Summary (SA)
Chapter 127- The sacrificer kidnapped by a demon
{{Ref- SS 213-214}}
ब्रह्मोवाच-
देवतीर्थम् इति ख्यातं गङ्गाया उत्तरे तटे ।
तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ॥ १ ॥
आर्ष्टिषेण इति ख्यातो राजा सर्वगुणान्वितः ।
तस्य भार्या जया नाम साक्षाल् लक्ष्मीर् इवापरा ॥ २ ॥
तस्य पुत्रो भरो नाम मतिमान् पितृवत्सलः ।
धनुर्वेदे च वेदे च निष्णातो दक्ष एव च ॥ ३ ॥
तस्य भार्या रूपवती सुप्रभेत्य् अभिविश्रुता ।
आर्ष्टिषेणस् ततो राजा पुत्रे राज्यं निवेश्य सः ॥ ४ ॥
पुरोधसा च मुख्येन दीक्षां चक्रे नरेश्वरः ।
सरस्वत्यास् ततस् तीरे हयमेधाय यत्नवान् ॥ ५ ॥
ऋत्विग्भिर् ऋषिमुख्यैश् च वेदशास्त्रपरायणैः ।
दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः ॥ ६ ॥
मिथुर् दानवराट् शूरः पापबुद्धिः प्रतापवान् ।
मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम् ॥ ७ ॥
आदाय वेगात् स प्रागाद् रसातलतलं मुने ।
नीते तस्मिन् नृपवरे यज्ञे नष्टे ततो ऽमराः ॥ ८ ॥
ऋत्विजश् च ययुः सर्वे स्वं स्वं स्थानं मखात् ततः ।
पुरोहितसुतो राज्ञो देवापिर् इति विश्रुतः ॥ ९ ॥
बालस् तां मातरं दृष्ट्वा आत्मनः पितरं न च ।
दृष्ट्वा सविस्मयो भूत्वा दुःखितो ऽतीव चाभवत् ॥ १० ॥
स मातरं तु पप्रच्छ पिता मे क्व गतो ऽम्बिके ।
पितृहीनो न जीवेयं मातः सत्यं वदस्व मे ॥ ११ ॥
धिग् धिक् पितृविहीनानां जीवितं पापकर्मणाम् ।
न वक्षि यदि मे मातर् जलम् अग्निम् अथाविशे ॥ १२ ॥
पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः ।
दानवेन तलं नीतो राज्ञा सह पिता तव ॥ १३ ॥
देवापिर् उवाच-
क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणि ।
केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे ॥ १४ ॥
मातोवाच-
दीक्षितं यज्ञसदसि सभार्यं सपुरोधसम् ।
राजानं तं मिथुर् दैत्यो नीतवान् स रसातलम् ।
पश्यत्सु देवसङ्घेषु वह्निब्राह्मणसन्निधौ ॥ १५ ॥
ब्रह्मोवाच-
तन् मातृवचनं श्रुत्वा देवापिः कृत्यम् अस्मरत् ।
देवान् पश्ये ऽथवाग्निं वा ऋत्विजो वासुरांस् तथा ॥ १६ ॥
एतेष्व् एव पितान्वेष्यो नान्यत्रेति मतिर् मम ।
इति निश्चित्य देवापिर् भरं प्राह नृपात्मजम् ॥ १७ ॥
देवापिर् उवाच-
तपसा ब्रह्मचर्येण व्रतेन नियमेन च ।
आनेतव्या मया सर्वे नीता ये च रसातलम् ॥ १८ ॥
जाते पराभवे घोरे यो न कुर्यात् प्रतिक्रियाम् ।
नराधमेन किं तेन जीवता वा मृतेन वा ॥ १९ ॥
त्वं प्रशाधि महीं कृत्स्नाम् आर्ष्टिषेणः पिता यथा ।
माता मम त्वया पाल्या राजन् यावन् ममागतिः ।
भवेच् च कृतकार्यस्य अनुजानीहि मां भर ॥ २० ॥
ब्रह्मोवाच-
भरेणोक्तः स देवापिः सर्वं निश्चित्य यत्नतः ॥ २१ ॥
भर उवाच-
सिद्धिं कुरु सुखं याहि मा चिन्ताम् अल्पिकां भज ॥ २२ ॥
ब्रह्मोवाच-
ततो देवापिर् अमरराजाङ्घ्रिध्यानतत्परः ।
ऋत्विजो ऽन्वेष्य यत्नेन नत्वा तान् ऋत्विजः पृथक् ।
कृताञ्जलिपुटो बालो देवापिर् वाक्यम् अब्रवीत् ॥ २३ ॥
देवापिर् उवाच-
भवद्भिश् च मखो रक्ष्यो यजमानश् च दीक्षितः ।
पुरोधाश् च तथा रक्ष्यः पत्नी या दीक्षितस्य तु ॥ २४ ॥
भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट् ।
राजादयस् तेन नीतास् तन् न युक्ततमं भवेत् ॥ २५ ॥
अथाप्य् एतद् अहं मन्ये भवन्तस् तान् अरोगिणः ।
दातुम् अर्हन्ति तान् सर्वान् अन्यथा शापम् अर्हथ ॥ २६ ॥
ऋत्विज ऊचुः-
मखे ऽग्निः प्रथमं पूज्यो ह्य् अग्निर् एवात्र दैवतम् ।
तस्माद् वयं न जानीमो ह्य् अग्नीनां परिचारकाः ॥ २७ ॥
स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट् ॥ २८ ॥
ब्रह्मोवाच-
ऋत्विजः पृष्ठतः कृत्वा देवापिर् जातवेदसम् ।
पूजयित्वा यथान्यायम् अग्नये तन् न्यवेदयत् ॥ २९ ॥
अग्निर् उवाच-
यथर्त्विजस् तथा चाहं देवानां परिचारकः ।
हव्यं वहामि देवानां भोक्तारो रक्षकाश् च ते ॥ ३० ॥
देवापिर् उवाच-
देवान् आहूय यत्नेन हविर्भागान् पृथक् पृथक् ।
दास्ये ऽहम् एष दोषो मे तस्माद् याहि सुरान् प्रति ॥ ३१ ॥
ब्रह्मोवाच-
देवापिः स सुरान् प्राप्य नत्वा तेभ्यः पृथक् पृथक् ।
ऋत्विग्वाक्यं चाग्निवाक्यं शापं चापि न्यवेदयत् ॥ ३२ ॥
देवा ऊचुः-
आहूता वैदिकैर् मन्त्रैर् ऋत्विग्भिश् च यथाक्रमम् ।
भोक्ष्यामहे हविर्भागान् न स्वतन्त्रा द्विजोत्तम ॥ ३३ ॥
तस्माद् वेदानुगा नित्यं वयं वेदेन चोदिताः ।
परतन्त्रास् ततो विप्र वेदेभ्यस् तन् निवेदय ॥ ३४ ॥
ब्रह्मोवाच-
स देवापिः शुचिर् भूत्वा वेदान् आहूय यत्नतः ।
ध्यानेन तपसा युक्तो वेदाश् चापि पुरो ऽभवन् ॥ ३५ ॥
वेदान् उवाच देवापिर् नमस्य तु पुनः पुनः ।
ऋत्विग्वाक्यं चाग्निवाक्यं देववाक्यं न्यवेदयत् ॥ ३६ ॥
वेदा ऊचुः-
परतन्त्रा वयं तात ईश्वरस्य वशानुगाः ।
अशेषजगदाधारो निराधारो निरञ्जनः ॥ ३७ ॥
सर्वशक्त्यैकसदनं निधानं सर्वसम्पदाम् ।
स तु कर्ता महादेवः संहर्ता स महेश्वरः ॥ ३८ ॥
वयं शब्दमया ब्रह्मन् वदामो विद्म एव च ।
अस्माकम् एतत् कृत्यं स्याद् वदामो यत् तु पृच्छसि ॥ ३९ ॥
केन नीतास् तस्य नाम तत्पुरं तद्बलं तथा ।
भक्षिताः किं तु नो नष्टा एतज् जानीमहे वयम् ॥ ४० ॥
यथा च तव सामर्थ्यं यम् आराध्य च यत्र च ।
स्याद् इत्य् एतच् च जानीमो यथा प्राप्स्यसि तान् पुरः ॥ ४१ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वावदद् वेदान् विचार्य सुचिरं हृदि ॥ ४२ ॥
देवापिर् उवाच-
वेदा वदन्त्व् एतद् एव सर्वम् एव यथार्थतः ।
सर्वान् प्राप्स्ये तलं नीतान् अलं तेभ्यो नमो ऽस्तु वः ॥ ४३ ॥
वेदा ऊचुः-
गौतमीं गच्छ देवापे तत्र स्तुहि महेश्वरम् ।
सुप्रसन्नस् तवाभीष्टं दास्यत्य् एव कृपाकरः ॥ ४४ ॥
भवेद् देवः शिवः प्रीतः स्तुतः सत्यं महामते ।
आर्ष्टिषेणश् च नृपतिस् तस्य जाया जया सती ॥ ४५ ॥
पिता तवाप्य् उपमन्युस् तले तिष्ठन्त्य् अरोगिणः ।
वरदानान् महेशस्य मिथुं हत्वा च राक्षसम् ।
यशः प्राप्स्यसि धर्मं च एतच् छक्यं न चेतरत् ॥ ४६ ॥
ब्रह्मोवाच-
तद् वेदवचनाद् बालो देवापिर् गौतमीं गतः ।
स्नात्वा कृतक्षणो विप्रस् तुष्टाव च महेश्वरम् ॥ ४७ ॥
देवापिर् उवाच-
बालो ऽहं देवदेवेश गुरूणां त्वं गुरुर् मम ।
न मे शक्तिस् त्वत्स्तवने तुभ्यं शम्भो नमो ऽस्तु ते ॥ ४८ ॥
न त्वां जानन्ति निगमा न देवा मुनयो न च ।
न ब्रह्मा नापि वैकुण्ठो यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ ४९ ॥
ये ऽनाथा ये च कृपणा ये दरिद्राश् च रोगिणः ।
पापात्मानो ये च लोके तांस् त्वं पासि महेश्वर ॥ ५० ॥
तपसा नियमैर् मन्त्रैः पूजितास् त्रिदिवौकसः ।
त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते ॥ ५१ ॥
याचितारश् च दातारस् तेभ्यो यद् यन् मनीषितम् ।
भवतीति न चित्रं स्यात् त्वं विपर्ययकारकः ॥ ५२ ॥
ये ऽज्ञानिनो ये च पापा ये मग्ना नरकार्णवे ।
शिवेति वचनान् नाथ तान् पासि त्वं जगद्गुरो ॥ ५३ ॥
ब्रह्मोवाच-
एवं तु स्तुवतस् तस्य पुरः प्राह त्रिलोचनः ॥ ५४ ॥
शिव उवाच-
वरं ब्रूह्य् अथ देवापे अलं दैन्येन बालक ॥ ५५ ॥
देवापिर् उवाच-
राजानं राजपत्नीं च पितरं च गुरुं मम ।
प्राप्तुम् इच्छे जगन्नाथ निधनं च रिपोर् मम ॥ ५६ ॥
ब्रह्मोवाच-
देवापिवचनं श्रुत्वा तथेत्य् आहाखिलेश्वरः ।
देवापेः सर्वम् अभवद् आज्ञया शङ्करस्य तत् ॥ ५७ ॥
पुनर् अप्य् आह तं शम्भुर् देवापिकरुणाकरः ।
नन्दिनं प्रेषयाम् आस शम्भुः शूलेन नारद ॥ ५८ ॥
रसातलं मिथुं नन्दी हत्वा चासुरपुङ्गवान् ।
तत्पित्रादीन् समानीय तस्मै तान् स न्यवेदयत् ॥ ५९ ॥
हयमेधश् च तत्रासीद् आर्ष्टिषेणस्य धीमतः ।
अग्निश् च ऋत्विजो देवा वेदाश् च ऋषयो ऽब्रुवन् ॥ ६० ॥
अग्न्यादय ऊचुः-
यत्र साक्षाद् अभूच् छम्भुर् देवापे भक्तवत्सलः ।
देवदेवो जगन्नाथो देवतीर्थम् अभूच् च तत् ॥ ६१ ॥
सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम् ।
पुण्यदं तीर्थम् एतत् स्यात् तव कीर्तिश् च शाश्वती ॥ ६२ ॥
ब्रह्मोवाच-
अश्वमेधे निवृत्ते तु सुरास् तेभ्यो वरान् ददुः ।
स्नात्वा कृतार्था गङ्गायां ततस् ते दिवम् आक्रमन् ॥ ६३ ॥
ततः प्रभृति तत्रासंस् तीर्थानि दश पञ्च च ।
सहस्राणि शतान्य् अष्टाव् उभयोर् अपि तीरयोः ।
तेषु स्नानं च दानं च ह्य् अतीव फलदं विदुः ॥ ६४ ॥