Summary (SA)
Chapter 130- Story of Agastya teaching Āpastamba
{{Ref- SS 221-222}}
ब्रह्मोवाच-
आपस्तम्बम् इति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
स्मरणाद् अप्य् अशेषाघसङ्घविध्वंसनक्षमम् ॥ १ ॥
आपस्तम्बो महाप्राज्ञो मुनिर् आसीन् महायशाः ।
तस्य भार्याक्षसूत्रेति पतिधर्मपरायणा ॥ २ ॥
तस्य पुत्रो महाप्राज्ञः कर्किनामाथ तत्त्ववित् ।
तस्याश्रमम् अनुप्राप्तो ह्य् अगस्त्यो मुनिसत्तमः ॥ ३ ॥
तम् अगस्त्यं पूजयित्वा आपस्तम्बो मुनीश्वरः ।
शिष्यैर् अनुगतो धीमांस् तं प्रष्टुम् उपचक्रमे ॥ ४ ॥
आपस्तम्ब उवाच-
त्रयाणां को नु पूज्यः स्याद् देवानां मुनिसत्तम ।
भुक्तिर् मुक्तिश् च कस्माद् वा स्याद् अनादिश् च को भवेत् ॥ ५ ॥
अनन्तश् चापि को विप्र देवानाम् अपि दैवतम् ।
यज्ञैः क इज्यते देवः को वेदेष्व् अनुगीयते ।
एतं मे संशयं छेत्तुं वदागस्त्य महामुने ॥ ६ ॥
अगस्त्य उवाच-
धर्मार्थकाममोक्षाणां प्रमाणं शब्द उच्यते ।
तत्रापि वैदिकः शब्दः प्रमाणं परमं मतः ॥ ७ ॥
वेदेन गीयते यस् तु पुरुषः स परात् परः ।
मृतो ऽपरः स विज्ञेयो ह्य् अमृतः पर उच्यते ॥ ८ ॥
यो ऽमूर्तः स परो ज्ञेयो ह्य् अपरो मूर्त उच्यते ।
गुणाभिव्याप्तिभेदेन मूर्तो ऽसौ त्रिविधो भवेत् ॥ ९ ॥
ब्रह्मा विष्णुः शिवश् चेति एक एव त्रिधोच्यते ।
त्रयाणाम् अपि देवानां वेद्यम् एकं परं हि तत् ॥ १० ॥
एकस्य बहुधा व्याप्तिर् गुणकर्मविभेदतः ।
लोकानाम् उपकारार्थम् आकृतित्रितयं भवेत् ॥ ११ ॥
यस् तत्त्वं वेत्ति परमं स च विद्वान् न चेतरः ।
तत्र यो भेदम् आचष्टे लिङ्गभेदी स उच्यते ॥ १२ ॥
प्रायश्चित्तं न तस्यास्ति यश् चैषां व्याहरेद् भिदम् ।
त्रयाणाम् अपि देवानां मूर्तिभेदः पृथक् पृथक् ॥ १३ ॥
वेदाः प्रमाणं सर्वत्र साकारेषु पृथक् पृथक् ।
निराकारं च यत् त्व् एकं तत् तेभ्यः परमं मतम् ॥ १४ ॥
आपस्तम्ब उवाच-
नानेन निर्णयः कश्चिन् मयात्र विदितो भवेत् ।
तत्राप्य् अत्र रहस्यं यत् तद् विमृश्याशु कीर्त्यताम् ।
निःसंशयं निर्विकल्पं भाजनं सर्वसम्पदाम् ॥ १५ ॥
ब्रह्मोवाच-
एतद् आकर्ण्य भगवान् अगस्त्यो वाक्यम् अब्रवीत् ॥ १६ ॥
अगस्त्य उवाच-
यद्यप्य् एषां न भेदो ऽस्ति देवानां तु परस्परम् ।
तथापि सर्वसिद्धिः स्याच् छिवाद् एव सुखात्मनः ॥ १७ ॥
प्रपञ्चस्य निमित्तं यत् तज् ज्योतिश् च परं शिवः ।
तम् एव साधय हरं भक्त्या परमया मुने ।
गौतम्यां सकलाघौघसंहर्ता दण्डके वने ॥ १८ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा मुनेर् वाक्यं परां प्रीतिम् उपागतः ।
भुक्तिदो मुक्तिदः पुंसां साकारो ऽथ निराकृतिः ॥ १९ ॥
सृष्ट्याकारस् ततः शक्तः पालनाकार एव च ।
दाता च हन्ति सर्वं यो यस्माद् एतत् समाप्यते ॥ २० ॥
अगस्त्य उवाच-
ब्रह्माकृतिः कर्तृरूपा वैष्णवी पालनी तथा ।
रुद्राकृतिर् निहन्त्री सा सर्ववेदेषु पठ्यते ॥ २१ ॥
ब्रह्मोवाच-
आपस्तम्बस् तदा गङ्गां गत्वा स्नात्वा यतव्रतः ।
तुष्टाव शङ्करं देवं स्तोत्रेणानेन नारद ॥ २२ ॥
आपस्तम्ब उवाच-
काष्ठेषु वह्निः कुसुमेषु गन्धो ।
बीजेषु वृक्षादि दृषत्सु हेम ।
भूतेषु सर्वेषु तथास्ति यो वै ।
तं सोमनाथं शरणं व्रजामि ॥ २३ ॥
यो लीलया विश्वम् इदं चकार ।
धाता विधाता भुवनत्रयस्य ।
यो विश्वरूपः सदसत्परो यः ।
सोमेश्वरं तं शरणं व्रजामि ॥ २४ ॥
रोगादिभिर् न स्पृश्यते शरीरी ।
यम् आश्रिताश् चेप्सितम् आप्नुवन्ति ।
सोमेश्वरं तं शरणं व्रजामि ॥ २५ ॥
येन त्रयीधर्मम् अवेक्ष्य पूर्वं ।
ब्रह्मादयस् तत्र समीहिताश् च ।
एवं द्विधा येन कृतं शरीरं ।
सोमेश्वरं तं शरणं व्रजामि ॥ २६ ॥
यस्मै नमो गच्छति मन्त्रपूतं ।
हुतं हविर् या च कृता च पूजा ।
दत्तं हविर् येन सुरा भजन्ते ।
सोमेश्वरं तं शरणं व्रजामि ॥ २७ ॥
यस्मात् परं नान्यद् अस्ति प्रशस्तं ।
यस्मात् परं नैव सुसूक्ष्मम् अन्यत् ।
यस्मात् परं नो महतां महच् च ।
सोमेश्वरं तं शरणं व्रजामि ॥ २८ ॥
यस्याज्ञया विश्वम् इदं विचित्रम् ।
अचिन्त्यरूपं विविधं महच् च ।
एकक्रियं यद्वद् अनुप्रयाति ।
सोमेश्वरं तं शरणं व्रजामि ॥ २९ ॥
यस्मिन् विभूतिः सकलाधिपत्यं ।
कर्तृत्वदातृत्वमहत्त्वम् एव ।
प्रीतिर् यशः सौख्यम् अनादिधर्मः ।
सोमेश्वरं तं शरणं व्रजामि ॥ ३० ॥
नित्यं शरण्यः सकलस्य पूज्यो ।
नित्यं प्रियो यः शरणागतस्य ।
नित्यं शिवो यः सकलस्य रूपं ।
सोमेश्वरं तं शरणं व्रजामि ॥ ३१ ॥
ब्रह्मोवाच-
ततः प्रसन्नो भगवान् आह नारद तं मुनिम् ।
आत्मार्थं च परार्थं च आपस्तम्बो ऽब्रवीच् छिवम् ॥ ३२ ॥
सर्वान् कामान् आप्नुयुस् ते ये स्नात्वा देवम् ईश्वरम् ।
पश्येयुर् जगताम् ईशम् अस्त्व् इत्य् आह शिवो मुनिम् ॥ ३३ ॥
ततः प्रभृति तत् तीर्थम् आपस्तम्बम् उदाहृतम् ।
अनाद्य् अविद्यातिमिरव्रातनिर्मूलनक्षमम् ॥ ३४ ॥