Summary (SA)
Chapter 134- The Rākṣasas and the magic woman Ajaikā Muktakeśī
{{Ref- SS 225-226}}
ब्रह्मोवाच-
चक्रतीर्थम् इति ख्यातं स्मरणात् पापनाशनम् ।
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥ १ ॥
ऋषयः सप्त विख्याता वसिष्ठप्रमुखा मुने ।
गौतम्यास् तीरम् आश्रित्य सत्त्रयज्ञम् उपासते ॥ २ ॥
तत्र विघ्न उपक्रान्ते रक्षोभिर् अतिभीषणे ।
माम् अभ्येत्याथ मुनयो रक्षःकृत्यं न्यवेदयन् ॥ ३ ॥
तदाहं प्रमदारूपं माययासृज्य नारद ।
यस्याश् च दर्शनाद् एव नाशं यान्त्य् अथ राक्षसाः ॥ ४ ॥
एवम् उक्त्वा तु तां प्रादाम् ऋषिभ्यः प्रमदां मुने ।
मद्वाक्याद् ऋषयो मायाम् आदाय पुनर् आगमन् ॥ ५ ॥
अजैका या समाख्याता कृष्णलोहितरूपिणी ।
मुक्तकेशीत्य् अभिधया सास्ते ऽद्यापि स्वरूपिणी ॥ ६ ॥
लोकत्रितयसम्मोहदायिनी कामरूपिणी ।
तद्बलात् स्वस्थमनसः सर्वे च मुनिपुङ्गवः ॥ ७ ॥
गौतमीं सरितां श्रेष्ठां पुनर् यज्ञाय दीक्षिताः ।
पुनस् तन्मखनाशाय राक्षसाः समुपागमन् ॥ ८ ॥
यक्षवाटान्तिके मायां दृष्ट्वा राक्षसपुङ्गवाः ।
ततो नृत्यन्ति गायन्ति हसन्ति च रुदन्ति च ॥ ९ ॥
माहेश्वरी महामाया प्रभावेणातिदर्पिता ।
तेषां मध्ये दैत्यपतिः शम्बरो नाम वीर्यवान् ॥ १० ॥
मायारूपां तु प्रमदां भक्षयाम् आस नारद ।
तद् अद्भुतम् अतीवासीत् तन्मायाबलदर्शिनाम् ॥ ११ ॥
मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः ।
प्रादाद् विष्णुश् चक्रम् अथो मुनीनां रक्षणाय तु ॥ १२ ॥
चक्रं तद् राक्षसान् आजौ दैत्यांश् च दनुजांस् तथा ।
चिच्छेद तद्भयाद् एव मृता राक्षसपुङ्गवाः ॥ १३ ॥
ऋषिभिस् तन् महासत्त्रं सम्पूर्णम् अभवत् तदा ।
विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम् ॥ १४ ॥
ततः प्रभृति तत् तीर्थं चक्रतीर्थम् उदाहृतम् ।
तत्र स्नानेन दानेन सत्त्रयागफलं लभेत् ॥ १५ ॥
तत्र पञ्च शतान्य् आसंस् तीर्थानां पापहारिणाम् ।
तेषु स्नानं तथा दानं प्रत्येकं मुक्तिदायकम् ॥ १६ ॥