132

Summary (SA)

Chapter 132- Story of Pippalā, Viśvāvasu’s sister

{{Ref- SS 224}}

ब्रह्मोवाच-

यक्षिणीसङ्गमं नाम तीर्थं सर्वफलप्रदम् ।
तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् ॥ १ ॥

यत्र यक्षेश्वरो देवो दर्शनाद् भुक्तिमुक्तिदः ।
तत्र च स्नानमात्रेण सत्त्रयागफलं लभेत् ॥ २ ॥

विश्वावसोः स्वसा नाम्ना पिप्पला गुरुहासिनी ।
ऋषीणां सत्त्रम् अगमद् गौतमीतीरवर्तिनाम् ॥ ३ ॥

दृष्ट्वा तत्र ऋषीन् क्षामान् सा जहासातिगर्विता ।
या गत्वाश्रावय वौषड् अस्तु श्रौषड् इति स्थिरम् ॥ ४ ॥

विस्वरेण ब्रुवती तां ते शेपुः स्राविणी भव ।
ततो नद्य् अभवत् तत्र यक्षिणीति सुविश्रुता ॥ ५ ॥

ततो विश्वावसुः पूज्य ऋषीन् देवं त्रिलोचनम् ।
सङ्गम्य चैव गौतम्या तां विशापाम् अथाकरोत् ॥ ६ ॥

ततः प्रभृति तत् तीर्थं यक्षिणीसङ्गमं स्मृतम् ।
तत्र स्नानादिदानेन सर्वान् कामान् अवाप्नुयात् ॥ ७ ॥

विश्वावसोः प्रसन्नो ऽभूद् यत्र शम्भुः शिवान्वितः ।
शैवं तत् परमं तीर्थं दुर्गातीर्थं च विश्रुतम् ॥ ८ ॥

सर्वपापौघहरणं सर्वदुर्गतिनाशनम् ।
सर्वेषां तीर्थमुख्यानां तद् धि सारं महामुने ।
तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम् ॥ ९ ॥