126

Summary (SA)

Chapter 126- Competition between Agni and the waters

{{Ref- SS 212-213}}

ब्रह्मोवाच-

तपस्तीर्थम् इति ख्यातं तपोवृद्धिकरं महत् ।
सर्वकामप्रदं पुण्यं पितॄणां प्रीतिवर्धनम् ॥ १ ॥

तस्मिंस् तीर्थे तु यद् वृत्तं शृणु पापप्रणाशनम् ।
अपाम् अग्नेश् च संवादम् ऋषीणां च परस्परम् ॥ २ ॥

अपो ज्येष्ठतमाः केचिन् मेनिरे ऽग्निं तथापरे ।
एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः ॥ ३ ॥

विनाग्निं जीवनं क्व स्याज् जीवभूतो यतो ऽनलः ।
आत्मभूतो हव्यभूतश् चाग्निना जायते ऽखिलम् ॥ ४ ॥

अग्निना ध्रियते लोको ह्य् अग्निर् ज्योतिर्मयं जगत् ।
तस्माद् अग्नेः परं नास्ति पावनं दैवतं महत् ॥ ५ ॥

अन्तर्ज्योतिः स एवोक्तः परं ज्योतिः स एव हि ।
विनाग्निना किञ्चिद् अस्ति यस्य धाम जगत्त्रयम् ॥ ६ ॥

तस्माद् अग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम् ।
योषित्क्षेत्रे ऽर्पितं बीजं पुरुषेण यथा तथा ॥ ७ ॥

तस्य देहादिका शक्तिः कृशानोर् एव नान्यथा ।
देवानां हि मुखं वह्निस् तस्मान् नातः परं विदुः ॥ ८ ॥

अपरे तु ह्य् अपां ज्यैष्ठ्यं मेनिरे वेदवादिनः ।
अद्भिः सम्पत्स्यते ह्य् अन्नं शुचिर् अद्भिः प्रजायते ॥ ९ ॥

अद्भिर् एव धृतं सर्वम् आपो वै मातरः स्मृताः ।
त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः ॥ १० ॥

उत्पन्नम् अमृतं ह्य् अद्भ्यस् ताभ्यश् चौषधिसम्भवः ।
अग्निर् ज्येष्ठ इति प्राहुर् आपो ज्येष्ठतमाः परे ॥ ११ ॥

एवं मीमांसमानास् ते ऋषयो वेदवादिनः ।
विरुद्धवादिनो मां च समभ्येत्येदम् अब्रुवन् ॥ १२ ॥

ऋषय ऊचुः-

अग्नेर् अपां वद ज्यैष्ठ्यं त्रैलोक्यस्य भवान् प्रभुः ॥ १३ ॥

ब्रह्मोवाच-

अहम् अप्य् अब्रवं प्राप्तान् ऋषीन् सर्वान् यतव्रतान् ।
उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत् ॥ १४ ॥

उभाभ्यां जायते हव्यं कव्यं चामृतम् एव च ।
उभाभ्यां जीवनं लोके शरीरस्य च धारणम् ॥ १५ ॥

नानयोश् च विशेषो ऽस्ति ततो ज्यैष्ठ्यं समं मतम् ।
ततो मद्वचनाज् ज्यैष्ठ्यम् उभयोर् नैव कस्यचित् ॥ १६ ॥

ज्यैष्ठ्यम् अन्यतरस्येति मेनिरे ऋषिसत्तमाः ।
न तृप्ता मम वाक्येन जग्मुर् वायुं तपस्विनः ॥ १७ ॥

मुनय ऊचुः-

कस्य ज्यैष्ठ्यं भवान् प्राणो वायो सत्यं त्वयि स्थितम् ॥ १८ ॥

ब्रह्मोवाच-

वायुर् आहानलो ज्येष्ठः सर्वम् अग्नौ प्रतिष्ठितम् ।
नेत्य् उक्त्वान्योन्यम् ऋषयो जग्मुस् ते ऽपि वसुन्धराम् ॥ १९ ॥

मुनय ऊचुः-

सत्यं भूमे वद ज्यैष्ठ्यम् आधारासि चराचरे ॥ २० ॥

ब्रह्मोवाच-

भूमिर् अप्य् आह विनयाद् आगतांस् तान् ऋषीन् इदम् ॥ २१ ॥

भूमिर् उवाच-

ममाप्य् आधारभूताः स्युर् आपो देव्यः सनातनाः ।
अद्भ्यस् तु जायते सर्वं ज्यैष्ठ्यम् अप्सु प्रतिष्ठितम् ॥ २२ ॥

ब्रह्मोवाच-

नेत्य् उक्त्वान्योन्यम् ऋषयो जग्मुः क्षीरोदशायिनम् ।
तुष्टुवुर् विविधैः स्तोत्रैः शङ्खचक्रगदाधरम् ॥ २३ ॥

ऋषय ऊचुः-

यो वेद सर्वं भुवनं भविष्यद् ।
यज् जायमानं च गुहानिविष्टम् ।
लोकत्रयं चित्रविचित्ररूपम् ।
अन्ते समस्तं च यम् आविवेश ॥ २४ ॥

यद् अक्षरं शाश्वतम् अप्रमेयं ।
यं वेदवेद्यम् ऋषयो वदन्ति ।
यम् आश्रिताः स्वेप्सितम् आप्नुवन्ति ।
तद् वस्तु सत्यं शरणं व्रजामः ॥ २५ ॥

भूतं महाभूतजगत्प्रधानं ।
न विन्दते योगिनो विष्णुरूपम् ।
तद् वक्तुम् एते ऋषयो ऽत्र याताः ।
सत्यं वदस्वेह जगन्निवास ॥ २६ ॥

त्वम् अन्तरात्माखिलदेहभाजां ।
त्वम् एव सर्वं त्वयि सर्वम् ईश ।
तथापि जानन्ति न केअपि कुत्रापि ।
अहो भवन्तं प्रकृतिप्रभावात् ।
अन्तर् बहिः सर्वत एव सन्तं ।
विश्वात्मना सम्परिवर्तमानम् ॥ २७ ॥

ब्रह्मोवाच-

ततः प्राह जगद्धात्री दैवी वाग् अशरीरिणी ॥ २८ ॥

दैवी वाग् उवाच-

उभाव् आराध्य तपसा भक्त्या च नियमेन च ।
यस्य स्यात् प्रथमं सिद्धिस् तद् भूतं ज्येष्ठम् उच्यते ॥ २९ ॥

ब्रह्मोवाच-

तथेत्य् तथा ययुः सर्वे ऋषयो लोकपूजिताः ।
श्रान्ताः खिन्नान्तरात्मानः परं वैराग्यम् आश्रिताः ॥ ३० ॥

सर्वलोकैकजननीं भुवनत्रयपावनीम् ।
गौतमीम् अगमन् सर्वे तपस् तप्तुं यतव्रताः ॥ ३१ ॥

अब्दैवतं तथाग्निं च पूजनायोद्यतास् तदा ।
अग्नेश् च पूजका ये च अपां वै पूजने स्थिताः ।
तत्र वाग् अब्रवीद् दैवी वेदमाता सरस्वती ॥ ३२ ॥

दैवी वाग् उवाच-

अग्नेर् आपस् तथा योनिर् अद्भिः शौचम् अवाप्यते ।
अग्नेश् च पूजका ये च विनाद्भिः पूजनं कथम् ॥ ३३ ॥

अप्सु जातासु सर्वत्र कर्मण्य् अधिकृतो भवेत् ।
तावत् कर्मण्य् अनर्हो ऽयम् अशुचिर् मलिनो नरः ॥ ३४ ॥

न मग्नः श्रद्धया यावद् अप्सु शीतासु वेदवित् ।
तस्माद् आपो वरिष्ठाः स्युर् मातृभूता यतः स्मृताः ।
तस्माज् ज्यैष्ठ्यम् अपाम् एव जनन्यो ऽग्नेर् विशेषतः ॥ ३५ ॥

ब्रह्मोवाच-

एतद् वचः शुश्रुवुस् ते ऋषयो वेदवादिनः ।
निश्चयं च ततश् चक्रुर् भवेज् ज्यैष्ठ्यम् अपाम् इति ॥ ३६ ॥

यत्र तीर्थे वृत्तम् इदम् ऋषिसत्त्रे च नारद ।
तपस्तीर्थं तु तत् प्रोक्तं सत्त्रतीर्थं तद् उच्यते ॥ ३७ ॥

अग्नितीर्थं च तत् प्रोक्तं तथा सारस्वतं विदुः ।
तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥ ३८ ॥

चतुर्दश शतान्य् अत्र तीर्थानां पुण्यदायिनाम् ।
तेषु स्नानं च दानं च स्वर्गमोक्षप्रदायकम् ॥ ३९ ॥

कृतं सन्देहहरणम् ऋषीणां यत्र भाषया ।
सरस्वत्य् अभवत् तत्र गङ्गया सङ्गता नदी ।
माहात्म्यं तस्य को वक्तुं सङ्गमस्य क्षमो नरः ॥ ४० ॥