136

Summary (SA)

Chapter 136- Maudgalya and Viṣṇu

{{Ref- SS 227-228}}

ब्रह्मोवाच-

विष्णुतीर्थम् इति ख्यातं तत्र वृत्तम् इदं शृणु ।
मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः ॥ १ ॥

तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी ।
पिता ऋषिस् तथा वृद्धो मुद्गलो लोकविश्रुतः ॥ २ ॥

तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा ।
स मौद्गल्यः प्रातर् एव गङ्गां स्नाति यतव्रतः ॥ ३ ॥

नित्यम् एव त्व् इदं कर्म तस्यासीन् मुनिसत्तम ।
गङ्गातीरे कुशैर् मृद्भिः शमीपुष्पैर् अहर्निशम् ॥ ४ ॥

गुरूदितेन मार्गेण स्वमानससरोरुहे ।
आवाहनं नित्यम् एव विष्णोश् चक्रे स मौद्गलिः ॥ ५ ॥

तेनाहूतस् त्वरन्न् एति लक्ष्मीभर्ता जगत्पतिः ।
वैनतेयम् अथारुह्य शङ्खचक्रगदाधरः ॥ ६ ॥

पूजितस् तेन ऋषिणा स मौद्गल्येन यत्नतः ।
प्रब्रूते च कथाश् चित्रा मौद्गल्याय जगत्प्रभुः ॥ ७ ॥

ततो ऽपराह्णसमये विष्णुः प्राह स मौद्गलिम् ।
याहि वत्स स्वभवनं श्रान्तो ऽसीति पुनः पुनः ॥ ८ ॥

एवम् उक्तः स देवेन विष्णुना याति स द्विजः ।
जगत्प्रभुस् ततो याति देवैर् युक्तः स्वमन्दिरम् ॥ ९ ॥

मौद्गल्यो ऽपि तथाभ्येत्य किञ्चिद् आदाय नित्यशः ।
स्वम् एव भवनं विद्वान् भार्यायै स्वार्जितं धनम् ॥ १० ॥

ददाति स महाविष्णुचरणाब्जपरायणः ।
मौद्गल्यस्य प्रिया सापि पतिव्रतपरायणा ॥ ११ ॥

शाकं मूलं फलं वापि भर्त्रानीतं तु यत्नतः ।
सुसंस्कृत्याप्य् अतिथीनां बालानां भर्तुर् एव च ॥ १२ ॥

दत्त्वा तु भोजनं तेभ्यः पश्चाद् भुङ्क्ते यतव्रता ।
भुक्तवत्स्व् अथ सर्वेषु रात्रौ नित्यं स मौद्गलिः ॥ १३ ॥

विष्णोः श्रुताः कथाश् चित्रास् तेभ्यो वक्त्य् अथ हर्षितः ।
एवं बहुतिथे काले व्यतीते चातिविस्मिता ।
मौद्गल्यस्य रहो भार्या भर्तारं वाक्यम् अब्रवीत् ॥ १४ ॥

जाबालोवाच-

यदि ते विष्णुर् अभ्येति समीपं त्रिदशार्चितः ।
तथापि कष्टम् अस्माकं कस्माद् इति जगत्प्रभुम् ॥ १५ ॥

तत् पृच्छ त्वं महाप्राज्ञ यदासौ विष्णुर् एति च ।
यस्मिंश् च स्मृतमात्रे तु जराजन्मरुजो मृतिः ।
नाशं यान्ति कुतो दृष्टे तस्मात् पृच्छ जगत्पतिम् ॥ १६ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा प्रियावाक्यान् मौद्गल्यो नित्यवद् धरिम् ।
पूजयित्वा विनीतश् च पप्रच्छ स कृताञ्जलिः ॥ १७ ॥

मौद्गल्य उवाच-

त्वयि स्मृते जगन्नाथ शोकदारिद्र्यदुष्कृतम् ।
नाशं याति विपत्तिर् मे त्वयि दृष्टे कथं स्थिता ॥ १८ ॥

श्रीविष्णुर् उवाच-

स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा ।
न कोपि कस्यचित् किञ्चित् करोत्य् अत्र हिताहिते ॥ १९ ॥

यादृशं चोप्यते बीजं फलं भवति तादृशम् ।
रसालः स्यान् न निम्बस्य बीजाज् जात्व् अपि कुत्रचित् ॥ २० ॥

न कृता गौतमीसेवा नार्चितौ हरिशङ्करौ ।
न दत्तं यैश् च विप्रेभ्यस् ते कथं भाजनं श्रियः ॥ २१ ॥

त्वया न दत्तं किञ्चिच् च ब्राह्मणेभ्यो ममापि च ।
यद् दीयते तद् एवेह परस्मिंश् चोपतिष्ठति ॥ २२ ॥

मृद्भिर् वार्भिः कुशैर् मन्त्रैः शुचिकर्म सदैव यत् ।
करोति तस्मात् पूतात्मा शरीरस्य च शोषणात् ॥ २३ ॥

विना दानेन न क्वापि भोगावाप्तिर् नृणां भवेत् ।
सत्कर्माचरणाच् छुद्धो विरक्तः स्यात् ततो नरः ॥ २४ ॥

ततो ऽप्रतिहतज्ञानो जीवन्मुक्तस् ततो भवेत् ।
सर्वेषां सुलभा मुक्तिर् मद्भक्त्या चेह पूर्ततः ॥ २५ ॥

भुक्तिर् दानादिना सर्वभूतदुःखनिबर्हणात् ।
अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे ॥ २६ ॥

मौद्गल्य उवाच-

भक्त्या मुक्तिः कथं भूयाद् भुक्तेर् मुक्तिः सुदुर्लभा ।
जाता चेद् देहिनां मुक्तिः किम् अन्येन प्रयोजनम् ॥ २७ ॥

भक्त्या मुक्तिः सर्वपूज्या ताम् इच्छेयं जगन्मय ॥ २८ ॥

विष्णुर् उवाच-

एतद् एवान्तरं ब्रह्मन् दीयते माम् अनुस्मरन् ।
ब्राह्मणायाथवार्थिभ्यस् तद् एवाक्षयतां व्रजेत् ॥ २९ ॥

माम् अध्यात्वाथ यद् दद्यात् तत् तन्मात्रफलप्रदम् ।
तत् पुनर् दत्तम् एवेह न भोगायात्र कल्पते ॥ ३० ॥

तस्माद् देहि महाबुद्धे भोज्यं किञ्चिन् मम ध्रुवम् ।
अथवा विप्रमुख्याय गौतमीतीरम् आश्रितः ॥ ३१ ॥

ब्रह्मोवाच-

मौद्गल्यः प्राह तं विष्णुं देयं मम न विद्यते ।
नान्यत् किञ्चन देहादि यत् तत् त्वयि समर्पितम् ॥ ३२ ॥

ततो विष्णुर् गरुत्मन्तं प्राह शीघ्रं जगत्पतिः ।
इहानयस्व कणिशं ममायं चार्पयिष्यति ॥ ३३ ॥

ततो योग्यान् अयं भोगान् प्राप्स्यते मनसः प्रियान् ।
आकर्ण्य स्वामिनादिष्टं तथा चक्रे स पक्षिराट् ॥ ३४ ॥

विष्णुहस्ते कणान् प्रादात् स मौद्गल्यो यतव्रतः ।
एतस्मिन्न् अन्तरे विष्णुर् विश्वकर्माणम् अब्रवीत् ॥ ३५ ॥

विष्णुर् उवाच-

यावच् चास्य कुले सप्त पुरुषास् तावद् एव तु ।
भवितारो महाबुद्धे तावत् कामा मनीषिताः ।
गावो हिरण्यं धान्यानि वस्त्राण्य् आभरणानि च ॥ ३६ ॥

ब्रह्मोवाच-

यच् च किञ्चिन् मनःप्रीत्यै लोके भवति भूषणम् ।
तत् सर्वम् आप मौद्गल्यो विष्णुगङ्गाप्रभावतः ॥ ३७ ॥

गृहं गच्छेति मौद्गल्यो विष्णुनोक्तस् ततो ययौ ।
आश्रमे स्वस्य सर्वर्द्धिं दृष्ट्वा ऋषिर् अभाषत ॥ ३८ ॥

ऋषिर् उवाच-

अहो दानप्रभावो ऽयम् अहो विष्णोर् अनुस्मृतिः ।
अहो गङ्गाप्रभावश् च कैर् विचार्यो महान् अयम् ॥ ३९ ॥

ब्रह्मोवाच-

मौद्गल्यो भार्यया सार्धं पुत्रैः पौत्रैश् च बन्धुभिः ।
पितृभ्यां बुभुजे भोगान् भुक्तिं मुक्तिम् अवाप च ॥ ४० ॥

ततः प्रभृति तत् तीर्थं मौद्गल्यं वैष्णवं तथा ।
तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम् ॥ ४१ ॥

तत्र श्रुतिः स्मृतिर् वापि तीर्थस्य स्यात् कथञ्चन ।
तस्य विष्णुर् भवेत् प्रीतः पापैर् मुक्तः सुखी भवेत् ॥ ४२ ॥

एकादश सहस्राणि तीर्थानां तीरयोर् द्वयोः ।
सर्वार्थदायिनां तत्र स्नानदानजपादिभिः ॥ ४३ ॥