131

Summary (SA)

Chapter 131- Saramā and the Paṇis

{{Ref- SS 222-224}}

ब्रह्मोवाच-

यमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम् ।
अशेषपापशमनं तत्र वृत्तम् इदं शृणु ॥ १ ॥

तत्राख्यानम् इदं त्व् आसीद् इतिहासं पुरातनम् ।
सरमेति प्रसिद्धास्ति नाम्ना देवशुनी मुने ॥ २ ॥

तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनान् अनु ।
गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ ॥ ३ ॥

गा रक्षति स्म देवानां यज्ञार्थं कल्पितान् पशून् ।
रक्षन्तीम् अनुजग्मुस् ते राक्षसा दैत्यदानवाः ॥ ४ ॥

रक्षन्तीं तां महाप्राज्ञाः श्वानयोर् मातरं शुनीम् ।
प्रलोभयित्वा विविधैर् वाक्यैर् दानैश् च यत्नतः ॥ ५ ॥

हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः ।
तत आगत्य सा देवान् इदम् आह क्रमाच् छुनी ॥ ६ ॥

सरमोवाच-

मां बद्ध्वा राक्षसैः पाशैस् ताडयित्वा प्रहारकैः ।
नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पशवः सुराः ॥ ७ ॥

ब्रह्मोवाच-

तस्या वाचं निशम्याशु सुरान् प्राह बृहस्पतिः ॥ ८ ॥

बृहस्पतिर् उवाच-

इयं विकृतरूपास्ते अस्याः पापं च लक्षये ।
अस्या मतेन ता गावो नीता नान्येन हेतुना ।
पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः ॥ ९ ॥

ब्रह्मोवाच-

तद् गुरोर् वचनाच् छक्रः पदा तां प्राहरच् छुनीम् ।
पदाघातात् तदा तस्या मुखात् क्षीरं प्रसुस्रुवे ॥ १० ॥

पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि ।
राक्षसैश् च तदा दत्तं तस्मान् नीतास् तु गा मम ॥ ११ ॥

सरमोवाच-

नापराधो ऽस्ति मे नाथ न चान्यस्यापि कस्यचित् ।
नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर ।
तस्माद् रुष्टो ऽसि किं नाथ रिपवो बलिनस् तु ते ॥ १२ ॥

ब्रह्मोवाच-

ततो ध्यात्वा देवगुरुर् ज्ञात्वा तस्या विचेष्टितम् ।
सत्यं शक्र त्व् इयं दुष्टा रिपूणां पक्षकारिणी ॥ १३ ॥

ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव ।
मर्त्यलोके पापभूता अज्ञानात् पापकारिणी ॥ १४ ॥

तदेन्द्रस्य तु शापेन मानुषे सा व्यजायत ।
यथा शप्ता मघवता पापात् सा ह्य् अतिभीषणा ॥ १५ ॥

गावो या राक्षसैर् नीतास् तासाम् आनयनाय च ।
यत्नं कुर्वन् सुरपतिर् विष्णवे तन् न्यवेदयत् ॥ १६ ॥

विष्णुर् दैत्यांश् च दनुजान् गोहर्तॄंश् चैव राक्षसान् ।
हन्तुं प्रयत्नम् अकरोज् जगृहे च महद् धनुः ॥ १७ ॥

शार्ङ्गं यल् लोकविख्यातं दैत्यनाशनम् एव च ।
जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः ॥ १८ ॥

यत्र वै दण्डकारण्ये शार्ङ्गपाणिर् जगत्प्रभुः ।
तत्रस्थान् दैत्यदनुजान् राक्षसांश् च बलीयसः ॥ १९ ॥

पुनर् जघ्ने स वै विष्णुर् गा यैर् नीताश् च राक्षसैः ।
तत्र वै दण्डकारण्ये शार्ङ्गपाणिर् इति श्रुतः ॥ २० ॥

युध्यमानस् ततो विष्णुर् दितिजै राक्षसैः सह ।
ते जग्मुर् दक्षिणाम् आशां विष्णोस् त्रासान् महामुने ॥ २१ ॥

अन्वगच्छत् ततो विष्णुस् तान् एव परमेश्वरः ।
गरुत्मता तान् अवाप्य शार्ङ्गमुक्तैर् मनोजवैः ॥ २२ ॥

बाणैस् तान् व्याहनद् विष्णुर् गङ्गाया उत्तरे तटे ।
देवारयः क्षयं नीता विष्णुना प्रभविष्णुना ॥ २३ ॥

शार्ङ्गमुक्तैर् महावेगैः सुस्वनैश् च सुमन्त्रितैः ।
क्षयं प्राप्ता विष्णुबाणैस् ततस् ते देवशत्रवः ॥ २४ ॥

गावो लब्धा यत्र देवैर् बाणतीर्थं तद् उच्यते ।
वैष्णवं लोकविदितं गोतीर्थं चेति विश्रुतम् ॥ २५ ॥

पश्वर्थे कल्पिता गावो गङ्गाया दक्षिणे तटे ।
प्रद्रुतास् ते सुराः सर्वे गङ्गायां सन्न्यवेशयन् ॥ २६ ॥

तन्मध्ये कारयाम् आसुर् द्वीपं चैवाश्रयं गवाम् ।
तैर् गोभिस् तत्र गङ्गायां सुरयज्ञो व्यजायत ॥ २७ ॥

यज्ञतीर्थं तु तत् प्रोक्तं गोद्वीपं गाङ्गमध्यतः ।
देवानां यजनं तच् च सर्वकामप्रदं शुभम् ॥ २८ ॥

स्वयं मूर्तिमती भूत्वा गङ्गाशक्तिर् महाद्युते ।
असारापारसंसारसागरोत्तरणे तरिः ॥ २९ ॥

विश्वेश्वरी योगमाया सद्भक्ताभयदायिनी ।
गोरक्षं तु ततस् तीर्थं गङ्गाया दक्षिणे तटे ॥ ३० ॥

तौ श्वानौ सरमापुत्रौ चतुरक्षौ यमप्रियौ ।
मातुः शापं चापराधं सर्वं चापि सविस्तरम् ॥ ३१ ॥

निवेद्य तु यथान्यायं कार्यं चापि सुखप्रदम् ।
विशापकरणं चापि पप्रच्छतुर् उभौ यमम् ॥ ३२ ॥

स ताभ्यां सहितः सौरिः पित्रे सूर्याय चाब्रवीत् ।
श्रुत्वा सूर्यः सुतं प्राह गङ्गायां सुरसत्तम ॥ ३३ ॥

लोकत्रयैकपावन्यां गौतम्यां दण्डके वने ।
श्रद्धया परया वत्स सुस्नातः सुसमाहितः ॥ ३४ ॥

ब्रह्माणं चैव विष्णुं च माम् ईशं च यथाक्रमम् ।
स्तुहि त्वं सर्वभावेन भृत्यौ प्रीतिम् अवाप्स्यतः ॥ ३५ ॥

तत् पितुर् वचनं श्रुत्वा यमः प्रीतमनास् तदा ।
तयोश् च प्रीतये प्रायाद् देवतर्पणयोर् यमः ॥ ३६ ॥

गौतम्याम् अघहारिण्यां सुसमाहितमानसः ।
तथैव तोषयाम् आस गङ्गायां सुरसत्तमान् ॥ ३७ ॥

श्वभ्यां च सहितः श्रीमान् दक्षिणाशापतिः प्रभुः ।
ब्रह्माणं तोषयाम् आस भानुं वै दक्षिणे तटे ॥ ३८ ॥

ईशानम् उत्तरे विष्णुं स्वयं धर्मः प्रतापवान् ।
दत्तवन्तो वरं श्रेष्ठं सरमाया विशापकम् ।
वरान् अयाचत बहूंल् लोकानाम् उपकारकान् ॥ ३९ ॥

यम उवाच-

एषु स्नानं तु ये कुर्युर् ब्रह्मविष्णुमहेश्वराः ।
आत्मार्थं च परार्थं च ते कामान् आप्नुयुः शुभान् ॥ ४० ॥

बाणतीर्थे तु ये स्नात्वा शार्ङ्गपाणिं स्मरन्ति वै ।
तेभ्यो दारिद्र्यदुःखानि न भवेयुर् युगे युगे ॥ ४१ ॥

गोतीर्थे ब्रह्मतीर्थे वा यस् तु स्नात्वा यतव्रतः ।
ब्रह्माणं तं नमस्याथ द्वीपस्यापि प्रदक्षिणम् ॥ ४२ ॥

यः कुर्यात् तेन पृथिवी सप्तद्वीपा वसुन्धरा ।
प्रदक्षिणीकृता तत्र किञ्चिद् दत्त्वा वसु द्विजम् ॥ ४३ ॥

तद् देवयजनं प्राप्य किञ्चिद् धुत्वा हुताशने ।
अश्वमेधादियज्ञानां फलं प्राप्नोति पुष्कलम् ॥ ४४ ॥

यः सकृत् तत्र पठति गायत्रीं वेदमातरम् ।
अधीतास् तेन वेदा वै निष्कामो मुक्तिभाजनम् ॥ ४५ ॥

स्नात्वा तु दक्षिणे कूले शक्तिं देवीं तु भक्तितः ।
पूजयित्वा यथान्यायं सर्वान् कामान् अवाप्नुयात् ॥ ४६ ॥

ब्रह्मविष्णुमहेशानां शक्तिर् माता त्रयीमयी ।
सर्वान् कामान् अवाप्नोति पुत्रवान् धनवान् भवेत् ॥ ४७ ॥

आदित्यं भक्तितो यस् तु दक्षिणे नियतो नरः ।
स्नात्वा पश्येत तेनेष्टा यज्ञा विविधदक्षिणाः ॥ ४८ ॥

कूले यश् चोत्तरे चैव गङ्गाया दैत्यसूदनम् ।
स्नात्वा पश्येत तं नत्वा तस्य विष्णोः परं पदम् ॥ ४९ ॥

यमेश्वरं ततो यस् तु यमतीर्थे तु पूजितम् ।
स्नातः पश्यति युक्तात्मा स करोत्य् अचिरेण हि ॥ ५० ॥

पितॄणाम् अक्षयं पुण्यं फलदं कीर्तिवर्धनम् ।
तत्र स्नानेन दानेन जपेन स्तवनेन च ।
अपि दुष्कृतकर्माणः पितरो मोक्षम् आप्नुयुः ॥ ५१ ॥

ब्रह्मोवाच-

इत्याद्य् अष्ट सहस्राणि तीर्थानि त्रीणि नारद ।
तेषु स्नानं च दानं च सर्वम् अक्षयपुण्यदम् ॥ ५२ ॥

एतेषां स्मरणं पुण्यं नानाजन्माघनाशनम् ।
श्रवणात् पितृभिः सार्धं पठनात् स्वकुलैः सह ॥ ५३ ॥

तेषाम् अप्य् अतिपापानि नाशं यान्ति ममाज्ञया ।
तत्र स्नानादि यः कृत्वा किञ्चिद् दत्त्वा यतात्मवान् ॥ ५४ ॥

पितॄणां पिण्डदानादि कृत्वा नत्वा सुरान् इमान् ।
धनं धान्यं यशो वीर्यम् आयुर् आरोग्यसम्पदः ॥ ५५ ॥

पुत्रान् पौत्रान् प्रियां भार्यां लब्ध्वा चान्यन् मनीषितम् ।
अवियुक्तः प्रीतमना बन्धुभिश् चातिमानितः ॥ ५६ ॥

नरकस्थान् अपि पितॄंस् तारयित्वा कुलानि च ।
पावयित्वा प्रियैर् युक्तो ह्य् अन्ते विष्णुं शिवं स्मरेत् ।
ततो मुक्तिपदं गच्छेद् देवानां वचनं यथा ॥ ५७ ॥