ५ ॥

अग्नेः प्रभावात् परुषम् आत्रेयीं सर्वदावदत् ।
आत्रेय्य् अपि च शुश्रूषां कुर्वती सर्वदाभवत् ॥ ६ ॥

तस्याम् आङ्गिरसा जाता महाबलपराक्रमाः ।
अङ्गिराः परुषं वादीद् आत्रेयीं नित्यम् एव च ॥ ७ ॥

पुत्रास् त्व् आङ्गिरसा नित्यं पितरं शमयन्ति ते ।
सा कदाचिद् भर्तृवाक्याद् उद्विग्ना परुषाक्षरात् ।
कृताञ्जलिपुटा दीना प्राब्रवीच् छ्वशुरं गुरुम् ॥ ८ ॥

आत्रेय्य् उवाच-

अत्रिजाहं हव्यवाह भार्या तव सुतस्य वै ।
शुश्रूषणपरा नित्यं पुत्राणां भर्तुर् एव च ॥ ९ ॥

पतिर् मां परुषं वक्ति वृथैवोद्वीक्षते रुषा ।
प्रशाधि मां सुरज्येष्ठ भर्तारं मम दैवतम् ॥ १० ॥

ज्वलन उवाच-

अङ्गारेभ्यः समुद्भूतो भर्ता ते ह्य् अङ्गिरा ऋषिः ।
यथा शान्तो भवेद् भद्रे तथा नीतिर् विधीयताम् ॥ ११ ॥

आग्नेयो ऽग्निं समायातो तव भर्ता वरानने ।
तदा त्वं जलरूपेण प्लावयेथा मदाज्ञया ॥ १२ ॥

आत्रेय्य् उवाच-

सहेयं परुषं वाक्यं मा भर्ताग्निं समाविशेत् ।
भर्तरि प्रतिकूलानां योषितां जीवनेन किम् ॥ १३ ॥

इच्छेयं शान्तिवाक्यानि भर्तारं लभते तथा ॥ १४ ॥

ज्वलन उवाच-

अग्निस् त्व् अप्सु शरीरेषु स्थावरे जङ्गमे तथा ।
तव भर्तुर् अहं धाम नित्यं च जनको मतः ॥ १५ ॥

यो ऽहं सो ऽहम् इति ज्ञात्वा न चिन्तां कर्तुम् अर्हसि ।
किं चापो मातरो देव्यो ह्य् अग्निः श्वशुर इत्य् अपि ।
इति बुद्ध्या विनिश्चित्य मा विषण्णा भव स्नुषे ॥ १६ ॥

स्नुषोवाच-

आपो जनन्य इति यद् बभाषे ।
अग्नेर् अहं तव पुत्रस्य भार्या ।
कथं भूत्वा जननी चापि भार्या ।
विरुद्धम् एतज् जलरूपेण नाथ ॥ १७ ॥

ज्वलन उवाच-

आदौ तु पत्नी भरणात् तु भार्या ।
जनेस् तु जाया स्वगुणैः कलत्रम् ।
इत्यादिरूपाणि बिभर्षि भद्रे ।
कुरुष्व वाक्यं मदुदीरितं यत् ॥ १८ ॥

यो ऽस्यां प्रजातः स तु पुत्र एव ।
सा तस्य मातैव न संशयो ऽत्र ।
तस्माद् वदन्ति श्रुतितत्त्वविज्ञाः ।
सा नैव योषित् तनये ऽभिजाते ॥ १९ ॥

ब्रह्मोवाच-

श्वशुरस्य तु तद् वाक्यं श्रुत्वात्रेयी तदैव तत् ।
आग्नेयं रूपम् आपन्नम् अम्भसाप्लावयत् पतिम् ॥ २० ॥

उभौ तौ दम्पती ब्रह्मन् सङ्गतौ गाङ्गवारिणा ।
शान्तरूपधरौ चोभौ दम्पती सम्बभूवतुः ॥ २१ ॥

लक्ष्म्या युक्तो यथा विष्णुर् उमया शङ्करो यथा ।
रोहिण्या च यथा चन्द्रस् तथाभून् मिथुनं तदा ॥ २२ ॥

भर्तारं प्लावयन्ती सा दधाराम्बुमयं वपुः ।
परुष्णी चेति विख्याता गङ्गया सङ्गता नदी ॥ २३ ॥

गोशतार्पणजं पुण्यं परुष्णीस्नानतो भवेत् ।
तत्र चाङ्गिरसाश् चक्रुर् यज्ञांश् च बहुदक्षिणान् ॥ २४ ॥

तत्र त्रीणि सहस्राणि तीर्थान्य् आहुः पुराणगाः ।
उभयोस् तीरयोस् तात पृथग् यागफलं विदुः ॥ २५ ॥

तेषु स्नानं च दानं च वाजपेयाधिकं मतम् ।
विशेषतस् तु गङ्गायाः परुष्ण्या सह सङ्गमे ॥ २६ ॥

स्नानदानादिभिः पुण्यं यत् तद् वक्तुं न शक्यते ॥ २७ ॥