Summary (SA)
Chapter 140- Ātreya as Indra
{{Ref- SS 232-234}}
ब्रह्मोवाच-
आत्रेयम् इति विख्यातम् अन्विन्द्रं तीर्थम् उत्तमम् ।
तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ १ ॥
गौतम्या उत्तरे तीर आत्रेयो भगवान् ऋषिः ।
अन्वारेभे ऽथ सत्त्राणि ऋत्विग्भिर् मुनिभिर् वृतः ॥ २ ॥
तस्य होताभवत् त्व् अग्निर् हव्यवाहन एव च ।
एवं सत्त्रे तु सम्पूर्ण इष्टिं माहेश्वरीं पुनः ॥ ३ ॥
कृत्वैश्वर्यम् अगाद् विप्रः सर्वत्र गतिम् एव च ।
इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम् ॥ ४ ॥
स्वेच्छया याति विप्रेन्द्रः प्रभावात् तपसः शुभात् ।
स कदाचिद् दिवं गत्वा इन्द्रलोकम् अगात् पुनः ॥ ५ ॥
तत्रापश्यत् सहस्राक्षं सुरैः परिवृतं शुभैः ।
स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यम् उत्तमम् ।
शृण्वानं मधुरं गीतम् अप्सरोभिश् च वीजितम् ॥ ६ ॥
उपोपविष्टैः सुरनायकैस् तैः ।
सम्पूज्यमानं महदासनस्थम् ।
जयन्तम् अङ्के विनिधाय सूनुं ।
शच्या युतं प्राप्तरतिं महिष्ठम् ॥ ७ ॥
सतां शरण्यं वरदं महेन्द्रं ।
समीक्ष्य विप्राधिपतिर् महात्मा ।
विमोहितो ऽसौ मुनिर् इन्द्रलक्ष्म्या ।
समीहयाम् आस तद् इन्द्रराज्यम् ॥ ८ ॥
सम्पूजितो देवगणैर् यथावत् ।
स्वम् आश्रमं वै पुनर् आजगाम ।
समीक्ष्य तां शक्रपुरीं सुरम्यां ।
रत्नैर् युतां पुण्यगुणैः सुपूर्णाम् ॥ ९ ॥
स्वम् आश्रमं निष्प्रभहेमवर्ज्यं ।
समीक्ष्य विप्रो विरमं जगाम ।
समीहमानः सुरराज्यम् आशु ।
प्रियां तदोवाच महात्रिपुत्रः ॥ १० ॥
आत्रेय उवाच-
भोक्तुं न शक्तो ऽस्मि फलानि मूलान्य् ।
अनुत्तमान्य् अप्य् अतिसंस्कृतानि ।
स्मृत्वामृतं पुण्यतमं च तत्र ।
भक्ष्यं च भोज्यं च वरासनानि ।
स्तुतिं च दानं च सभां शुभां च ।
अस्त्रं च वासांसि पुरीं वनानि ॥ ११ ॥
ब्रह्मोवाच-
ततो महात्मा तपसः प्रभावात् ।
त्वष्टारम् आहूय वचो बभाषे ॥ १२ ॥
आत्रेय उवाच-
इच्छेयम् इन्द्रत्वम् अहं महात्मन् ।
कुरुष्व शीघ्रं पदम् ऐन्द्रम् अत्र ।
ब्रूषे ऽन्यथा चेन् मदुदीरितं त्वं ।
भस्मीकरोम्य् एव न संशयो ऽत्र ॥ १३ ॥
ब्रह्मोवाच-
तदत्रिवाक्यात् त्वरितः प्रजानां ।
स्रष्टा विभुर् विश्वकर्मा तदैव ।
चकार मेरुं च पुरीं सुराणां ।
कल्पद्रुमान् कल्पलतां च धेनुम् ॥ १४ ॥
चकार वज्रादिविभूषितानि ।
गृहाणि शुभ्राण्य् अतिचित्रितानि ।
चकार सर्वावयवानवद्यां ।
शचीं स्मरस्येव विहारशालाम् ॥ १५ ॥
सभां सुधर्माणम् अहो क्षणेन ।
तथा चकाराप्सरसो मनोज्ञाः ।
चकार चोच्चैःश्रवसं गजं च ।
वज्रादि चास्त्राणि सुरान् अशेषान् ॥ १६ ॥
निवार्यमाणः प्रिययात्रिपुत्रः ।
शचीसमाम् आत्मवधूं चकार ।
तदात्रिपुत्रो ऽत्रिमुखैः समेतो ।
वज्रादिरूपं च चकार चास्त्रम् ॥ १७ ॥
नृत्यादि गीतादि च सर्वम् एव ।
चकार शक्रस्य पुरे च दृष्टम् ।
तत् सर्वम् आसाद्य तदा मुनीन्द्रः ।
प्रहृष्टचेताः सुतरां बभूव ॥ १८ ॥
आपातरम्येष्व् अपि कस्य नाम ।
भवत्य् अपेक्षा नहि गोचरेषु ।
श्रुत्वा च दैत्या दनुजाः समेता ।
रक्षांसि कोपेन युतानि सद्यः ॥ १९ ॥
स्वर्गं परित्यज्य कुतो हरिर् भुवं ।
समागतो न्व् एष मिथः सुखाय ।
तस्माद् वयं याम इतो नु योद्धुं ।
वृत्रस्य हन्तारम् अदीर्घसत्त्रम् ॥ २० ॥
ततः समागत्य तदात्रिपुत्रं ।
संवेष्टयाम् आसुर् अथासुरास् ते ।
कृतं तथा चेन्द्रपुराभिधानम् ।
तैर् वध्यमानः शस्त्रपातैर् महद्भिस् ।
ततो भीतो वाक्यम् इदं जगाद ॥ २१ ॥
आत्रेय उवाच-
यो जात एव प्रथमो मनस्वान् ।
देवो देवान् क्रतुना पर्यभूषत् ।
यस्य शुष्माद् रोदसी अभ्यसेतां ।
नृम्णस्य मह्ना स जनास इन्द्रः ॥ २२ ॥
ब्रह्मोवाच-
इत्यादिसूक्तेन रिपून् उवाच ।
हरिं च तुष्टाव तदात्रिपुत्रः ॥ २३ ॥
आत्रेय उवाच-
नाहं हरिर् नैव शची मदीया ।
नेयं पुरी नैव वनं तद् ऐन्द्रम् ।
स एव चेन्द्रो वृत्रहन्ता स वज्री ।
सहस्राक्षो गोत्रभिद् वज्रबाहुः ॥ २४ ॥
अहं तु विप्रो वेदविद् ब्रह्मवृन्दैः ।
समाविष्टो गौतमीतीरसंस्थः ।
यत्रायत्यां नाद्य वा सौख्यहेतुस् ।
तच् चाकार्षं कर्म दुर्दैवयोगात् ॥ २५ ॥
असुरा ऊचुः-
संहरस्वेदम् आत्रेय यद् इन्द्रस्य विडम्बनम् ।
क्षेमस् ते भविता सत्यं नान्यथा मुनिसत्तम ॥ २६ ॥
ब्रह्मोवाच-
तदात्रेयो ऽब्रवीद् वाक्यं यथा वक्ष्यन्ति माम् इह ।
करोम्य् एव महाभागाः सत्येनाग्निं समालभे ॥ २७ ॥
एवम् उक्त्वा स दैतेयांस् त्वष्टारं पुनर् अब्रवीत् ॥ २८ ॥
आत्रेय उवाच-
यत् कृतं त्व् अत्र मत्प्रीत्याऐ ऐन्द्रं त्वष्टः पदं त्वया ।
संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम् ॥ २९ ॥
पुनर् देहि पदं मह्यम् आश्रमं मृगपक्षिणः ।
वृक्षांश् च वारि यत्रासीन् न मे दिव्यैः प्रयोजनम् ।
सर्वम् अक्रमम् आयातं न सुखाय मनीषिणाम् ॥ ३० ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा प्रजानाथस् त्वष्टा संहृतवांस् तदा ।
दैत्याश् च जग्मुः स्वस्थानं कृत्वा देशम् अकण्टकम् ॥ ३१ ॥
त्वष्टा चापि ययौ स्थानं स्वकं सम्प्रहसन्न् इव ।
आत्रेयो ऽपि तदा शिष्यैः संवृतः सह भार्यया ॥ ३२ ॥
गौतमीतीरम् आश्रित्य तपोनिष्ठो ऽखिलैर् वृतः ।
वर्तमाने महायज्ञे लज्जितो वाक्यम् अब्रवीत् ॥ ३३ ॥
आत्रेय उवाच-
अहो मोहस्य महिमा ममापि भ्रान्तचित्तता ।
किं महेन्द्रपदं लब्धं किं मयात्र पुरा कृतम् ॥ ३४ ॥
ब्रह्मोवाच-
एवं वदन्तम् आत्रेयं लज्जितं प्राब्रुवन् सुराः ॥ ३५ ॥
सुरा ऊचुः-
लज्जां जहि महाबाहो भविता ख्यातिर् उत्तमा ।
आत्रेयतीर्थे ये स्नानं प्राणिनः कुर्युर् अञ्जसा ॥ ३६ ॥
इन्द्रास् ते भवितारो वै स्मरणात् सुखभागिनः ।
तत्र पञ्च सहस्राणि तीर्थान्य् आहुर् मनीषिणः ॥ ३७ ॥
अन्विन्द्रात्रेयदैतेयनामभिः कीर्तितानि च ।
तेषु स्नानं च दानं च सर्वम् अक्षयपुण्यदम् ॥ ३८ ॥
ब्रह्मोवाच-
इत्य् उक्त्वा विबुधा याताः सन्तुष्टश् चाभवन् मुनिः ॥ ३९ ॥