128

Summary (SA)

Chapter 128- Story of Agni and Śiva’s semen; the abuduction of Suvarṇā

{{Ref- SS 215-217}}

ब्रह्मोवाच-

तपोवनम् इति ख्यातं नन्दिनीसङ्गमं तथा ।
सिद्धेश्वरं तत्र तीर्थं गौतम्या दक्षिणे तटे ॥ १ ॥

शार्दूलं चेति विख्यातं तेषां वृत्तम् इदं शृणु ।
यस्याकर्णनमात्रेण सर्वपापैः प्रमुच्यते ॥ २ ॥

अग्निर् होता पुरा त्व् आसीद् देवानां हव्यवाहनः ।
भार्यां प्राप्तो दक्षसुतां स्वाहानाम्नीं सुरूपिणीम् ॥ ३ ॥

सानपत्या पुरा चासीत् पुत्रार्थं तप आविशत् ।
तपश् चरन्तीं विपुलं तोषयन्तीं हुताशनम् ।
स भर्ता हुतभुक् प्राह भार्यां स्वाहाम् अनिन्दिताम् ॥ ४ ॥

अग्निर् उवाच-

अपत्यानि भविष्यन्ति मा तपः कुरु शोभने ॥ ५ ॥

ब्रह्मोवाच-

एतच् छ्रुत्वा भर्तृवाक्यं निवृत्ता तपसो ऽभवत् ।
स्त्रीणाम् अभीष्टदं नान्यद् भर्तृवाक्यं विना क्वचित् ॥ ६ ॥

ततः कतिपये काले तारकाद् भय आगते ।
अनुत्पन्ने कार्त्तिकेये चिरकालरहोगते ॥ ७ ॥

महेश्वरे भवान्या च त्रस्ता देवाः समागताः ।
देवानां कार्यसिद्ध्यर्थम् अग्निं प्रोचुर् दिवौकसः ॥ ८ ॥

देवा ऊचुः-

देव गच्छ महाभाग शम्भुं त्रैलोक्यपूजितम् ।
तारकाद् भयम् उत्पन्नं शम्भवे त्वं निवेदय ॥ ९ ॥

अग्निर् उवाच-

न गन्तव्यं तत्र देशे दम्पत्योः स्थितयो रहः ।
सामान्यमात्रतो न्यायः किं पुनः शूलपाणिनि ॥ १० ॥

एकान्तस्थितयोः स्वैरं जल्पतोर् यः सरागयोः ।
दम्पत्योः शृणुयाद् वाक्यं निरयात् तस्य नोद्धृतिः ॥ ११ ॥

स स्वाम्य् अखिललोकानां महाकालस् त्रिशूलवान् ।
निरीक्षणीयः केन स्याद् भवान्या रहसि स्थितः ॥ १२ ॥

देवा ऊचुः-

महाभये चानुगते न्यायः को ऽन्व् अत्र वर्ण्यते ।
तारकाद् भय उत्पन्ने गच्छ त्वं तारको भवान् ॥ १३ ॥

महाभयाब्धौ साधूनां यत् परार्थाय जीवितम् ।
रूपेणान्येन वा गच्छ वाचं वद यथा तथा ॥ १४ ॥

विश्राव्य देववचनं शम्भुम् आगच्छ सत्वरः ।
ततो दास्यामहे पूजाम् उभयोर् लोकयोः कवे ॥ १५ ॥

ब्रह्मोवाच-

शुको भूत्वा जगामाशु देववाक्याद् धुताशनः ।
यत्रासीज् जगतां नाथो रममाणस् तदोमया ॥ १६ ॥

स भीतवद् अथ प्रायाच् छुको भूत्वा तदानलः ।
नाशकद् द्वारदेशे तु प्रवेष्टुं हव्यवाहनः ॥ १७ ॥

ततो गवाक्षदेशे तु तस्थौ धुन्वन्न् अधोमुखः ।
तं दृष्ट्वा प्रहसञ् शम्भुर् उमां प्राह रहोगतः ॥ १८ ॥

शम्भुर् उवाच-

पश्य देवि शुकं प्राप्तं देववाक्याद् धुताशनम् ॥ १९ ॥

ब्रह्मोवाच-

लज्जिता चावदद् देवम् अलं देवेति पार्वती ।
पुरश्चरन्तं देवेशो ह्य् अग्निं तं द्विजरूपिणम् ॥ २० ॥

आहूय बहुशश् चापि ज्ञातो ऽस्य् अग्ने ऽत्र मा वद ।
विदारयस्व स्वमुखं गृहाणेदं नयस्व तत् ॥ २१ ॥

इत्य् उक्त्वा तस्य चास्ये ऽग्ने रेतः स प्राक्षिपद् बहु ।
रेतोगर्भस् तदा चाग्निर् गन्तुं नैव च शक्तवान् ॥ २२ ॥

सुरनद्यास् ततस् तीरं श्रान्तो ऽग्निर् उपतस्थिवान् ।
कृत्तिकासु च तद् रेतः प्रक्षेपात् कार्त्तिको ऽभवत् ॥ २३ ॥

अवशिष्टं च यत् किञ्चिद् अग्नेर् देहे च शाम्भवम् ।
तद् एव रेतो वह्निस् तु स्वभार्यायां द्विधाक्षिपत् ॥ २४ ॥

स्वाहायां प्रियभूतायां पुत्रार्थिन्यां विशेषतः ।
पुरा साश्वासिता तेन सन्ततिस् ते भविष्यति ॥ २५ ॥

तद् वह्निनाथ संस्मृत्य तत् क्षिप्तं शाम्भवं महः ।
तद् अग्ने रेतसस् तस्यां जज्ञे मिथुनम् उत्तमम् ॥ २६ ॥

सुवर्णश् च सुवर्णा च रूपेणाप्रतिमं भुवि ।
अग्नेः प्रीतिकरं नित्यं लोकानां प्रीतिवर्धनम् ॥ २७ ॥

अग्निः प्रीत्या सुवर्णां तां प्रादाद् धर्माय धीमते ।
सुवर्णस्याथ पुत्रस्य सङ्कल्पाम् अकरोत् प्रियाम् ।
एवं पुत्रस्य पुत्र्याश् च विवाहम् अकरोत् कविः ॥ २८ ॥

अन्योन्यरेतोव्यतिषङ्गदोषाद् ।
अग्नेर् अपत्यम् उभयं तथैव ।
पुत्रः सुवर्णो बहुरूपरूपी ।
रूपाणि कृत्वा सुरसत्तमानाम् ॥ २९ ॥

इन्द्रस्य वायोर् धनदस्य भार्यां ।
जलेश्वरस्यापि मुनीश्वराणाम् ।
भार्यास् तु गच्छत्य् अनिशं सुवर्णो ।
यस्याः प्रियं यच् च वपुः स कृत्वा ॥ ३० ॥

याति क्वचिच् चापि कवेस् तनूजस् ।
तद्भर्तृरूपं च पतिव्रतासु ।
कृत्वानिशं ताभिर् उदारभावः ।
कुर्वन् कृतार्थं मदनं स रेमे ॥ ३१ ॥

कृत्वा गता क्वापि चैवं सुवर्णा ।
धर्मस्य भार्यापि सुवर्णनाम्नी ।
स्वाहासुता स्वैरिणी सा बभूव ।
यस्यापि यस्यापि मनोगता या ॥ ३२ ॥

भार्यास्वरूपा सैव भूत्वा सुवर्णा ।
रेमे पतीन् मानुषान् आसुरांश् च ।
देवान् ऋषीन् पितृरूपांस् तथान्यान् ।
रूपौदार्यस्थैर्यगाम्भीर्ययुक्तान् ॥ ३३ ॥

याभिप्रेता यस्य देवस्य भार्या ।
तद्रूपा सा रमते तेन सार्धम् ।
नानाभेदैः करणैश् चाप्य् अनेकैर् ।
आकर्षन्ती तन्मनः कामसिद्धिम् ॥ ३४ ॥

एवं सुवर्णस्य निरीक्ष्य चेष्टाम् ।
अग्नेः सूनोः पुत्रिकायास् तथाग्नेः ।
सर्वे च शेपुः कुपितास् तदाग्नेः ।
पुत्रं च पुत्रीं च सुरासुरास् ते ॥ ३५ ॥

सुरासुरा ऊचुः-

कृतं यद् एतद् व्यभिचाररूपं ।
यच् छद्मना वर्तनं पापरूपम् ।
तस्मात् सुतस् ते व्यभिचारवांश् च ।
सर्वत्र गामी जायतां हव्यवाह ॥ ३६ ॥

तथा सुवर्णापि न चैकनिष्ठा ।
भूयाद् अग्ने नैकतृप्ता बहूंश् च ।
नानाजातीन् निन्दितान् देहभाजो ।
भजित्री स्याद् एष दोषश् च पुत्र्याः ॥ ३७ ॥

ब्रह्मोवाच-

इत्य् एतच् छापवचनं श्रुत्वाग्निर् अतिभीतवत् ।
माम् अभ्येत्य तदोवाच निष्कृतिं वद पुत्रयोः ॥ ३८ ॥

तदाहम् अब्रवं वह्ने गौतमीं गच्छ शङ्करम् ।
स्तुत्वा तत्र महाबाहो निवेदय जगत्पतेः ॥ ३९ ॥

माहेश्वरेण वीर्येण तव देहस्थितेन च ।
एवंविधं त्व् अपत्यं ते जातं वह्ने ततो भवान् ॥ ४० ॥

निवेदयस्व देवाय देवानां शापम् ईदृशम् ।
स्वापत्यरक्षणायासौ शम्भुः श्रेयः करिष्यति ॥ ४१ ॥

स्तुहि देवं च देवीं च भक्त्या प्रीतो भवेच् छिवः ।
ततस् त्व् अपत्यविषये प्रियान् कामान् अवाप्स्यसि ॥ ४२ ॥

ततो मद्वचनाद् अग्निर् गङ्गां गत्वा महेश्वरम् ।
तुष्टाव नियतो वाक्यैः स्तुतिभिर् वेदसम्मितैः ॥ ४३ ॥

अग्निर् उवाच-

विश्वस्य जगतो धाता विश्वमूर्तिर् निरञ्जनः ।
आदिकर्ता स्वयम्भूश् च तं नमामि जगत्पतिम् ॥ ४४ ॥

यो ऽग्निर् भूत्वा संहरति स्रष्टा वै जलरूपतः ।
सूर्यरूपेण यः पाति तं नमामि च त्र्यम्बकम् ॥ ४५ ॥

ब्रह्मोवाच-

ततः प्रसन्नो भगवान् अनन्तः शम्भुर् अव्ययः ।
वरेण च्छन्दयाम् आस पावकं सुरपूजितम् ॥ ४६ ॥

स विनीतः शिवं प्राह तव वीर्यं मयि स्थितम् ।
तेन जातः सुतो रम्यः सुवर्णो लोकविश्रुतः ॥ ४७ ॥

तथा सुवर्णा पुत्री च तस्माद् एव जगत्प्रभो ।
अन्योन्यवीर्यसङ्गाच् च तद्दोषाद् उभयं त्व् इदम् ॥ ४८ ॥

व्यभिचारात् सदोषं च अपत्यम् अभवच् छिव ।
शापं ददुः सुराः सर्वे तयोः शान्तिं कुरु प्रभो ॥ ४९ ॥

तदग्निवचनाच् छम्भुः प्रोवाचेदं शुभोदयम् ॥ ५० ॥

शम्भुर् उवाच-

मद्वीर्याद् अभवत् त्वत्तः सुवर्णो भूरिविक्रमः ।
समग्रा ऋद्धयः सर्वाः सुवर्णे ऽस्मिन् समाहिताः ॥ ५१ ॥

भविष्यन्ति न सन्देहो वह्ने शृणु वचो मम ।
त्रयाणाम् अपि लोकानां पावनः स भविष्यति ॥ ५२ ॥

स एव चामृतं लोके स एव सुरवल्लभः ।
स एव भुक्तिमुक्ती च स एव मखदक्षिणा ॥ ५३ ॥

स एव रूपं सर्वस्य गुरूणाम् अप्य् असौ गुरुः ।
वीर्यं श्रेष्ठतमं विद्याद् वीर्यं मत्तो यद् उत्तमम् ॥ ५४ ॥

विशेषतस् त्वयि क्षिप्तं तस्य का स्याद् विचारणा ।
हीनं तेन विना सर्वं सम्पूर्णास् तेन सम्पदः ॥ ५५ ॥

जीवन्तो ऽपि मृताः सर्वे सुवर्णेन विना नराः ।
निर्गुणो ऽपि धनी मान्यः सगुणो ऽप्य् अधनो नहि ॥ ५६ ॥

तस्मान् नातः परं किञ्चित् सुवर्णाद् धि भविष्यति ।
तथा चैषा सुवर्णापि स्याद् उत्कृष्टापि चञ्चला ॥ ५७ ॥

अनया वीक्षितं सर्वं न्यूनं पूर्णं भविष्यति ।
तपसा जपहोमैश् च येयं प्राप्या जगत्त्रये ॥ ५८ ॥

तस्याः प्रभावं प्राशस्त्यम् अग्ने किञ्चिच् च कीर्त्यते ।
सर्वत्र या तु सन्तिष्ठेद् आयातु विचरिष्यति ॥ ५९ ॥

सुवर्णा कमला साक्षात् पवित्रा च भविष्यति ।
अद्य प्रभृत्य् आत्मजयोस् तथा स्वैरं विचेष्टतोः ॥ ६० ॥

तथापि चैतयोः पुण्यं न भूतं न भविष्यति ॥ ६१ ॥

ब्रह्मोवाच-

एवम् उक्त्वा ततः शम्भुः साक्षात् तत्राभवच् छिवः ।
लिङ्गरूपेण सर्वेषां लोकानां हितकाम्यया ॥ ६२ ॥

वरान् प्राप्य सुताभ्यां स अग्निस् तुष्टो ऽभवत् ततः ।
स्वभर्त्रा च सुवर्णा सा धर्मेणाग्निसुता मुदा ॥ ६३ ॥

वर्तयाम् आस पुत्रो ऽपि वह्नेः सङ्कल्पया मुदा ।
एतस्मिन्न् अन्तरे स्वर्णाम् अग्नेर् दुहितरं मुने ॥ ६४ ॥

परिभूय च धर्मं तं शार्दूलो दानवेश्वरः ।
अहरद् भाग्यसौभाग्यविलासवसतिं छलात् ॥ ६५ ॥

नीता रसातलं तेन सुवर्णा लोकविश्रुता ।
जामाताग्नेः स धर्मश् च अग्निश् चैव स हव्यवाट् ॥ ६६ ॥

विष्णवे लोकनाथाय स्तुत्वा चैव पुनः पुनः ।
कार्यविज्ञापनं चोभौ चक्रतुः प्रभविष्णवे ॥ ६७ ॥

ततश् चक्रेण चिच्छेद शार्दूलस्य शिरो हरिः ।
सानीता विष्णुना देवी सुवर्णा लोकसुन्दरी ॥ ६८ ॥

महेश्वरसुता चैव अग्नेश् चैव तथा प्रिया ।
महेश्वराय तां विष्णुर् दर्शयाम् आस नारद ॥ ६९ ॥

प्रीतो ऽभवन् महेशो ऽपि सस्वजे तां पुनः पुनः ।
चक्रं प्रक्षालितं यत्र शार्दूलच्छेदि दीप्तिमत् ॥ ७० ॥

चक्रतीर्थं तु विख्यातं शार्दूलं चेति तद् विदुः ।
यत्र नीता सुवर्णा सा विष्णुना शङ्करान्तिकम् ॥ ७१ ॥

तत् तीर्थं शाङ्करं ज्ञेयं वैष्णवं सिद्धम् एव तु ।
यत्रानन्दम् अनुप्राप्तो ह्य् अग्निर् धर्मश् च शाश्वतः ॥ ७२ ॥

आनन्दाश्रूणि न्यपतन् यत्राग्नेर् मुनिसत्तम ।
आनन्देति नदी जाता तथा वै नन्दिनीति च ॥ ७३ ॥

तस्याश् च सङ्गमः पुण्यो गङ्गायां तत्र वै शिवः ।
तत्रैव सङ्गमे साक्षात् सुवर्णाद्यापि संस्थिता ॥ ७४ ॥

दाक्षायणी सैव शिवा आग्नेयी चेति विश्रुता ।
अम्बिका जगदाधारा शिवा कात्यायनीश्वरी ॥ ७५ ॥

भक्ताभीष्टप्रदा नित्यम् अलङ्कृत्योभयं तटम् ।
तपस् तेपे यत्र चाग्निस् तत् तीर्थं तु तपोवनम् ॥ ७६ ॥

एवमादीनि तीर्थानि तीरयोर् उभयोर् मुने ।
तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥ ७७ ॥

उत्तरे चैव पारे च सहस्राणि चतुर्दश ।
दक्षिणे च तथा पारे सहस्राण्य् अथ षोडश ॥ ७८ ॥

तत्र तत्र च तीर्थानि साभिज्ञानानि सन्ति वै ।
नामानि च पृथक् सन्ति सङ्क्षेपात् तन् मयोच्यते ॥ ७९ ॥

एतानि यश् च शृणुयाद् यश् च वा पठति स्मरेत् ।
सर्वेषु तत्र काम्येषु परिपूर्णो भवेन् नरः ॥ ८० ॥

एतद् वृत्तं तु यो ज्ञात्वा तत्र स्नानादिकं चरेत् ।
लक्ष्मीवाञ् जायते नित्यं धर्मवांश् च विशेषतः ॥ ८१ ॥

अब्जकात् पश्चिमे तीर्थं तच् छार्दूलम् उदाहृतम् ।
वाराणस्यादितीर्थेभ्यः सर्वेभ्यो ह्य् अधिकं भवेत् ॥ ८२ ॥

तत्र स्नात्वा पितॄन् देवान् वन्दते तर्पयत्य् अपि ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ८३ ॥

तपोवनाच् च शार्दूलान् मध्ये तीर्थान्य् अशेषतः ।
तस्यैकैकस्य माहात्म्यं न केनाप्य् अत्र वर्ण्यते ॥ ८४ ॥