Summary (SA)
Chapter 143- Rāvaṇa and Śiva
{{Ref- SS 236-237}}
ब्रह्मोवाच-
सिद्धतीर्थम् इति ख्यातं यत्र सिद्धेश्वरो हरः ।
तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥ १ ॥
पुलस्त्यवंशसम्भूतो रावणो लोकरावणः ।
दिशो विजित्य सर्वाश् च सोमलोकम् अजीगमत् ॥ २ ॥
सोमेन सह योत्स्यन्तं दशास्यम् अहम् अब्रवम् ।
मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद् दशानन ॥ ३ ॥
इत्य् उक्त्वाष्टोत्तरं मन्त्रं शतनामभिर् अन्वितम् ।
शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये ॥ ४ ॥
निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम् ।
शरणं शिव एवात्र संसारे ऽन्यो न कश्चन ॥ ५ ॥
ततो निवृत्तः स ह मन्त्रियुक्तस् ।
तत् सोमलोकाज् जयम् आप्य रक्षः ।
स पुष्पकारूढगतिः सगर्वो ।
लोकान् पुनः प्राप जवाद् दशास्यः ॥ ६ ॥
स प्रेक्षमाणो देवम् अन्तरिक्षं ।
भुवं च नागांश् च गजांश् च विप्रान् ।
आलोकयाम् आस नगं महान्तं ।
कैलासम् आवास उमापतेर् यः ॥ ७ ॥
दृष्ट्वा स्मयोत्फुल्लदृग् अद्रिराजं ।
स मन्त्रिणौ रावण इत्य् उवाच ॥ ८ ॥
रावण उवाच-
को वा गिराव् अत्र वसेन् महात्मा ।
गिरिं नयाम्य् एनम् अथाधि भूमेः ।
लङ्कागतो ऽयं गिरिर् आशु शोभां ।
लङ्कापि सत्यं श्रियम् आतनोति ॥ ९ ॥
ब्रह्मोवाच-
इत्थं वचो राक्षसमन्त्रिणौ तौ ।
निशम्य रक्षोधिपतेश् च भावम् ।
न युक्तम् इत्य् ऊचतुर् इष्टबुद्ध्या ।
निशाचरस् तद्वचनं न मेने ॥ १० ॥
संस्थाप्य तत् पुष्पकम् आशु रक्षः ।
पुप्लाव कैलासगिरेश् च मूले ।
हिन्दोलयाम् आस गिरिं दशास्यो ।
ज्ञात्वा भवः कृत्यम् इदं चकार ॥ ११ ॥
जित्वा दिगीशांश् च सगर्वितस्य ।
कैलासम् आन्दोलयतः सुरारेः ।
लोकांश् च यातस्य दशाननस्य ॥ १२ ॥
आलूनकायस्य गिरं निशम्य ।
विहस्य देव्या सह दत्तम् इष्टम् ।
तस्मै प्रसन्नः कुपितो ऽपि शम्भुर् ।
अयुक्तदातेति न संशयो ऽत्र ॥ १३ ॥
ततो ऽयम् आवाप्य वरान् सुवीरो ।
भवप्रसादात् कुसुमं जगाम ।
गच्छन् स लङ्कां भवपूजनाय ।
गङ्गाम् अगाच् छम्भुजटाप्रसूताम् ॥ १४ ॥
सम्पूजयित्वा विविधैश् च मन्त्रैर् ।
गङ्गाजलैः शम्भुम् अदीनसत्त्वः ।
असिं स लेभे शशिखण्डभूषात् ।
सिद्धिं च सर्वर्द्धिम् अभीप्सितां च ॥ १५ ॥
मद्दत्तमन्त्रं शशिरक्षणाय ।
स साधयाम् आस भवं प्रपूज्य ।
सिद्धे तु मन्त्रे पुनर् एव लङ्काम् ।
अयात् स रक्षोधिपतिः स तुष्टः ॥ १६ ॥
ततः प्रभृत्य् एतद् अतिप्रभावं ।
तीर्थं महासिद्धिदम् इष्टदं च ।
समस्तपापौघविनाशनं च ।
सिद्धैर् अशेषैः परिसेवितं च ॥ १७ ॥