141

Summary (SA)

Chapter 141- Pṛthu and the earth

{{Ref- SS 234-235}}

ब्रह्मोवाच-

कपिलासङ्गमं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
तत्र नारद वक्ष्यामि कथां पुण्याम् अनुत्तमाम् ॥ १ ॥

कपिलो नाम तत्त्वज्ञो मुनिर् आसीन् महायशाः ।
क्रूरश् चापि प्रसन्नश् च तपोव्रतपरायणः ॥ २ ॥

तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरम् आश्रितम् ।
तम् आगत्य महात्मानं वामदेवादयो ऽब्रुवन् ॥ ३ ॥

हत्वा वेनं ब्रह्मशापैर् नष्टधर्मे त्व् अराजके ।
कपिलं सिद्धम् आचार्यम् ऊचुर् मुनिगणास् तदा ॥ ४ ॥

मुनिगणा ऊचुः-

गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर ॥ ५ ॥

ब्रह्मोवाच-

ततो ऽब्रवीन् मुनिर् ध्यात्वा कपिलस् त्व् आगतान् मुनीन् ॥ ६ ॥

कपिल उवाच-

वेनस्योरुर् विमथ्यो ऽभूत् ततः कश्चिद् भविष्यति ॥ ७ ॥

ब्रह्मोवाच-

तथैव चक्रुर् मुनयो वेनस्योरुं विमथ्य वै ।
तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः ॥ ८ ॥

तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन् ।
निषादः सो ऽभवत् तस्मान् निषादाश् चाभवंस् ततः ॥ ९ ॥

वेनबाहुं ममन्थुस् ते दक्षिणं धर्मसंहितम् ।
ततः पृथुस्वरश् चैव सर्वलक्षणलक्षितः ॥ १० ॥

राजाभवत् पृथुः श्रीमान् ब्रह्मसामर्थ्यसंयुतः ।
तम् आगत्य सुराः सर्वे अभिनन्द्य वराञ् शुभान् ॥ ११ ॥

तस्मै ददुस् तथास्त्राणि मन्त्राणि गुणवन्ति च ।
ततो ऽब्रुवन् मुनिगणास् तं पृथुं कपिलेन च ॥ १२ ॥

मुनय ऊचुः-

आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीर् अपि ॥ १३ ॥

ब्रह्मोवाच-

ततः स धनुर् आदाय भुवम् आह नृपोत्तमः ॥ १४ ॥

पृथुर् उवाच-

ओषधीर् देहि या ग्रस्ताः प्रजानां हितकाम्यया ॥ १५ ॥

ब्रह्मोवाच-

तम् उवाच मही भीता पृथुं तं पृथुलोचनम् ॥ १६ ॥

मह्य् उवाच-

मयि जीर्णा महौषध्यः कथं दातुम् अहं क्षमा ॥ १७ ॥

ब्रह्मोवाच-

ततः सकोपो नृपतिस् ताम् आह पृथिवीं पुनः ॥ १८ ॥

पृथुर् उवाच-

नो चेद् ददास्य् अद्य त्वां वै हत्वा दास्ये महौषधीः ॥ १९ ॥

भूमिर् उवाच-

कथं हंसि स्त्रियं राजञ् ज्ञानी भूत्वा नृपोत्तम ।
विना मया कथं चेमाः प्रजाः सन्धारयिष्यसि ॥ २० ॥

पृथुर् उवाच-

यत्रोपकारो ऽनेकानाम् एकनाशे भविष्यति ।
न दोषस् तत्र पृथिवि तपसा धारये प्रजाः ॥ २१ ॥

न दोषम् अत्र पश्यामि नाचक्षे ऽनर्थकं वचः ।
यस्मिन् निपातिते सौख्यं बहूनाम् उपजायते ।
मुनयस् तद्वधं प्राहुर् अश्वमेधशताधिकम् ॥ २२ ॥

ब्रह्मोवाच-

ततो देवाश् च ऋषयः सान्त्वयित्वा नृपोत्तमम् ।
महीं च मातरं देवीम् ऊचुः सुरगणास् तदा ॥ २३ ॥

देवा ऊचुः-

भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः ।
देहि त्वं पृथवे राज्ञे ततः प्रीतो भवेन् नृपः ।
प्रजासंरक्षणं च स्यात् ततः क्षेमं भविष्यति ॥ २४ ॥

ब्रह्मोवाच-

ततो गोरूपम् आस्थाय भूम्य् आसीत् कपिलान्तिके ।
दुदोह च महौषध्यो राजा वेनकरोद्भवः ॥ २५ ॥

यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः ।
महीं गोरूपम् आपन्नां नर्मदायां महामुने ॥ २६ ॥

सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः ।
महानदीषु सर्वासु दुदुहे ऽसौ पयो महत् ॥ २७ ॥

सा दुह्यमाना पृथुना पुण्यतोयाभवन् नदी ।
गौतम्या सङ्गता चाभूत् तद् अद्भुतम् इवाभवत् ॥ २८ ॥

ततः प्रभृति तत् तीर्थं कपिलासङ्गमं विदुः ।
तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते ॥ २९ ॥

तीर्थान्य् आहुर् मुनिगणाः स्मरणाद् अपि नारद ।
पावनानि जगत्य् अस्मिंस् तानि सर्वाण्य् अनुक्रमात् ॥ ३० ॥