138

Summary (SA)

Chapter 138- Story of Madhuchandas, family-priest of King Śaryāti

{{Ref- SS 230-231}}

ब्रह्मोवाच-

भानुतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् ।
तत्रेदं वृत्तम् आख्यास्ये महापातकनाशनम् ॥ १ ॥

शर्यातिर् इति विख्यातो राजा परमधार्मिकः ।
तस्य भार्या स्थविष्ठेति रूपेणाप्रतिमा भुवि ॥ २ ॥

मधुच्छन्दा इति ख्यातो वैश्वामित्रो द्विजोत्तमः ।
पुरोधास् तस्य नृपतेर् ब्रह्मर्षिः शमिनां प्रभुः ॥ ३ ॥

दिशो विजेतुं स जगाम राजा ।
पुरोधसा तेन नृपप्रवीरः ।
पुरोधसं प्राह महानुभावं ।
जित्वा दिशश् चाध्वनि सन्निविष्टः ॥ ४ ॥

पप्रच्छेदं केन खेदं गतो ऽसि ।
हेतुं वदस्वेति महानुभाव ।
त्वम् एव राज्ये मम सर्वमान्यः ।
समस्तविद्यानिरवद्यबोधः ॥ ५ ॥

विधूतपापः परितापशून्यः ।
किम् अन्यचेता इव लक्ष्यसे त्वम् ।
जितेयम् उर्वी विजिता नरेन्द्रा ।
हर्षस्य हेतौ महतीह जाते ॥ ६ ॥

किं त्वं कृशो मे वद सत्यम् एव ।
द्विजातिवर्यातिमहानुभाव ।
सम्बोध्य शर्यातिम् उवाच विप्रश् ।
छन्दोमधुः प्रेममयीं प्रियोक्तिम् ॥ ७ ॥

मधुच्छन्दा उवाच-

शृणु भूपाल मद्वाक्यं भार्यया यद् उदीरितम् ।
स्थिते यामे वयं यामो यामिनी चार्धगामिनी ॥ ८ ॥

स्वामिनी चास्य देहस्य कामिनी मां प्रतीक्षते ।
स्मृत्वा तत् कामिनीवाक्यं शोषं याति कलेवरम् ।
विकारे स्मरसञ्जाते जीवातुर् नलिनानना ॥ ९ ॥

ब्रह्मोवाच-

विहस्य चाब्रवीद् राजा पुरोधसम् अरिन्दमः ॥ १० ॥

राजोवाच-

त्वं गुरुर् मम मित्रं च किम् आत्मानं विडम्बसे ।
किम् अनेन महाप्राज्ञ मम वाक्येन मानद ।
क्षणविध्वंसिनि सुखे का नामास्था महात्मनाम् ॥ ११ ॥

ब्रह्मोवाच-

एतद् आकर्ण्य मतिमान् मधुच्छन्दा वचो ऽब्रवीत् ॥ १२ ॥

मधुच्छन्दा उवाच-

यत्रानुकूल्यं दम्पत्योस् त्रिवर्गस् तत्र वर्धते ।
न चेदं दूषणं राजन् भूषणं चातिमन्यताम् ॥ १३ ॥

ब्रह्मोवाच-

आजगाम स्वकं देशं महत्या सेनया वृतः ।
परीक्षार्थं च तत्प्रेम पुर्यां वार्त्ताम् अदीदिशत् ॥ १४ ॥

दिशो विजेतुं शर्यातौ याते राक्षसपुङ्गवः ।
हत्वा रसातलं यातो राजानं सपुरोधसम् ॥ १५ ॥

राज्ञो भार्या निश्चयाय प्रवृत्ता मुनिसत्तम ।
वार्त्तां श्रुत्वा दूतमुखान् मधुच्छन्दःप्रिया पुनः ॥ १६ ॥

तदैवाभूद् गतप्राणा तद् विचित्रम् इवाभवत् ।
तस्या वृत्तं तु ते दृष्ट्वा दूता राज्ञे न्यवेदयन् ॥ १७ ॥

यत् कृतं राजपत्नीभिः प्रियया च पुरोधसः ।
विस्मितो दुःखितो राजा पुनर् दूतान् अभाषत ॥ १८ ॥

राजोवाच-

शीघ्रं गच्छन्तु हे दूता ब्राह्मण्या यत् कलेवरम् ।
रक्षन्तु वार्त्तां कुरुत राजागन्ता पुरोधसा ॥ १९ ॥

ब्रह्मोवाच-

इति चिन्तातुरे राज्ञि वाग् उवाचाशरीरिणी ॥ २० ॥

आकाशवाग् उवाच-

विधास्यत्य् अखिलं गङ्गा राजंस् तव समीहितम् ।
सर्वाभिषङ्गशमनी पावनी भुवि गौतमी ॥ २१ ॥

ब्रह्मोवाच-

एतच् छ्रुत्वा स शर्यातिर् गौतमीतटम् आश्रितः ।
ब्राह्मणेभ्यो धनं दत्त्वा तर्पयित्वा पितॄन् द्विजान् ॥ २२ ॥

पुरोहितं द्विजश्रेष्ठं प्रेषयित्वा धनान्वितम् ।
अन्यत्र तीर्थे सार्थेषु दानं देहि प्रयत्नतः ॥ २३ ॥

एतत् सर्वं न जानाति राज्ञः कृत्यं पुरोहितः ।
गते तस्मिन् गुरौ राजा वैश्वामित्रे महात्मनि ॥ २४ ॥

सर्वं बलं प्रेषयित्वा गङ्गातीरे ऽग्निम् आविशत् ।
इत्य् उक्त्वा स तु राजेन्द्रो गङ्गां भानुं सुरान् अपि ॥ २५ ॥

यदि दत्तं यदि हुतं यदि त्राता प्रजा मया ।
तेन सत्येन सा साध्वी ममायुष्येण जीवतु ॥ २६ ॥

इत्य् उक्त्वाग्नौ प्रविष्टे तु शर्यातौ नृपसत्तमे ।
तदैव जीविता भार्या राज्ञस् तस्य पुरोधसः ॥ २७ ॥

अग्निप्रविष्टं राजानं श्रुत्वा विस्मयकारणम् ।
पतिव्रतां तथा भार्यां मृतां जीवान्वितां पुनः ॥ २८ ॥

तदर्थं चापि राजानं त्यक्तात्मानं विशेषतः ।
आत्मनश् च पुनः कृत्यम् अस्मरन् नृपतेर् गुरुः ॥ २९ ॥

अहम् अप्य् अग्निम् आवेक्ष्य उत यास्ये प्रियान्तिकम् ।
अथवेह तपस् तप्स्ये ततो निश्चयवान् द्विजः ॥ ३० ॥

एतद् एवात्मनः कृत्यं मन्ये सुकृतम् एव च ।
जीवयामि च राजानं ततो यामि प्रियां पुनः ॥ ३१ ॥

एतद् एव शुभं मे स्यात् ततस् तुष्टाव भास्करम् ।
न ह्य् अन्यः कोपि देवो ऽस्ति सर्वाभीष्टप्रदो रवेः ॥ ३२ ॥

मधुच्छन्दा उवाच-

नमो ऽस्तु तस्मै सूर्याय मुक्तये ऽमिततेजसे ।
छन्दोमयाय देवाय ओङ्कारार्थाय ते नमः ॥ ३३ ॥

विरूपाय सुरूपाय त्रिगुणाय त्रिमूर्तये ।
स्थित्युत्पत्तिविनाशानां हेतवे प्रभविष्णवे ॥ ३४ ॥

ब्रह्मोवाच-

ततः प्रसन्नः सूर्यो ऽभूद् वरयस्वेत्य् अभाषत ॥ ३५ ॥

मधुच्छन्दा उवाच-

राजानं देहि देवेश भार्यां च प्रियवादिनीम् ।
आत्मनश् च शुभान् पुत्रान् राज्ञश् चैव शुभान् वरान् ॥ ३६ ॥

ब्रह्मोवाच-

ततः प्रादाज् जगन्नाथः शर्यातिं रत्नभूषितम् ।
तां च भार्यां वरान् अन्यान् सर्वं क्षेममयं तथा ॥ ३७ ॥

ततो यातः प्रियाविष्टः प्रीतेन च पुरोधसा ।
ययौ सुखी स्वकं देशं तत् तु तीर्थं शुभं स्मृतम् ॥ ३८ ॥

तत्र त्रीणि सहस्राणि तीर्थानि गुणवन्ति च ।
ततः प्रभृति तत् तीर्थं भानुतीर्थम् उदाहृतम् ॥ ३९ ॥

मृतसञ्जीवनं चैव शार्यातं चेति विश्रुतम् ।
माधुच्छन्दसमाख्यातं स्मरणात् पापनुन् मुने ॥ ४० ॥

तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ।
मृतसञ्जीवनं तत् स्याद् आयुरारोग्यवर्धनम् ॥ ४१ ॥