Summary (SA)
Chapter 133- The demon born of the smoke at Bharadvāja’s sacrifice
{{Ref- SS 224-225}}
ब्रह्मोवाच-
शुक्लतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् ।
यस्य स्मरणमात्रेण सर्वकामान् अवाप्नुयात् ॥ १ ॥
भरद्वाज इति ख्यातो मुनिः परमधार्मिकः ।
तस्य पैठीनसी नाम भार्या सुकलभूषणा ॥ २ ॥
गौतमीतीरम् अध्यास्ते पतिव्रतपरायणा ।
अग्नीषोमीयम् ऐन्द्राग्नं पुरोडाशम् अकल्पयत् ॥ ३ ॥
पुरोडाशे श्रप्यमाणे धूमात् कश्चिद् अजायत ।
पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः ॥ ४ ॥
यज्ञं मे ह्य् अत्र को हंसि कोपात् त्वम् इति तं मुनिः ।
प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः ।
तद् ऋषेर् वचनं श्रुत्वा राक्षसः प्रत्युवाच तम् ॥ ५ ॥
राक्षस उवाच-
हव्यघ्न इति विख्यातं भरद्वाज निबोध माम् ।
सन्ध्यासुतो ऽहं ज्येष्ठश् च सुतः प्राचीनबर्हिषः ॥ ६ ॥
ब्रह्मणा मे वरो दत्तो यज्ञान् खाद यथासुखम् ।
ममानुजः कलिश् चापि बलवान् अतिभीषणः ॥ ७ ॥
अहं कृष्णः पिता कृष्णो माता कृष्णा तथानुजः ।
अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः ॥ ८ ॥
भरद्वाज उवाच-
रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः ।
जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम् ॥ ९ ॥
यज्ञघ्न उवाच-
भरद्वाज निबोधेदं वाक्यं मम समासतः ।
ब्रह्मणाहं पुरा शप्तो देवदानवसन्निधौ ॥ १० ॥
ततः प्रसादितो देवो मया लोकपितामहः ।
अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः ॥ ११ ॥
तदा विशापो भविता हव्यघ्न त्वं न चान्यथा ।
एवं करिष्यसि यदा ततः सर्वं भविष्यति ॥ १२ ॥
ब्रह्मोवाच-
भरद्वाजः पुनः प्राह सखा मे ऽसि महामते ।
मखसंरक्षणं येन स्यान् मे वद करोमि तत् ॥ १३ ॥
सम्भूय देवा दैतेया ममन्थुः क्षीरसागरम् ।
अलभन्तामृतं कष्टात् तद् अस्मत्सुलभं कथम् ॥ १४ ॥
प्रीत्या यदि प्रसन्नो ऽसि सुलभं यद् वदस्व तत् ।
तद् ऋषेर् वचनं श्रुत्वा रक्षः प्राह तदा मुदा ॥ १५ ॥
रक्ष उवाच-
अमृतं गौतमीवारि अमृतं स्वर्णम् उच्यते ।
अमृतं गोभवं चाज्यम् अमृतं सोम एव च ॥ १६ ॥
एतैर् माम् अभिषिञ्चस्व अथवैतैस् तथा त्रिभिः ।
गङ्गाया वारिणाज्येन हिरण्येन तथैव च ।
सर्वेभ्यो ऽप्य् अधिकं दिव्यम् अमृतं गौतमीजलम् ॥ १७ ॥
ब्रह्मोवाच-
एतद् आकर्ण्य स ऋषिः परं सन्तोषम् आगतः ।
पाणाव् आदाय गङ्गायाः सलिलामृतम् आदरात् ॥ १८ ॥
तेनाकरोद् ऋषी रक्षो ह्य् अभिषिक्तं तदा मखे ।
पुनश् च यूपे च पशाव् ऋत्विक्षु मखमण्डले ॥ १९ ॥
सर्वम् एवाभवच् छुक्लम् अभिषेकान् महात्मनः ।
तद् रक्षो ऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः ॥ २० ॥
यः पुरा कृष्णरूपो ऽभूत् स तु शुक्लो ऽभवत् क्षणात् ।
यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान् ॥ २१ ॥
ऋत्विजो ऽपि विसृज्याथ यूपं गङ्गोदके ऽक्षिपत् ।
गङ्गामध्ये तद् धि यूपम् अद्याप्य् आस्ते महामते ॥ २२ ॥
अभिषिक्तं चामृतेन अभिज्ञानं तु तन् महत् ।
तत्र तीर्थे पुना रक्षो भरद्वाजम् उवाच ह ॥ २३ ॥
रक्ष उवाच-
अहं यामि भरद्वाज कृतः शुक्लस् त्वया पुनः ।
तस्मात् तवात्र तीर्थे ये स्नानदानादिपूजनम् ॥ २४ ॥
कुर्युस् तेषाम् अभीष्टानि भवेयुर् यत् फलं मखे ।
स्मरणाद् अपि पापानि नाशं यान्तु सदा मुने ॥ २५ ॥
ततः प्रभृति तत् तीर्थं शुक्लतीर्थम् इति स्मृतम् ।
गौतम्यां दण्डकारण्ये स्वर्गद्वारम् अपावृतम् ॥ २६ ॥
उभयोस् तीरयोः सप्त सहस्राण्य् अपराणि च ।
तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ २७ ॥