Summary (SA)
Chapter 142- Meghahāsa and the gods
{{Ref- SS 235-236}}
ब्रह्मोवाच-
देवस्थानम् इति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १ ॥
पुरा कृतयुगस्यादौ देवदानवसङ्गरे ।
प्रवृत्ते वा सिंहिकेति विख्याता दैत्यसुन्दरी ॥ २ ॥
तस्याः पुत्रो महादैत्यो राहुर् नाम महाबलः ।
अमृते तु समुत्पन्ने सैंहिकेये च भेदिते ॥ ३ ॥
तस्य पुत्रो महादैत्यो मेघहास इति श्रुतः ।
पितरं घातितं श्रुत्वा तपस् तेपे ऽतिदुःखितः ॥ ४ ॥
तपस्यन्तं राहुसुतं गौतमीतीरम् आश्रितम् ।
देवाश् च ऋषयः सर्वे तम् ऊचुर् अतिभीतवत् ॥ ५ ॥
देवर्षय ऊचुः-
तपो जहि महाबाहो यत् ते मनसि संस्थितम् ।
सर्वं भवतु नामेदं शिवगङ्गाप्रसादतः ।
शिवगङ्गाप्रसादेन किं नामास्त्य् अत्र दुर्लभम् ॥ ६ ॥
मेघहास उवाच-
परिभूतः पिता पूज्यो युष्माभिर् मम दैवतम् ।
तस्यापि मम चात्यन्तं प्रीतिश् च क्रियते यदि ॥ ७ ॥
भवद्भिस् तपसो ऽस्माच् च अहं वैरान् निवर्तये ।
वैरनिर्यातनं कार्यं पुत्रेण पितुर् आदरात् ।
प्रार्थयन्ते भवन्तश् चेत् पूर्णास् तन् मे मनोरथाः ॥ ८ ॥
ब्रह्मोवाच-
ततः सुरगणाः सर्वे राहुं चक्रुर् ग्रहानुगम् ।
तं चापि मेघहासं ते चक्रू राक्षसपुङ्गवम् ॥ ९ ॥
ततो ऽभवद् राहुसुतो नैरृताधिपतिः प्रभुः ।
पुनश् चाह सुरान् दैत्यो मम ख्यातिर् यथा भवेत् ॥ १० ॥
तीर्थस्यास्य प्रभावश् च दातव्य इति मे मतिः ।
तथेत्य् उक्त्वा ददुर् देवाः सर्वम् एव मनोगतम् ॥ ११ ॥
दैत्येश्वरस्य देवर्षे तन्नाम्ना तीर्थम् उच्यते ।
देवा यतो ऽभवन् सर्वे तत्र स्थाने महामते ॥ १२ ॥
देवस्थानं तु तत् तीर्थं देवानाम् अपि दुर्लभम् ।
यत्र देवेश्वरो देवो देवतीर्थं ततः स्मृतम् ॥ १३ ॥
तत्राष्टादश तीर्थानि दैत्यपूज्यानि नारद ।
तेषु स्नानं च दानं च महापातकनाशनम् ॥ १४ ॥