Summary (SA)
Chapter 129- Stories about Indra
{{Ref- SS 217-220}}
ब्रह्मोवाच-
इन्द्रतीर्थम् इति ख्यातं तत्रैव च वृषाकपम् ।
फेनायाः सङ्गमो यत्र हनूमतं तथैव च ॥ १ ॥
अब्जकं चापि यत् प्रोक्तं यत्र देवस् त्रिविक्रमः ।
तत्र स्नानं च दानं च पुनरावृत्तिदुर्लभम् ॥ २ ॥
तत्र वृत्तान्य् अथाख्यास्ये गङ्गाया दक्षिणे तटे ।
इन्द्रेश्वरं चोत्तरे च शृणु भक्त्या यतव्रतः ॥ ३ ॥
नमुचिर् बलवान् आसीद् इन्द्रशत्रुर् मदोत्कटः ।
तस्येन्द्रेणाभवद् युद्धं फेनेनेन्द्रो ऽहरच् छिरः ॥ ४ ॥
अपां च नमुचेः शत्रोस् तत्फेनवज्ररूपधृक् ।
शिरश् छित्त्वा तच् च फेनं गङ्गाया दक्षिणे तटे ॥ ५ ॥
न्यपतद् भूमिं भित्त्वा तु रसातलम् अथाविशत् ।
रसातलभवं गाङ्गं वारि यद् विश्वपावनम् ॥ ६ ॥
वज्रादिष्टेन मार्गेण व्यगमद् भूमिमण्डलम् ।
तज् जलं फेननाम्ना तु नदी फेनेति गद्यते ॥ ७ ॥
तस्यास् तु सङ्गमः पुण्यो गङ्गया लोकविश्रुतः ।
सर्वपापक्षयकरो गङ्गायमुनयोर् इव ॥ ८ ॥
हनूमदुपमाता वै यत्राप्लवनमात्रतः ।
मार्जारत्वाद् अभून् मुक्ता विष्णुगङ्गाप्रसादतः ॥ ९ ॥
मार्जारं चेति तत् तीर्थं पुरा प्रोक्तं मया तव ।
हनूमतं च तत् प्रोक्तं तत्राख्यानं पुरोदितम् ॥ १० ॥
वृषाकपं चाब्जकं च तत्रेदं प्रयतः शृणु ।
हिरण्य इति विख्यातो दैत्यानां पूर्वजो बली ॥ ११ ॥
तपस् तप्त्वा सुरैः सर्वैर् अजेयो ऽभूत् सुदारुणः ।
तस्यापि बलवान् पुत्रो देवानां दुर्जयः सदा ॥ १२ ॥
महाशनिर् इति ख्यातस् तस्य भार्या पराजिता ।
तेनेन्द्रस्याभवद् युद्धं बहुकालं निरन्तरम् ॥ १३ ॥
महाशनिर् महावीर्यः सततं रणमूर्धनि ।
जित्वा नागेन सहितं शक्रं पित्रे न्यवेदयत् ॥ १४ ॥
बद्ध्वा हस्तिसमायुक्तं स्वसारं वीक्ष्य तां तदा ।
विहाय क्रूरतां दैत्यो हिरण्याय न्यवेदयत् ॥ १५ ॥
महाशनिपिता दैत्यः पूर्वेषां पूर्ववत्तरः ।
शचीकान्तं तले स्थाप्य तस्य रक्षाम् अथाकरोत् ॥ १६ ॥
महाशनिर् हरिं जित्वा जेतुं वरुणम् अभ्यगात् ।
वरुणो ऽपि महाबुद्धिः प्रादात् कन्यां महाशनेः ॥ १७ ॥
उदधिं स्वालयं प्रादाद् वरुणस् तु महाशनेः ।
तयोश् च सख्यम् अभवद् वरुणस्य महाशनेः ॥ १८ ॥
वारुणी चापि या कन्या सा प्रियाभून् महाशनेः ।
वीर्येण यशसा चापि शौर्येण च बलेन च ॥ १९ ॥
महाशनिर् महादैत्यस् त्रैलोक्ये नोपमीयते ।
निरिन्द्रत्वं गते लोके देवाः सर्वे न्यमन्त्रयन् ॥ २० ॥
देवा ऊचुः-
विष्णुर् एवेन्द्रदाता स्याद् दैत्यहन्ता स एव च ।
मन्त्रदृग् वा स एव स्याद् इन्द्रं चान्यं करिष्यति ॥ २१ ॥
ब्रह्मोवाच-
एवं सम्मन्त्र्य ते देवा विष्णोर् मन्त्रं न्यवेदयन् ।
ममावध्यो महादैत्यो महाशनिर् इति ब्रुवन् ॥ २२ ॥
प्रायाद् वारीश्वरं विष्णुः श्वशुरं वरुणं तदा ।
केशवो वरुणं गत्वा प्राहेन्द्रस्य पराभवम् ॥ २३ ॥
तथा त्वयैतत् कर्तव्यं यथायाति पुरन्दरः ।
तद्विष्णुवचनाच् छीघ्रं ययौ जलपतिर् मुने ॥ २४ ॥
सुतापतिं हिरण्यसुतं विक्रान्तं तं महाशनिम् ।
अतिसम्मानितस् तेन जामात्रा वरुणः प्रभुः ॥ २५ ॥
पप्रच्छागमनं दैत्यो विनयाच् छ्वशुरं तदा ।
वरुणः प्राह तं दैत्यं यद् आगमनकारणम् ॥ २६ ॥
वरुण उवाच-
इन्द्रं देहि महाबाहो यस् त्वया निर्जितः पुरा ।
बद्धं रसातलस्थं तं देवानाम् अधिपं सखे ॥ २७ ॥
अस्माकं सर्वदा मान्यं देहि त्वं मम शत्रुहन् ।
बद्ध्वा विमोक्षणं शत्रोर् महते यशसे सताम् ॥ २८ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा कथञ्चित् स दैत्येशो वरुणाय तम् ।
प्रादाद् इन्द्रं शचीकान्तं वारणेन समन्वितम् ॥ २९ ॥
स दैत्यमध्ये ऽतिविराजमानो ।
हरिं तदोवाच जलेशसन्निधौ ।
सम्पूज्य चैवाथ महोपचारैर् ।
महाशनिर् मघवन्तं बभाषे ॥ ३० ॥
महाशनिर् उवाच-
केन त्वम् इन्द्रो ऽद्य कृतो ऽसि केन ।
वीर्यं तवेदृग् बहु भाषसे च ।
त्वं सङ्गरे शत्रुभिर् बाध्यसे च ।
तथापि चेन्द्रो भवसीति चित्रम् ॥ ३१ ॥
अथापि बद्धा पुरुषेण काचित् ।
तस्याः पतिस् तां मोचयतीति युक्तम् ।
स्त्रियो ऽस्वतन्त्राः पुरुषप्रधानास् ।
त्वं वै पुमान् भविता शक्र साधो ॥ ३२ ॥
बद्धो मया सङ्गरे वाहनेन ।
क्वाप्य् अस्त्रं ते वज्रम् उद्दामशक्ति ।
चिन्तारत्नं नन्दनं योषितस् ता ।
यशो बलं देवराजोपभोग्यम् ।
सर्वं हि त्वा किं तु मुक्तो जलेशाद् ।
आकाङ्क्षसे जीवितं धिक् तवेदम् ॥ ३३ ॥
तज् जीवनं यत् तु यशोनिधानं ।
स एव मृत्युर् यशसो यद् विरोधि ।
एवं जानञ् शक्र कथं जलेशान् ।
मुक्तिं प्राप्तो नैव लज्जां भजेथाः ॥ ३४ ॥
त्रिविष्टपस्थः परिवेष्टितः सन् ।
सर्वैः सुरैः कान्तया वीज्यमानः ।
संस्तूयमानश् च तथाप्सरोभिर् ।
नूनं लज्जा ते बिभेतीति मन्ये ॥ ३५ ॥
त्वं वृत्रहा नमुचेश् चापि हन्ता ।
पुरां भेत्ता गोत्रभिद् वज्रबाहुः ।
एवं सुरास् त्वां परिपूजयन्तीत्य् ।
अतो जिष्णो सर्वम् एतत् त्यजस्व ॥ ३६ ॥
विकारम् आप्याप्य् अहितोद्भवं ये ।
जीवन्ति लोकान् अनुसंविशन्ति ।
भवादृशां दुश्च्यवनाब्जजन्मा ।
कथं न हृद्भेदम् अवाप कर्ता ॥ ३७ ॥
ब्रह्मोवाच-
एवम् उक्त्वा तु दैत्येशो वरुणाय महात्मने ।
प्रादाद् इन्द्रं पुनश् चेदं वचनं तद् अभाषत ॥ ३८ ॥
महाशनिर् उवाच-
अद्य प्रभृत्य् असौ शिष्य इन्द्रः स्याद् वरुणो गुरुः ।
श्वशुरो मम येन त्वं मुक्तिम् आप्तो ऽसि वासव ॥ ३९ ॥
तथा त्वं भृत्यभावेन वर्तेथा वरुणं प्रति ।
नो चेद् बद्ध्वा पुनस् त्वां वै क्षेप्स्ये चैव रसातलम् ॥ ४० ॥
ब्रह्मोवाच-
एवं निर्भर्त्स्य तं शक्रं हसंश् चापि पुनः पुनः ।
अब्रवीद् गच्छ गच्छेति वरुणं चानुमन्य तु ॥ ४१ ॥
स तु प्राप्तः स्वनिलयं लज्जया कलुषीकृतः ।
पौलोम्यां प्राह तत् सर्वं यत् तच् छत्रुपराभवम् ॥ ४२ ॥
इन्द्र उवाच-
एवम् उक्तः कृतश् चैव शत्रुणाहं वरानने ।
निर्वापयामि येन स्वम् आत्मानं सुभगे वद ॥ ४३ ॥
इन्द्राण्य् उवाच-
दानवानाम् अथोद्भूतिं शक्र मायां पराभवम् ।
वरदानं तथा मृत्युं जाने ऽहं बलसूदन ॥ ४४ ॥
तस्माद् यस्मात् तस्य मृत्युर् अथवापि पराभवः ।
जायेत शृणु तत् सर्वं वक्ष्ये ऽहं प्रीतये तव ॥ ४५ ॥
हिरण्यस्य सुतो वीरः पितृव्यस्य सुतो बली ।
तस्मान् मम स्यात् स भ्राता वरदानाच् च दर्पितः ॥ ४६ ॥
ब्रह्माणं तोषयाम् आस तपसा नियमेन च ।
ईदृशं बलम् आपन्नं तपसा किं न सिध्यति ॥ ४७ ॥
तस्मात् त्वया चित्तरागो विस्मयो वा कथञ्चन ।
न कार्यः शृणु तत्रेदं कार्यं यत् तु क्रमागतम् ॥ ४८ ॥
ब्रह्मोवाच-
एवम् उक्त्वा तु पौलोमी प्राहेन्द्रं विनयान्विता ॥ ४९ ॥
इन्द्राण्य् उवाच-
नासाध्यम् अस्ति तपसो नासाध्यं यज्ञकर्मणः ।
नासाध्यं लोकनाथस्य विष्णोर् भक्त्या हरस्य च ॥ ५० ॥
पुनश् चेदं मया कान्त श्रुतम् अस्त्य् अतिशोभनम् ।
स्त्रीणां स्वभावं जानन्ति स्त्रिय एव सुराधिप ॥ ५१ ॥
तस्माद् भूमेस् तथा चापां नासाध्यं विद्यते प्रभो ।
तपो वा यज्ञकर्मादि ताभ्याम् एव यतो भवेत् ॥ ५२ ॥
तत्रापि तीर्थभूता तु या भूमिस् तां व्रजेद् भवान् ।
तत्र विष्णुं शिवं पूज्य सर्वान् कामान् अवाप्स्यसि ॥ ५३ ॥
श्रुतम् अस्ति पुनश् चेदं स्त्रियो याश् च पतिव्रताः ।
ता एव सर्वं जानन्ति धृतं ताभिश् चराचरम् ॥ ५४ ॥
पृथिव्यां सारभूतं स्यात् तन्मध्ये दण्डकं वनम् ।
तत्र गङ्गा जगद्धात्री तत्रेशं पूजय प्रभो ॥ ५५ ॥
विष्णुं वा जगताम् ईशं दीनार्तार्तिहरं विभुम् ।
अनाथानाम् इह नृणां मज्जतां दुःखसागरे ॥ ५६ ॥
हरो हरिर् वा गङ्गा वा क्वाप्य् अन्यच् छरणं नहि ।
तस्मात् सर्वप्रयत्नेन तोषयैतान् समाहितः ॥ ५७ ॥
भक्त्या स्तोत्रैश् च तपसा कुरु चैव मया सह ।
ततः प्राप्स्यसि कल्याणम् ईशविष्णुप्रसादजम् ॥ ५८ ॥
अज्ञात्वैकगुणं कर्म फलं दास्यति कर्मिणः ।
ज्ञात्वा शतगुणं तत् स्याद् भार्यया च तद् अक्षयम् ॥ ५९ ॥
पुंसः सर्वेषु कार्येषु भार्यैवेह सहायिनी ।
स्वल्पानाम् अपि कार्याणां नहि सिद्धिस् तया विना ॥ ६० ॥
एकेन यत् कृतं कर्म तस्माद् अर्धफलं भवेत् ।
जायया तु कृतं नाथ पुष्कलं पुरुषो लभेत् ॥ ६१ ॥
तस्माद् एतत् सुविदितम् अर्धो जाया इति श्रुतेः ।
श्रूयते दण्डकारण्ये सरिच्छ्रेष्ठास्ति गौतमी ॥ ६२ ॥
अशेषाघप्रशमनी सर्वाभीष्टप्रदायिनी ।
तस्माद् गच्छ मया तत्र कुरु पुण्यं महाफलम् ॥ ६३ ॥
ततः शत्रून् निहत्याजौ महत् सुखम् अवाप्स्यसि ॥ ६४ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा स गुरुणा भार्यया च शतक्रतुः ।
ययौ गङ्गां जगद्धात्रीं गौतमीं चेति विश्रुताम् ॥ ६५ ॥
दण्डकारण्यमध्यस्थां ययौ स प्रीतिमान् हरिः ।
तपः कर्तुं मनश् चक्रे देवदेवाय शम्भवे ॥ ६६ ॥
गङ्गां नत्वा तु प्रथमं स्नात्वा च स कृताञ्जलिः ।
शिवैकशरणो भूत्वा स्तोत्रं चेदं ततो ऽब्रवीत् ॥ ६७ ॥
इन्द्र उवाच-
स्वमायया यो ह्य् अखिलं चराचरं ।
सृजत्य् अवत्य् अत्ति न सज्जते ऽस्मिन् ।
एकः स्वतन्त्रो ऽद्वयचित् सुखात्मकः ।
स नः प्रसन्नो ऽस्तु पिनाकपाणिः ॥ ६८ ॥
न यस्य तत्त्वं सनकादयो ऽपि ।
जानन्ति वेदान्तरहस्यविज्ञाः ।
दाता प्रसन्नो ऽस्तु ममान्धकारिः ॥ ६९ ॥
सृष्ट्वा स्वयम्भूर् भगवान् विरिञ्चिं ।
भयङ्करं चास्य शिरो ऽन्वपश्यत् ।
छित्त्वा नखाग्रैर् नखसक्तम् एतच् ।
चिक्षेप तस्माद् अभवत् त्रिवर्गः ॥ ७० ॥
पापं दरिद्रं त्व् अथ लोभयाच्ञे ।
मोहो विपच् चेति ततो ऽप्य् अनन्तम् ।
जातप्रभावं भवदुःखरूपं ।
बभूव तैर् व्याप्तम् इदं समस्तम् ॥ ७१ ॥
अवेक्ष्य सर्वं चकितः सुरेशो ।
देवीम् अवोचज् जगद् अस्तम् एति ।
त्वं पाहि लोकेश्वरि लोकमातर् ।
उमे शरण्ये सुभगे सुभद्रे ॥ ७२ ॥
जगत्प्रतिष्ठे वरदे जय त्वं ।
भुक्तिः समाधिः परमा च मुक्तिः ।
स्वाहा स्वधा स्वस्तिर् अनादिसिद्धिर् ।
गीर् बुद्धिर् आसीर् अजरामरे त्वम् ॥ ७३ ॥
विद्यादिरूपेण जगत्त्रये त्वं ।
रक्षां करोष्य् एव मदाज्ञया च ।
त्वयैव सृष्टं भुवनत्रयं स्याद् ।
यतः प्रकृत्यैव तथैव चित्रम् ॥ ७४ ॥
इत्य् एवम् उक्ता दयिता हरेण ।
संश्लेषसंलापपरा बभूव ।
श्रान्ता भवस्यार्धतनौ सुलग्ना ।
चिक्षेप च स्वेदजलं कराग्रैः ॥ ७५ ॥
तस्माद् बभूव प्रथमं स धर्मो ।
लक्ष्मीर् अथो दानम् अथो सुवृष्टिः ।
सत्त्वं सुसम्पन्नधरं सरांसि ।
धान्यानि पुष्पाणि फलानि चैव ॥ ७६ ॥
सौभाग्यवस्तूनि वपुः सुवेषः ।
शृङ्गारभाजीनि महौषधानि ।
नृत्यानि गीतान्य् अमृतं पुराणं ।
श्रुतिस्मृती नीतिर् अथान्नपाने ॥ ७७ ॥
शस्त्राणि शास्त्राणि गृहोपयोग्यान्य् ।
अस्त्राणि तीर्थानि च काननानि ।
इष्टानि पूर्तानि च मङ्गलानि ।
यानानि शुभ्राभरणासनानि ॥ ७८ ॥
सुस्वेदसंलापरहःप्रकारैः ।
तथैव जातं सचराचरं च ।
अपापकं देवि ततश् च जातम् ॥ ७९ ॥
सुखं प्रभूतं च शुभं च नित्यं ।
विराजि चैतत् तव देवि भावात् ।
तस्मात् तु मां रक्ष जगज्जनित्रि ।
भीतं भयेभ्यो जगतां प्रधाने ॥ ८० ॥
एके तर्कैर् विमुह्यन्ति लीयन्ते तत्र चापरे ।
शिवशक्त्योस् तदाद्वैतं सुन्दरं नौमि विग्रहम् ॥ ८१ ॥
ब्रह्मोवाच-
एवं तु स्तुवतस् तस्य पुरस्ताद् अभवच् छिवः ॥ ८२ ॥
शिव उवाच-
किम् अभीष्टं वरयसे हरे वद परायणम् ॥ ८३ ॥
इन्द्र उवाच-
बलवान् मे रिपुश् चासीद् दर्शनैश् च शनिर् यथा ।
तेन बद्धस् तलं नीतः परिभूतस् त्व् अनेकधा ॥ ८४ ॥
वाक्सायकैस् तथा विद्धस् तद्वधाय त्व् इयं कृतिः ।
तदर्थं जगताम् ईश येन जेष्ये रिपुं प्रभो ॥ ८५ ॥
तद् एव देहि वीर्यं मे यच् चान्यद् रिपुनाशनम् ।
जातः पराभवो यस्मात् तद्विनाशे कृते सति ।
पुनर्जातम् अहं मन्ये वरं कीर्तिर् जयश्रियोः ॥ ८६ ॥
ब्रह्मोवाच-
स शिवः शक्रम् आहेदं न मयैकेन ते रिपुः ।
वधम् आप्नोति तस्मात् त्वं विष्णुम् अप्य् अव्ययं हरिम् ॥ ८७ ॥
आराधयस्व पौलोम्या सह देवं जनार्दनम् ।
लोकत्रयैकशरणं नारायणम् अनन्यधीः ॥ ८८ ॥
ततः प्राप्स्यसि तस्माच् च मत्तश् चापि प्रियं हरे ।
पुनश् चोवाच भगवान् आदिकर्ता महेश्वरः ॥ ८९ ॥
मन्त्राभ्यासस् तपो वापि योगाभ्यसनम् एव च ।
सङ्गमे यत्र कुत्रापि सिद्धिदं मुनयो विदुः ॥ ९० ॥
किं पुनः सङ्गमे विप्र गौतमीसिन्धुफेनयोः ।
गिरीणां गह्वरे यद् वा सरिताम् अथ सङ्गमे ॥ ९१ ॥
विप्रो धियैव भवति मुकुन्दाङ्घ्रिनिविष्टया ।
गङ्गाया दक्षिणे तीर आपस्तम्बो मुनीश्वरः ॥ ९२ ॥
आस्ते तस्याप्य् अहं तोषम् अगमं बलसूदन ।
तेन त्वं भार्यया चैव तोषयस्व गदाधरम् ॥ ९३ ॥
ब्रह्मोवाच-
आपस्तम्बेन सहितो गङ्गाया दक्षिणे तटे ।
तुष्टाव देवं प्रयतः स्नात्वा पुण्ये ऽथ सङ्गमे ॥ ९४ ॥
फेनायाश् चैव गङ्गायास् तत्र देवं जनार्दनम् ।
वैदिकैर् विविधैर् मन्त्रैस् तपसातोषयत् तदा ॥ ९५ ॥
ततस् तुष्टो ऽभवद् विष्णुः किं देयं चेत्य् अभाषत ।
देहि मे शत्रुहन्तारम् इत्य् आह भगवान् हरिः ॥ ९६ ॥
दत्तम् इत्य् एव जानीहि तम् उवाच जनार्दनः ।
तत्राभवच् छिवस्यैव गङ्गाविष्ण्वोः प्रसादतः ॥ ९७ ॥
अम्भसा पुरुषो जातः शिवविष्णुस्वरूपधृक् ।
चक्रपाणिः शूलधरः स गत्वा तु रसातलम् ॥ ९८ ॥
निजघान तदा दैत्यम् इन्द्रशत्रुं महाशनिम् ।
सखाभवत् स चेन्द्रस्य अब्जकः स वृषाकपिः ॥ ९९ ॥
दिविस्थो ऽपि सदा चेन्द्रस् तम् अन्वेति वृषाकपिम् ।
कुपिता प्रणयेनाभूद् अन्यासक्तं विलोक्य तम् ।
शचीं तां सान्त्वयन्न् आह शतमन्युर् हसन्न् इदम् ॥ १०० ॥
इन्द्र उवाच-
नाहम् इन्द्राणि शरणम् ऋते सख्युर् वृषाकपेः ।
वारि वापि हविर् यस्य अग्नेः प्रियकरं सदा ॥ १०१ ॥
नाहम् अन्यत्र गन्तास्मि प्रिये चाङ्गेन ते शपे ।
तस्मान् नार्हसि मां वक्तुं शङ्कयान्यत्र भामिनि ॥ १०२ ॥
पतिव्रता प्रिया मे त्वं धर्मे मन्त्रे सहायिनी ।
सापत्या च कुलीना च त्वत्तो ऽन्या का प्रिया मम ॥ १०३ ॥
तस्मात् तवोपदेशेन गङ्गां प्राप्य महानदीम् ।
प्रसादाद् देवदेवस्य विष्णोर् वै चक्रपाणिनः ॥ १०४ ॥
तथा शिवस्य देवस्य प्रसादाच् च वृषाकपेः ।
जलोद्भवाच् च मे मित्राद् अब्जकाल् लोकविश्रुतात् ॥ १०५ ॥
उत्तीर्णदुःखः सुभगे इत इन्द्रो ऽहम् अच्युतः ।
किं न साध्यं यत्र भार्या भर्तृचित्तानुगामिनी ॥ १०६ ॥
दुष्करा तत्र नो मुक्तिः किन्त्व् अर्थादित्रयं शुभे ।
जायैव परमं मित्रं लोकद्वयहितैषिणी ॥ १०७ ॥
सा चेत् कुलीना प्रियभाषिणी च ।
पतिव्रता रूपवती गुणाढ्या ।
सम्पत्सु चापत्सु समानरूपा ।
तया ह्य् असाध्यं किम् इह त्रिलोक्याम् ॥ १०८ ॥
तस्मात् तव धिया कान्ते ममेदं शुभम् आगतम् ।
इतस् तवोदितं चैव कर्तव्यं नान्यद् अस्ति मे ॥ १०९ ॥
परलोके च धर्मे च सत्पुत्रसदृशं न च ।
आर्तस्य पुरुषस्येह भार्यावद् भेषजं नहि ॥ ११० ॥
निःश्रेयसपदप्राप्त्यै तथा पापस्य मुक्तये ।
गङ्गया सदृशं नास्ति शृणु चान्यद् वरानने ॥ १११ ॥
धर्मार्थकाममोक्षाणां प्राप्तये पापमुक्तये ।
शिवविष्ण्वोर् अनन्यत्वज्ञानान् नास्त्य् अत्र मुक्तये ॥ ११२ ॥
तस्मात् तव धिया साध्वि सर्वम् एतन् मनोगतम् ।
अवाप्तं च शिवाद् विष्णोर् गङ्गायाश् च प्रसादतः ॥ ११३ ॥
इन्द्रत्वं मे स्थिरं चेतो मन्ये मित्रबलात् पुनः ।
वृषाकपिर् मम सखा यो जातस् त्व् अप्सु भामिनि ॥ ११४ ॥
त्वं च प्रियसखी नित्यं नान्यत् प्रियतरं मम ।
तीर्थानां गौतमी गङ्गा देवानां हरिशङ्करौ ॥ ११५ ॥
तस्माद् एभ्यः प्रसादेन सर्वं चेप्सितम् आप्तवान् ।
मम प्रीतिकरं चेदं तीर्थं त्रैलोक्यविश्रुतम् ॥ ११६ ॥
तस्माद् एतद् धि याचिष्ये देवान् सर्वान् अनुक्रमात् ।
अनुमन्यन्तु ऋषयो गङ्गा च हरिशङ्करौ ॥ ११७ ॥
इन्द्रेश्वरे चाब्जके च उभयोस् तीरयोः सुराः ।
एकत्र शङ्करो देवो ह्य् अपरत्र जनार्दनः ॥ ११८ ॥
पावयन् दण्डकारण्यं साक्षाद् विष्णुस् त्रिविक्रमः ।
अन्तरे यानि तीर्थानि सर्वपुण्यप्रदानि च ॥ ११९ ॥
अत्र तु स्नानमात्रेण सर्वे ते मुक्तिम् आप्नुयुः ।
पापिष्ठाः पापतो मुक्तिम् आप्नुयुर् ये च धर्मिणः ॥ १२० ॥
तेषां तु परमा मुक्तिः पितृभिः पञ्चपञ्चभिः ।
अत्र किञ्चिच् च ये दद्युर् अर्थिभ्यस् तिलमात्रकम् ॥ १२१ ॥
दातृभ्यो ह्य् अक्षयं तत् स्यात् कामदं मोक्षदं तथा ।
धन्यं यशस्यम् आयुष्यम् आरोग्यं पुण्यवर्धनम् ॥ १२२ ॥
आख्यानं विष्णुशम्भ्वोश् च ज्ञात्वा स्नानाच् च मुक्तिदम् ।
अस्य तीर्थस्य माहात्म्यं ये शृण्वन्ति पठन्ति च ॥ १२३ ॥
पुण्यभाजो भवेयुस् ते तेभ्यो ऽत्रैव स्मृतिर् भवेत् ।
शिवविष्ण्वोर् अशेषाघसङ्घविच्छेदकारिणी ।
यां प्रार्थयन्ति मुनयो विजितेन्द्रियमानसाः ॥ १२४ ॥
ब्रह्मोवाच-
भविष्यत्य् एवम् एवेति तं देवा ऋषयो ऽब्रुवन् ।
गौतम्या उत्तरे पारे तीर्थानां मोक्षदायिनाम् ॥ १२५ ॥
देवर्षिसिद्धसेव्यानां सहस्राण्य् अथ सप्त वै ।
तथैव दक्षिणे तीरे तीर्थान्य् एकादशैव तु ॥ १२६ ॥
अब्जकं हृदयं प्रोक्तं गोदावर्या मुनीश्वरैः ।
विश्रामस्थानम् ईशस्य विष्णोर् ब्रह्मण एव च ॥ १२७ ॥