125

Summary (SA)

Chapter 125- The emnity between Anuhrāda and Ulūka

{{Ref- SS 210-211}}

ब्रह्मोवाच-

यमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम् ।
दृष्टादृष्टेष्टदं सर्वदेवर्षिगणसेवितम् ॥ १ ॥

तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ।
अनुह्राद इति ख्यातः कपोतो बलवान् अभूत् ॥ २ ॥

तस्य भार्या हेतिनाम्नी पक्षिणी कामरूपिणी ।
मृत्योः पौत्रो ह्य् अनुह्रादो दौहित्री हेतिर् एव च ॥ ३ ॥

कालेनाथ तयोः पुत्राः पौत्राश् चैव बभूविरे ।
तस्य शत्रुश् च बलवान् उलूको नाम पक्षिराट् ॥ ४ ॥

तस्य पुत्राश् च पौत्राश् च आग्नेयास् ते बलोत्कटाः ।
तयोश् च वैरम् अभवद् बहुकालं द्विजन्मनोः ॥ ५ ॥

गङ्गाया उत्तरे तीरे कपोतस्याश्रमो ऽभवत् ।
तस्याश् च दक्षिणे कूल उलूको नाम पक्षिराट् ॥ ६ ॥

वासं चक्रे तत्र पुत्रैः पौत्रैश् च द्विजसत्तम ।
तयोश् च युद्धम् अभवद् बहुकालं विरुद्धयोः ॥ ७ ॥

पुत्रैः पौत्रैश् च वृतयोर् बलिनोर् बलिभिः सह ।
उलूको वा कपोतो वा नैवाप्नोति जयाजयौ ॥ ८ ॥

कपोतो यमम् आराध्य मृत्युं पैतामहं तथा ।
याम्यम् अस्त्रम् अवाप्याथ सर्वेभ्यो ऽप्य् अधिको ऽभवत् ॥ ९ ॥

तथोलूको ऽग्निम् आराध्य बलवान् अभवद् भृशम् ।
वरैर् उन्मत्तयोर् युद्धम् अभवच् चातिभीषणम् ॥ १० ॥

तत्राग्नेयम् उलूको ऽपि कपोतायास्त्रम् आक्षिपत् ।
कपोतो ऽप्य् अथ पाशान् वै याम्यान् आक्षिप्य शत्रवे ॥ ११ ॥

उलूकायाथ दण्डं च मृत्युपाशान् अवासृजत् ।
पुनस् तद् अभवद् युद्धं पुराडिबकयोर् यथा ॥ १२ ॥

हेतिः कपोतकी दृष्ट्वा ज्वलनं प्राप्तम् अन्तिके ।
पतिव्रता महायुद्धे भर्तुः सा दुःखविह्वला ॥ १३ ॥

अग्निना वेष्ट्यमानांश् च पुत्रान् दृष्ट्वा विशेषतः ।
सा गत्वा ज्वलनं हेतिस् तुष्टाव विविधोक्तिभिः ॥ १४ ॥

हेतिर् उवाच-

रूपं न दानं न परोक्षम् अस्ति ।
यस्यात्मभूतं च पदार्थजातम् ।
अश्नन्ति हव्यानि च येन देवाः ।
स्वाहापतिं यज्ञभुजं नमस्ये ॥ १५ ॥

मुखभूतं च देवानां देवानां हव्यवाहनम् ।
होतारं चापि देवानां देवानां दूतम् एव च ॥ १६ ॥

तं देवं शरणं यामि आदिदेवं विभावसुम् ।
अन्तः स्थितः प्राणरूपो बहिश् चान्नप्रदो हि यः ।
यो यज्ञसाधनं यामि शरणं तं धनञ्जयम् ॥ १७ ॥

अग्निर् उवाच-

अमोघम् एतद् अस्त्रं मे न्यस्तं युद्धे कपोतकि ।
यत्र विश्रमयेद् अस्त्रं तन् मे ब्रूहि पतिव्रते ॥ १८ ॥

कपोत्य् उवाच-

मयि विश्रम्यताम् अस्त्रं न पुत्रे न च भर्तरि ।
सत्यवाग् भव हव्येश जातवेदो नमो ऽस्तु ते ॥ १९ ॥

जातवेदा उवाच-

तुष्टो ऽस्मि तव वाक्येन भर्तृभक्त्या पतिव्रते ।
तवापि भर्तृपुत्राणां हेति क्षेमं ददाम्य् अहम् ॥ २० ॥

आग्नेयम् एतद् अस्त्रं मे न भर्तारं सुतान् अपि ।
न त्वां दहेत् ततो याहि सुखेन त्वं कपोतकि ॥ २१ ॥

ब्रह्मोवाच-

एतस्मिन्न् अन्तरे तत्र उलूकी ददृशे पतिम् ।
वेष्ट्यमानं याम्यपाशैर् यमदण्डेन ताडितम् ।
उलूकी दुःखिता भूत्वा यमं प्रायाद् भयातुरा ॥ २२ ॥

उलूक्य् उवाच-

त्वद्भीता अनुद्रवन्ते जनास् ।
त्वद्भीता ब्रह्मचर्यं चरन्ति ।
त्वद्भीताः साधु चरन्ति धीरास् ।
त्वद्भीताः कर्मनिष्ठा भवन्ति ॥ २३ ॥

त्वद्भीता अनाशकम् आचरन्ति ।
ग्रामाद् अरण्यम् अभि यच् चरन्ति ।
त्वद्भीताः सौम्यताम् आश्रयन्ते ।
त्वद्भीताः सोमपानं भजन्ते ।
त्वद्भीताश् चान्नगोदाननिष्ठास् ।
त्वद्भीता ब्रह्मवादं वदन्ति ॥ २४ ॥

ब्रह्मोवाच-

एवं ब्रुवत्यां तस्यां ताम् आह दक्षिणदिक्पतिः ॥ २५ ॥

यम उवाच-

वरं वरय भद्रं ते दास्ये ऽहं मनसः प्रियम् ॥ २६ ॥

ब्रह्मोवाच-

यमस्येति वचः श्रुत्वा सा तम् आह पतिव्रता ॥ २७ ॥

उलूक्य् उवाच-

भर्ता मे वेष्टितः पाशैर् दण्डेनाभिहतस् तव ।
तस्माद् रक्ष सुरश्रेष्ठ पुत्रान् भर्तारम् एव च ॥ २८ ॥

ब्रह्मोवाच-

तद्वाक्यात् कृपया युक्तो यमः प्राह पुनः पुनः ॥ २९ ॥

यम उवाच-

पाशानां चापि दण्डस्य स्थानं वद शुभानने ॥ ३० ॥

ब्रह्मोवाच-

सा प्रोवाच यमं देवं मयि पाशास् त्वयेरिताः ।
आविशन्तु जगन्नाथ दण्डो मय्य् एव संविशेत् ।
ततः प्रोवाच भगवान् यमस् तां कृपया पुनः ॥ ३१ ॥

यम उवाच-

तव भर्ता च पुत्राश् च सर्वे जीवन्तु विज्वराः ॥ ३२ ॥

ब्रह्मोवाच-

न्यवारयद् यमः पाशान् आग्नेयास्त्रं तु हव्यवाट् ।
कपोतोलूकयोश् चापि प्रीतिं वै चक्रतुः सुरौ ।
आहतुश् च द्विजन्मानौ व्रियतां वर ईप्सितः ॥ ३३ ॥

पक्षिणाव् ऊचतुः-

भवतोर् दर्शनं लब्धं वैरव्याजेन दुष्करम् ।
वयं च पक्षिणः पापाः किं वरेण सुरोत्तमौ ॥ ३४ ॥

अथ देयो वरो ऽस्माकं भवद्भ्यां प्रीतिपूर्वकम् ।
नात्मार्थम् अनुयाचावो दीयमानं वरं शुभम् ॥ ३५ ॥

आत्मार्थं यस् तु याचेत स शोच्यो हि सुरेश्वरौ ।
जीवितं सफलं तस्य यः परार्थोद्यतः सदा ॥ ३६ ॥

अग्निर् आपो रविः पृथ्वी धान्यानि विविधानि च ।
परार्थं वर्तनं तेषां सतां चापि विशेषतः ॥ ३७ ॥

ब्रह्मादयो ऽपि हि यतो युज्यन्ते मृत्युना सह ।
एवं ज्ञात्वा तु देवेशौ वृथा स्वार्थपरिश्रमः ॥ ३८ ॥

जन्मना सह यत् पुंसां विहितं परमेष्ठिना ।
कदाचिन् नान्यथा तद् वै वृथा क्लिश्यन्ति जन्तवः ॥ ३९ ॥

तस्माद् याचावहे किञ्चिद् धिताय जगतां शुभम् ।
गुणदायि तु सर्वेषां तद् युवाम् अनुमन्यताम् ॥ ४० ॥

ब्रह्मोवाच-

ताव् आहतुर् उभौ देवौ पक्षिणौ लोकविश्रुतौ ।
धर्मस्य यशसो ऽवाप्त्ये लोकानां हितकाम्यया ॥ ४१ ॥

पक्षिणाव् ऊचतुः-

आवाभ्याम् आश्रमौ तीर्थे गङ्गाया उभये तटे ।
भवेतां जगतां नाथाव् एष एव परो वरः ॥ ४२ ॥

स्नानं दानं जपो होमः पितॄणां चापि पूजनम् ।
सुकृती दुष्कृती वापि यः करोति यथा तथा ।
सर्वं तद् अक्षयं पुण्यं स्याद् इत्य् एष परो वरः ॥ ४३ ॥

देवाव् ऊचतुः-

एवम् अस्तु तथा चान्यत् सुप्रीतौ तु ब्रवावहै ॥ ४४ ॥

यम उवाच-

उत्तरे गौतमीतीरे यमस्तोत्रं पठन्ति ये ।
तेषां सप्तसु वंशेषु नाकाले मृत्युम् आप्नुयात् ॥ ४५ ॥

पुरुषो भाजनं च स्यात् सर्वदा सर्वसम्पदाम् ।
यस् त्व् इदं पठते नित्यं मृत्युस्तोत्रं जितात्मवान् ॥ ४६ ॥

अष्टाशीतिसहस्रैश् च व्याधिभिर् न स बाध्यते ।
अस्मिंस् तीर्थे द्विजश्रेष्ठौ त्रिमासाद् गुर्विणी सती ॥ ४७ ॥

अर्वाग्वन्ध्या च षण्मासात् सप्ताहं स्नानम् आचरेत् ।
वीरसूः सा भवेन् नारी शतायुः स सुतो भवेत् ॥ ४८ ॥

लक्ष्मीवान् मतिमाञ् शूरः पुत्रपौत्रविवर्धनः ।
तत्र पिण्डादिदानेन पितरो मुक्तिम् आप्नुयुः ।
मनोवाक्कायजात् पापात् स्नानान् मुक्तो भवेन् नरः ॥ ४९ ॥

ब्रह्मोवाच-

यमवाक्याद् अनु तथा हव्यवाड् आह पक्षिणौ ॥ ५० ॥

अग्निर् उवाच-

मत्स्तोत्रं दक्षिणे तीरे ये पठन्ति यतव्रताः ।
तेषाम् आरोग्यम् ऐश्वर्यं लक्ष्मीं रूपं ददाम्य् अहम् ॥ ५१ ॥

इदं स्तोत्रं तु यः कश्चिद् यत्र क्वापि पठेन् नरः ।
नैवाग्नितो भयं तस्य लिखिते ऽपि गृहे स्थिते ॥ ५२ ॥

स्नानं दानं च यः कुर्याद् अग्नितीर्थे शुचिर् नरः ।
अग्निष्टोमफलं तस्य भवेद् एव न संशयः ॥ ५३ ॥

ब्रह्मोवाच-

ततः प्रभृति तत् तीर्थं याम्यम् आग्नेयम् एव च ।
कपोतं च तथोलूकं हेत्युलूकं विदुर् बुधाः ॥ ५४ ॥

तत्र त्रीणि सहस्राणि तावन्त्य् एव शतानि च ।
पुनर् नवतितीर्थानि प्रत्येकं मुक्तिभाजनम् ॥ ५५ ॥

तेषु स्नानेन दानेन प्रेतीभूताश् च ये नराः ।
पूतास् ते पुत्रवित्ताढ्या आक्रमेयुर् दिवं शुभाः ॥ ५६ ॥