Summary (SA)
Chapter 137- Dispute between Lakṣmī and Poverty
{{Ref- SS 228-230}}
ब्रह्मोवाच-
लक्ष्मीतीर्थम् इति ख्यातं साक्षाल् लक्ष्मीविवर्धनम् ।
अलक्ष्मीनाशनं पुण्यम् आख्यानं शृणु नारद ॥ १ ॥
संवादश् च पुरा त्व् आसील् लक्ष्म्याः पुत्र दरिद्रया ।
परस्परविरोधिन्याव् उभे विश्वं समीयतुः ॥ २ ॥
ताभ्याम् अव्यापृतं वस्तु तन् नास्ति भुवनत्रये ।
मम ज्यैष्ठ्यं मम ज्यैष्ठ्यम् इत्य् ऊचतुर् उभे मिथः ।
अहं पूर्वं समुद्भूता इत्य् आह श्रियम् ओजसा ॥ ३ ॥
श्रीलक्ष्मीर् उवाच-
कुलं शीलं जीवितं वा देहिनाम् अहम् एव तु ।
मया विना देहभाजो जीवन्तो ऽपि मृता इव ॥ ४ ॥
ब्रह्मोवाच-
दरिद्रया च सा प्रोक्ता सर्वेभ्यो ह्य् अधिका ह्य् अहम् ।
मुक्तिर् मदाश्रिता नित्यं दरिद्रैवं वचो ऽब्रवीत् ॥ ५ ॥
कामः क्रोधश् च लोभश् च मदो मात्सर्यम् एव च ।
यत्राहम् अस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ ६ ॥
न भयोद्भूतिर् उन्माद ईर्ष्या उद्धतवृत्तिता ।
यत्राहम् अस्मि तत्रैते न तिष्ठन्ति कदाचन ॥ ७ ॥
दरिद्राया वचः श्रुत्वा लक्ष्मीस् तां प्रत्यभाषत ॥ ८ ॥
लक्ष्मीर् उवाच-
अलङ्कृतो मया जन्तुः सर्वो भवति पूजितः ।
निर्धनः शिवतुल्यो ऽपि सर्वैर् अप्य् अभिभूयते ॥ ९ ॥
देहीति वचनद्वारा देहस्थाः पञ्च देवताः ।
सद्यो निर्गत्य गच्छन्ति धीश्रीह्रीशान्तिकीर्तयः ॥ १० ॥
तावद् गुणा गुरुत्वं च यावन् नार्थयते परम् ।
अर्थी चेत् पुरुषो जातः क्व गुणाः क्व च गौरवम् ॥ ११ ॥
तावत् सर्वोत्तमो जन्तुस् तावत् सर्वगुणालयः ।
नमस्यः सर्वलोकानां यावन् नार्थयते परम् ॥ १२ ॥
कष्टम् एतन् महापापं निर्धनत्वं शरीरिणाम् ।
न मानयति नो वक्ति न स्पृशत्य् अधनं जनः ॥ १३ ॥
अहम् एव ततः श्रेष्ठा दरिद्रे शृणु मे वचः ॥ १४ ॥
ब्रह्मोवाच-
तल् लक्ष्मीवचनं श्रुत्वा दरिद्रा वाक्यम् अब्रवीत् ॥ १५ ॥
दरिद्रोवाच-
वक्तुं न लक्ष्मीर् ज्येष्ठाहम् इति वै लज्जसे मुहुः ।
पापेषु रमसे नित्यं विहाय पुरुषोत्तमम् ॥ १६ ॥
विश्वस्तवञ्चका नित्यं भवती श्लाघसे कथम् ।
सुखं न तादृक् त्वत्प्राप्तौ पश्चात्तापो यथा गुरुः ॥ १७ ॥
न तथा जायते पुंसां सुरया दारुणो मदः ।
त्वत्सन्निधानमात्रेण यथा वै विदुषाम् अपि ॥ १८ ॥
सदैव रमसे लक्ष्मीः प्रायस् त्वं पापकारिषु ।
अहं वसामि योग्येषु धर्मशीलेषु सर्वदा ॥ १९ ॥
शिवविष्ण्वनुरक्तेषु कृतज्ञेषु महत्सु च ।
सदाचारेषु शान्तेषु गुरुसेवोद्यतेषु च ॥ २० ॥
सत्सु विद्वत्सु शूरेषु कृतबुद्धिषु साधुषु ।
निवसामि सदा लक्ष्मीस् तस्माज् ज्यैष्ठ्यं मयि स्थितम् ॥ २१ ॥
ब्राह्मणेषु शुचिष्मत्सु व्रतचारिषु भिक्षुषु ।
निर्भयेषु वसिष्यामि लक्ष्मीस् त्वं शृणु ते स्थितिम् ॥ २२ ॥
राजवर्तिषु पापेषु निष्ठुरेषु खलेषु च ।
पिशुनेषु च लुब्धेषु विकृतेषु शठेषु च ॥ २३ ॥
अनार्येषु कृतघ्नेषु धर्मघातिषु सर्वदा ।
मित्रद्रोहिष्व् अनिष्टेषु भग्नचित्तेषु वर्तसे ॥ २४ ॥
ब्रह्मोवाच-
एवं विवदमाने ते जग्मतुर् माम् उभे अपि ।
तयोर् वाक्यम् उपश्रुत्य मयोक्ते ते उभे अपि ॥ २५ ॥
मत्तः पूर्वतरा पृथ्वी आपः पूर्वतरास् ततः ।
स्त्रीणां विवादं ता एव स्त्रियो जानन्ति नेतरे ॥ २६ ॥
विशेषतः पुनस् ताभ्यः कमण्डलुभवाश् च याः ।
तत्रापि गौतमी देवी निश्चयं कथयिष्यति ॥ २७ ॥
सैव सर्वार्तिसंहर्त्री सैव सन्देहकर्तरी ।
ते मद्वाक्याद् भुवं गत्वा भूम्या च सहिते अपि ॥ २८ ॥
अद्भिश् च सहिताः सर्वा गौतमीं ययुर् आपगाम् ।
भूमिर् आपस् तयोर् वाक्यं गौतम्यै क्रमशः स्फुटम् ॥ २९ ॥
सर्वं निवेदयाम् आसुर् यथावृत्तं प्रणम्य ताम् ।
दरिद्रायाश् च लक्ष्म्याश् च वाक्यं मध्यस्थवत् तदा ॥ ३० ॥
शृण्वत्सु लोकपालेषु शृण्वत्यां भुवि नारद ।
शृण्वतीष्व् अप्सु सा गङ्गा दरिद्रां वाक्यम् अब्रवीत् ।
सम्प्रशस्य तथा लक्ष्मीं गौतमी वाक्यम् अब्रवीत् ॥ ३१ ॥
गौतम्य् उवाच-
ब्रह्मश्रीश् च तपःश्रीश् च यज्ञश्रीः कीर्तिसञ्ज्ञिता ।
धनश्रीश् च यशश्रीश् च विद्या प्रज्ञा सरस्वती ॥ ३२ ॥
भुक्तिश्रीश् चाथ मुक्तिश् च स्मृतिर् लज्जा धृतिः क्षमा ।
सिद्धिस् तुष्टिस् तथा पुष्टिः शान्तिर् आपस् तथा मही ॥ ३३ ॥
अहंशक्तिर् अथौषध्यः श्रुतिः शुद्धिर् विभावरी ।
द्यौर् ज्योत्स्ना आशिषः स्वस्तिर् व्याप्तिर् माया उषा शिवा ॥ ३४ ॥
यत् किञ्चिद् विद्यते लोके लक्ष्म्या व्याप्तं चराचरम् ।
ब्राह्मणेष्व् अथ धीरेषु क्षमावत्स्व् अथ साधुषु ॥ ३५ ॥
विद्यायुक्तेषु चान्येषु भुक्तिमुक्त्यनुसारिषु ।
यद् यद् रम्यं सुन्दरं वा तत् तल् लक्ष्मीविजृम्भितम् ॥ ३६ ॥
किम् अत्र बहुनोक्तेन सर्वं लक्ष्मीमयं जगत् ।
यस्मिन् कस्मिंश् च यत् किञ्चिद् उत्कृष्टं परिदृश्यते ॥ ३७ ॥
लक्ष्मीमयं तु तत् सर्वं तया हीनं न किञ्चन ।
अत्रेमां सुन्दरीं देवीं स्पर्धयन्ती न लज्जसे ॥ ३८ ॥
गच्छ गच्छेति तां गङ्गा दरिद्रां वाक्यम् अब्रवीत् ।
ततः प्रभृति गङ्गाम्भो दरिद्रावैरकार्य् अभूत् ॥ ३९ ॥
तावद् दरिद्राभिभवो गङ्गा यावन् न सेव्यते ।
ततः प्रभृति तत् तीर्थम् अलक्ष्मीनाशनं शुभम् ॥ ४० ॥
तत्र स्नानेन दानेन लक्ष्मीवान् पुण्यवान् भवेत् ।
तीर्थानां षट् सहस्राणि तस्मिंस् तीर्थे महामते ।
देवर्षिमुनिजुष्टानां सर्वसिद्धिप्रदायिनाम् ॥ ४१ ॥