139

Summary (SA)

Chapter 139- Pailūṣa’s thirst' and the sword of knowledge'

{{Ref- SS 231-232}}

ब्रह्मोवाच-

खड्गतीर्थम् इति ख्यातं गौतम्या उत्तरे तटे ।
तत्र स्नानेन दानेन मुक्तिभागी भवेन् नरः ॥ १ ॥

तत्र वृत्तं प्रवक्ष्यामि शृणु नारद यत्नतः ।
पैलूष इति विख्यातः कवषस्य सुतो द्विजः ॥ २ ॥

कुटुम्बभारात् परितो ह्य् अर्थार्थी परिधावति ।
न किमप्य् आससादासौ ततो वैराग्यम् आस्थितः ॥ ३ ॥

अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे ।
न वैराग्याद् अन्यद् अस्ति पण्डितस्यावलम्बनम् ॥ ४ ॥

इति सञ्चिन्तयाम् आस तदासौ निःश्वसन् मुहुः ।
क्रमागतं धनं नास्ति पोष्याश् च बहवो मम ॥ ५ ॥

मानी चात्मा न कष्टार्हो हा धिग् दुर्दैवचेष्टितम् ।
स कदाचिद् वृत्तियुतो वृत्तिभिः परिवर्तयन् ॥ ६ ॥

न लेभे तद् धनं वृत्तेर् विरागम् अगमत् तदा ।
सेवा निषिद्धा या काचिद् गहना दुष्करं तपः ॥ ७ ॥

बलाद् आकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते ।
त्वयापकृतम् अज्ञानात् तस्मात् तृष्णे नमो ऽस्तु ते ॥ ८ ॥

एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत् ।
इत्य् आलोच्य स पैलूषः पितरं वाक्यम् अब्रवीत् ॥ ९ ॥

पैलूष उवाच-

ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम् ।
छेद्मीमां केन हे तात तम् उपायं वद प्रभो ॥ १० ॥

कवष उवाच-

ईश्वराज् ज्ञानम् अन्विच्छेद् इत्य् एषा वैदिकी श्रुतिः ।
तस्माद् आराधयेशानं ततो ज्ञानम् अवाप्स्यसि ॥ ११ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा स पैलूषो ज्ञानायेश्वरम् आर्चयत् ।
ततस् तुष्टो महेशानो ज्ञानं प्रादाद् द्विजातये ।
प्राप्तज्ञानो महाबुद्धिर् गाथाः प्रोवाच मुक्तिदाः ॥ १२ ॥

पैलूष उवाच-

क्रोधस् तु प्रथमं शत्रुर् निष्फलो देहनाशनः ।
ज्ञानखड्गेन तं छित्त्वा परमं सुखम् आप्नुयात् ॥ १३ ॥

तृष्णा बहुविधा माया बन्धनी पापकारिणी ।
छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः ॥ १४ ॥

सङ्गस् तु परमो ऽधर्मो देवादीनाम् इति श्रुतिः ।
असङ्गस्यात्मनो ह्य् अस्य सङ्गो ऽयं परमो रिपुः ॥ १५ ॥

छित्त्वैनं ज्ञानखड्गेन शिवैकत्वम् अवाप्नुयात् ।
संशयः परमो नाशो धर्मार्थानां विनाशकृत् ॥ १६ ॥

छित्त्वैनं संशयं जन्तुः परमेप्सितम् आप्नुयात् ।
पिशाचीव विशत्य् आशा निर्दहत्य् अखिलं सुखम् ।
पूर्णाहन्तासिना छित्त्वा जीवन् मुक्तिम् अवाप्नुयात् ॥ १७ ॥

ब्रह्मोवाच-

ततो ज्ञानम् अवाप्यासौ गङ्गातीरं समाश्रितः ।
ज्ञानखड्गेन निर्मोहस् ततो मुक्तिम् अवाप सः ॥ १८ ॥

ततः प्रभृति तत् तीर्थं खड्गतीर्थम् इति स्मृतम् ।
ज्ञानतीर्थं च कवषं पैलूषं सर्वकामदम् ॥ १९ ॥

इत्यादिषट्सहस्राणि तीर्थान्य् आहुर् महर्षयः ।
अशेषपापतापौघहराणीष्टप्रदानि च ॥ २० ॥