Summary (SA)
Chapter 135- Story of Brahman, Viṣṇu, and Śiva’s Liṅga
{{Ref- SS 226-227}}
ब्रह्मोवाच-
वाणीसङ्गमम् आख्यातं यत्र वागीश्वरो हरः ।
तत् तीर्थं सर्वपापानां मोचनं सर्वकामदम् ॥ १ ॥
तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम् ।
ब्रह्मविष्ण्वोश् च संवादे महत्त्वे च परस्परम् ॥ २ ॥
तयोर् मध्ये महादेवो ज्योतिर्मूर्तिर् अभूत् किल ।
तत्रैव वाग् उवाचेदं दैवी पुत्र तयोः शुभा ॥ ३ ॥
अहम् अस्मि महांस् तत्र अहम् अस्मीति वै मिथः ।
दैवी वाक् ताव् उभौ प्राह यस् त्व् अस्यान्तं तु पश्यति ॥ ४ ॥
स तु ज्येष्ठो भवेत् तस्मान् मा वादं कर्तुम् अर्हथः ।
तद्वाक्याद् विष्णुर् अगमद् अधो ऽहं चोर्ध्वम् एव च ॥ ५ ॥
ततो विष्णुः शीघ्रम् एत्य ज्योतिःपार्श्व उपाविशत् ।
अप्राप्यान्तम् अहं प्रायां दूराद् दूरतरं मुने ॥ ६ ॥
ततः श्रान्तो निवृत्तो ऽहं द्रष्टुम् ईशं तु तं प्रभुम् ।
तदैवं मम धीर् आसीद् दृष्टश् चान्तो मया भृशम् ॥ ७ ॥
अस्य देवस्य तद् विष्णोर् मम ज्यैष्ठ्यं स्फुटं भवेत् ।
पुनश् चापि मम त्व् एवं मतिर् आसीन् महामते ॥ ८ ॥
सत्यैर् वक्त्रैः कथं वक्ष्ये पीडितो ऽप्य् अनृतं वचः ।
नानाविधेषु पापेषु नानृतात् पातकं परम् ॥ ९ ॥
सत्यैर् वक्त्रैर् असत्यां वा वाचं वक्ष्ये कथं त्व् इति ।
ततो ऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम् ॥ १० ॥
कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा ।
अब्रवं तं हरिं तत्र आसीनं जगतां प्रभुम् ॥ ११ ॥
अस्य चान्तो मया दृष्टस् तेन ज्यैष्ठ्यं जनार्दन ।
ममेति वदतः पार्श्वे उभौ तौ हरिशङ्करौ ॥ १२ ॥
एकरूपत्वम् आपन्नौ सूर्याचन्द्रमसाव् इव ।
तौ दृष्ट्वा विस्मितो भीतश् चास्तवं ताव् उभाव् अपि ।
ततः क्रुद्धौ जगन्नाथौ वाचं ताम् इदम् ऊचतुः ॥ १३ ॥
हरिहराव् ऊचतुः-
दुष्टे त्वं निम्नगा भूया नानृताद् अस्ति पातकम् ॥ १४ ॥
ब्रह्मोवाच-
ततः सा विह्वला भूत्वा नदीभावम् उपागता ।
तद् दृष्ट्वा विस्मितो भीतस् ताम् अब्रवम् अहं तदा ॥ १५ ॥
यस्माद् असत्यम् उक्तासि ब्रह्मवाचि स्थिता सती ।
तस्माद् अदृश्या त्वं भूयाः पापरूपास्य् असंशयम् ॥ १६ ॥
एतच् छापं विदित्वा तु तौ देवौ प्रणता तदा ।
विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः ॥ १७ ॥
ततस् तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ ।
प्रीत्या हरिहराव् एवं वाचं वाचम् अथोचतुः ॥ १८ ॥
हरिहराव् ऊचतुः-
गङ्गया सङ्गता भद्रे यदा त्वं लोकपावनी ।
तदा पुनर् वपुस् ते स्यात् पवित्रं हि सुशोभने ॥ १९ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा सापि देवी गङ्गया सङ्गताभवत् ।
भागीरथी गौतमी च ततश् चापि स्वकं वपुः ॥ २० ॥
देवी सा व्यगमद् ब्रह्मन् देवानाम् अपि दुर्लभम् ।
गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा ॥ २१ ॥
भागीरथ्यां सैव देवी सरस्वत्य् अभिधीयते ।
उभयत्रापि विख्यातः सङ्गमो लोकपूजितः ॥ २२ ॥
सरस्वतीसङ्गमश् च वाणीसङ्गम एव च ।
गौतम्या सङ्गता देवी वाणी वाचा सरस्वती ॥ २३ ॥
सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम् ।
देवेश्वरं पूजयित्वा विशापम् अगमद् यतः ॥ २४ ॥
ब्रह्मा विधूय वाग्दौष्ट्यं स्वं च धामागमत् पुनः ।
तस्मात् तत्र शुचिर् भूत्वा स्नात्वा तत्र च सङ्गमे ॥ २५ ॥
वागीश्वरं ततो दृष्ट्वा तावता मुक्तिम् आप्नुयात् ।
दानहोमादिकं किञ्चिद् उपवासादिकां क्रियाम् ॥ २६ ॥
यः कुर्यात् सङ्गमे पुण्ये संसारे न भवेत् पुनः ।
एकोनविंशतिशतं तीर्थानां तीरयोर् द्वयोः ।
नानाजन्मार्जिताशेषपापक्षयविधायिनाम् ॥ २७ ॥