124

Summary (SA)

Chapter 124- Story of Indra and Diti

{{Ref- SS 206-210}}

ब्रह्मोवाच-

पुत्रतीर्थम् इति ख्यातं पुण्यतीर्थं तद् उच्यते ।
सर्वान् कामान् अवाप्नोति यन्महिम्नः श्रुतेर् अपि ॥ १ ॥

तस्य स्वरूपं वक्ष्यामि शृणु यत्नेन नारद ।
दितेः पुत्राश् च दनुजाः परिक्षीणा यदाभवन् ।
अदितेस् तु सुता ज्येष्ठाः सर्वभावेन नारद ॥ २ ॥

तदा दितिः पुत्रवियोगदुःखात् ।
संस्पर्धमाना दनुम् आजगाम ॥ ३ ॥

दितिर् उवाच-

क्षीणाः सुता आवयोर् एव भद्रे ।
किं कुर्महे कर्म लोके गरीयः ।
पश्यादितेर् वंशम् अभिन्नम् उत्तमं ।
सौराज्ययुक्तं यशसा जयश्रिया ॥ ४ ॥

जितारिम् अभ्युन्नतकीर्तिधर्मं ।
मच्चित्तसंहर्षविनाशदक्षम् ।
समानभर्तृत्वसमानधर्मे ।
समानगोत्रे ऽपि समानरूपे ॥ ५ ॥

न जीवयेयं श्रियम् उन्नतिं च ।
जीर्णास्मि दृष्ट्वा त्व् अदितिप्रसूतान् ।
काम् अप्य् अवस्थाम् अनुयामि दुःस्था ।
ऽदितेर् विलोक्याथ परां समृद्धिम् ।
दावप्रवेशो ऽपि सुखाय नूनं ।
स्वप्ने ऽप्य् अवेक्ष्या न सपत्नलक्ष्मीः ॥ ६ ॥

ब्रह्मोवाच-

एवं ब्रुवाणाम् अतिदीनवक्त्रां ।
विनिश्वसन्तीं परमेष्ठिपुत्रः ।
कृताभिपूजो विगतश्रमस् तां ।
स सान्त्वयन्न् आह मनोभिरामाम् ॥ ७ ॥

परमेष्ठिपुत्र उवाच-

खेदो न कार्यः समभीप्सितं यत् ।
तत् प्राप्यते पुण्यत एव भद्रे ।
तत्साधनं वेत्ति महानुभावः ।
प्रजापतिस् ते स तु वक्ष्यतीति ॥ ८ ॥

साध्व्य् एतत् सर्वभावेन प्रश्रयावनता सती ॥ ९ ॥

ब्रह्मोवाच-

एवं ब्रुवाणां च दितिं दनुः प्रोवाच नारद ॥ १० ॥

दनुर् उवाच-

भर्तारं कश्यपं भद्रे तोषयस्व निजैर् गुणैः ।
तुष्टो यदि भवेद् भर्ता ततः कामान् अवाप्स्यसि ॥ ११ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा सर्वभावैस् तोषयाम् आस कश्यपम् ।
दितिं प्रोवाच भगवान् कश्यपो ऽथ प्रजापतिः ॥ १२ ॥

कश्यप उवाच-

किं ददामि वदाभीष्टं दिते वरय सुव्रते ॥ १३ ॥

ब्रह्मोवाच-

दितिर् अप्य् आह भर्तारं पुत्रं बहुगुणान्वितम् ।
जेतारं सर्वलोकानां सर्वलोकनमस्कृतम् ॥ १४ ॥

येन जातेन लोके ऽस्मिन् भवेयं वीरपुत्रिणी ।
तं वरेयं सुरपितर् इत्य् आह विनयान्विता ॥ १५ ॥

कश्यप उवाच-

उपदेक्ष्ये व्रतं श्रेष्ठं द्वादशाब्दफलप्रदम् ।
तत आगत्य ते गर्भम् आधास्ये यन् मनोगतम् ।
निष्पापतायां जातायां सिध्यन्ति हि मनोरथाः ॥ १६ ॥

ब्रह्मोवाच-

भर्तृवाक्याद् दितिः प्रीता तं नमस्यायतेक्षणा ।
उपदिष्टं व्रतं चक्रे भर्त्रादिष्टं यथाविधि ॥ १७ ॥

तीर्थसेवापात्रदानव्रतचर्यादिवर्जिताः ।
कथम् आसादयिष्यन्ति प्राणिनो ऽत्र मनोरथान् ॥ १८ ॥

ततश् चीर्णे व्रते तस्यां दित्यां गर्भम् अधारयत् ।
पुनः कान्ताम् अथोवाच कश्यपस् तां दितिं रहः ॥ १९ ॥

कश्यप उवाच-

न प्राप्नुवन्ति यत्कामान् मुनयो ऽपि तपस्स्थिताः ।
यथाविहितकर्माङ्गअवज्ञया तच् छुचिस्मिते ॥ २० ॥

निन्दितं च न कर्तव्यं सन्ध्ययोर् उभयोर् अपि ।
न स्वप्तव्यं न गन्तव्यं मुक्तकेशी च नो भव ॥ २१ ॥

भोक्तव्यं सुभगे नैव क्षुतं वा जृम्भणं तथा ।
सन्ध्याकाले न कर्तव्यं भूतसङ्घसमाकुले ॥ २२ ॥

सान्तर्धानं सदा कार्यं हसितं तु विशेषतः ।
गृहान्तदेशे सन्ध्यासु न स्थातव्यं कदाचन ॥ २३ ॥

मुशलोलूखलादीनि शूर्पपीठपिधानकम् ।
नैवातिक्रमणीयानि दिवा रात्रौ सदा प्रिये ॥ २४ ॥

उदक्शीर्षं तु शयनं न सन्ध्यासु विशेषतः ।
वक्तव्यं नानृतं किञ्चिन् नान्यगेहाटनं तथा ॥ २५ ॥

कान्ताद् अन्यो न वीक्ष्यस् तु प्रयत्नेन नरः क्वचित् ।
इत्यादिनियमैर् युक्ता यदि त्वम् अनुवर्तसे ।
ततस् ते भविता पुत्रस् त्रैलोक्यैश्वर्यभाजनम् ॥ २६ ॥

ब्रह्मोवाच-

तथेति प्रतिजज्ञे सा भर्तारं लोकपूजितम् ।
गतश् च कश्यपो ब्रह्मन्न् इतश् चेतः सुरान् प्रति ॥ २७ ॥

दितेर् गर्भो ऽपि ववृधे बलवान् पुण्यसम्भवः ।
एतत् सर्वं मयो दैत्यो मायया वेत्ति तत्त्वतः ॥ २८ ॥

इन्द्रस्य सख्यम् अभवन् मयेन प्रीतिपूर्वकम् ।
मयो गत्वा रहः प्राह इन्द्रं स विनयान्वितः ॥ २९ ॥

दितेर् दनोर् अभिप्रायं व्रतं गर्भस्य वर्धनम् ।
तस्य वीर्यं च विविधं प्रीत्येन्द्राय न्यवेदयत् ॥ ३० ॥

विश्वासैकगृहं मित्रम् अपायत्रासवर्जितम् ।
अर्जितं सुकृतं नानाविधं चेत् तद् अवाप्यते ॥ ३१ ॥

नारद उवाच-

नमुचेश् च प्रियो भ्राता मयो दैत्यो महाबलः ।
भ्रातृहन्त्रा कथं मैत्र्यं मयस्यासीत् सुरेश्वर ॥ ३२ ॥

ब्रह्मोवाच-

दैत्यानाम् अधिपश् चासीद् बलवान् नमुचिः पुरा ।
इन्द्रेण वैरम् अभवद् भीषणं लोमहर्षणम् ॥ ३३ ॥

युद्धं हित्वा कदाचिद् भो गच्छन्तं तु शतक्रतुम् ।
दृष्ट्वा दैत्यपतिः शूरो नमुचिः पृष्ठतो ऽन्वगात् ॥ ३४ ॥

तम् आयान्तम् अभिप्रेक्ष्य शचीभर्ता भयातुरः ।
ऐरावतं गजं त्यक्त्वा इन्द्रः फेनम् अथाविशत् ॥ ३५ ॥

स वज्रपाणिस् तरसा फेनेनैवाहनद् रिपुम् ।
नमुचिर् नाशम् अगमत् तस्य भ्राता मयो ऽनुजः ॥ ३६ ॥

भ्रातृहन्तृविनाशाय तपस् तेपे मयो महत् ।
मायां च विविधाम् आप देवानाम् अतिभीषणाम् ॥ ३७ ॥

वरांश् चावाप्य तपसा विष्णोर् लोकपरायणात् ।
दानशौण्डः प्रियालापी तदाभवद् असौ मयः ॥ ३८ ॥

अग्नींश् च ब्राह्मणान् पूज्य जेतुम् इन्द्रं कृतक्षणः ।
दातारं च तदार्थिभ्यः स्तूयमानं च बन्दिभिः ॥ ३९ ॥

विदित्वा मघवा वायोर् मयं मायाविनं रिपुम् ।
उपक्रान्तं सुयुद्धाय विप्रो भूत्वा तम् अभ्यगात् ।
शचीभर्ता मयं दैत्यं प्रोवाचेदं पुनः पुनः ॥ ४० ॥

इन्द्र उवाच-

देहि दैत्यपते मह्यम् अर्थिने ऽपेक्षितं वरम् ।
त्वां श्रुत्वा दातृतिलकम् आगतो ऽहं द्विजोत्तमः ॥ ४१ ॥

ब्रह्मोवाच-

मयो ऽपि ब्राह्मणं मत्वा ऽवदद् दत्तं मया तव ।
विचारयन्ति कृतिनो बह्व् अल्पं वा पुरो ऽर्थिनि ॥ ४२ ॥

इत्य् उक्ते तु हरिः प्राह सख्यम् इच्छे ह्य् अहं त्वया ।
इन्द्रं मयः पुनः प्राह किम् अनेन द्विजोत्तम ॥ ४३ ॥

न त्वया मम वैरं भोः स्वस्तीत्य् आह हरिर् मयम् ।
तत्त्वं वदेति स हरिर् दैत्येनोक्तः स्वकं वपुः ॥ ४४ ॥

दर्शयाम् आस दैत्याय सहस्राक्षं यद् उच्यते ।
ततः सविस्मयो दैत्यो मयो हरिम् उवाच ह ॥ ४५ ॥

मय उवाच-

किम् इदं वज्रपाणिस् त्वं तवायोग्या कृतिः सखे ॥ ४६ ॥

ब्रह्मोवाच-

परिष्वज्य विहस्याथ वृत्तम् इत्य् अब्रवीद् धरिः ।
केनापि साधयन्त्य् अत्र पण्डिताश् च समीहितम् ॥ ४७ ॥

ततः प्रभृति शक्रस्य मयेन महती ह्य् अभूत् ।
सुप्रीतिर् मुनिशार्दूल मयो हरिहितः सदा ॥ ४८ ॥

इन्द्रस्य भवनं गत्वा तस्मै सर्वं न्यवेदयत् ।
किं मे कृत्यम् इति प्राह मयं मायाविनं हरिः ॥ ४९ ॥

हरये च मयो मायां प्रादात् प्रीत्या तथा हरिः ।
प्राप्तः सम्प्रीतिमान् आह किं कृत्यं मय तद् वद ॥ ५० ॥

मय उवाच-

अगस्त्यस्याश्रमं गच्छ तत्रास्ते गर्भिणी दितिः ।
तस्याः शुश्रूषणं कुर्वन्न् आस्स्व तत्र कियन्ति च ॥ ५१ ॥

अहानि मघवंस् तस्या गर्भम् आविश्य वज्रधृक् ।
वर्धमानं च तं छिन्धि यावद् वश्यो ऽथवा मृतिम् ।
प्राप्नोति तावद् वज्रेण ततो न भविता रिपुः ॥ ५२ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा मयं पूज्य मघवान् एक एव हि ।
विनीतवत् तदा प्रायाद् दितिं मातरम् अञ्जसा ।
शुश्रूषमाणस् तां देवीं शक्रो दैतेयमातरम् ।
सा न जानाति तच् चित्तं शक्रस्य द्विषतो दितिः ॥ ५३ ॥

गर्भे स्थितं तु यद् भूतं देवेन्द्रस्य विचेष्टितम् ।
अमोघं तन् मुनेस् तेजः कश्यपस्य दुरासदम् ॥ ५४ ॥

ततः प्रगृह्य कुलिशं सहस्राक्षः पुरन्दरः ।
अन्तःप्रवेशकामो ऽसौ बहुकालं समावसन् ॥ ५५ ॥

सन्ध्योदक्शीर्षनिद्रां ताम् अवेक्ष्य कुलिशायुधः ।
इदम् अन्तरम् इत्य् उक्त्वा दित्याः कुक्षिं समाविशत् ॥ ५६ ॥

अन्तर्वर्ति च यद् भूतम् इन्द्रं दृष्ट्वा धृतायुधम् ।
हन्तुकामं तदोवाच पुनः पुनर् अभीतवत् ॥ ५७ ॥

गर्भस्थ उवाच-

किं मां न रक्षसे वज्रिन् भ्रातरं त्वं जिघांससि ।
नारणे मारणाद् अन्यत् पातकं विद्यते महत् ॥ ५८ ॥

ऋते युद्धान् महाबाहो शक्र युध्यस्व निर्गते ।
मयि तस्मान् नैतद् एवं तव युक्तं भविष्यति ॥ ५९ ॥

शतक्रतुः सहस्राक्षः शचीभर्ता पुरन्दरः ।
वज्रपाणिः सुरेन्द्रस् त्वं ते न युक्तं भवेत् प्रभो ॥ ६० ॥

अथवा युद्धकामस् त्वं मम निष्क्रमणं यथा ।
तथा कुरु महाबाहो मार्गाद् अस्माद् अपासर ॥ ६१ ॥

कुमार्गे न प्रवर्तन्ते महान्तो ऽपि विपद्गताः ।
अविद्यश् चाप्य् अशस्त्रश् च नैव चायुधसङ्ग्रहः ॥ ६२ ॥

त्वं विद्यावान् वज्रपाणे मां निघ्नन् किं न लज्जसे ।
कुर्वन्ति गर्हितं कर्म न कुलीनाः कदाचन ॥ ६३ ॥

हत्वा वा किं तु जायेत यशो वा पुण्यम् एव वा ।
वध्यन्ते भ्रातरः कामाद् गर्भस्थाः किं नु पौरुषम् ॥ ६४ ॥

यदि वा युद्धभक्तिस् ते मयि भ्रातर् असंशयम् ।
ततो मुष्टिं पुरस्कृत्य वज्रिणे ऽसौ व्यवस्थितः ॥ ६५ ॥

बालघाती ब्रह्मघाती तथा विश्वासघातकः ।
एवम्भूतं फलं शक्र कस्मान् मां हन्तुम् उद्यतः ॥ ६६ ॥

यस्याज्ञया सर्वम् इदं वर्तते सचराचरम् ।
स हन्ता बालकं मां वै किं यशः किं तु पौरुषम् ॥ ६७ ॥

ब्रह्मोवाच-

एवं ब्रुवन्तं तं गर्भं चिच्छेद कुलिशेन सः ।
क्रोधान्धानां लोभिनां च न घृणा क्वापि विद्यते ॥ ६८ ॥

न ममार ततो दुःखाद् आहुस् ते भ्रातरो वयम् ।
पुनश् चिच्छेद तान् खण्डान् मा वधीर् इति चाब्रुवन् ॥ ६९ ॥

विश्वस्तान् मातृगर्भस्थान् निजभ्रातॄञ् शतक्रतो ।
द्वेषविध्वस्तबुद्धीनां न चित्ते करुणाकणः ॥ ७० ॥

एवं तु खण्डितं खण्डं हस्तपादादिजीववत् ।
निर्विकारं ततो दृष्ट्वा सप्तसप्त सुविस्मितः ॥ ७१ ॥

एकवद् बहुरूपाणि गर्भस्थानि शुभानि च ।
रुदन्ति बहुरूपाणि मा रुतेत्य् अब्रवीद् धरिः ॥ ७२ ॥

ततस् ते मरुतो जाता बलवन्तो महौजसः ।
गर्भस्था एव ते ऽन्योन्यम् ऊचुः शक्रं गतभ्रमाः ॥ ७३ ॥

अगस्त्यं मुनिशार्दूलं माता यस्याश्रमे स्थिता ।
अस्मत्पिता तव भ्राता सख्यं ते बहु मन्यते ॥ ७४ ॥

अस्मान् उपरि सस्नेहं मनस् ते विद्महे मुने ।
न यत् करोति श्वपचः प्रवृत्तस् तत्र वज्रधृक् ॥ ७५ ॥

इत्य् एतद् वचनं श्रुत्वा अगस्त्यो ऽगात् ससम्भ्रमः ।
दितिं सम्बोधयाम् आस व्यथितां गर्भवेदनात् ॥ ७६ ॥

तत्रागस्त्यः शचीकान्तम् अशपत् कुपितो भृशम् ॥ ७७ ॥

अगस्त्य उवाच-

सङ्ग्रामे रिपवः पृष्ठं पश्येयुस् ते सदा हरे ।
जीवताम् एव मरणम् एतद् एव हि मानिनाम् ।
पृष्ठं पलायमानानां यत् पश्यन्त्य् अहिता रणे ॥ ७८ ॥

ब्रह्मोवाच-

सापि तं गर्भसंस्थं च शशापेन्द्रं रुषा दितिः ॥ ७९ ॥

दितिर् उवाच-

न पौरुषं कृतं तस्माच् छापो ऽयं भविता तव ।
स्त्रीभिः परिभवं प्राप्य राज्यात् प्रभ्रश्यसे हरे ॥ ८० ॥

ब्रह्मोवाच-

एतस्मिन्न् अन्तरे तत्र कश्यपो वै प्रजापतिः ।
प्रायाच् च व्यथितो ऽगस्त्याच् छ्रुत्वा शक्रविचेष्टितम् ।
गर्भान्तरगतः शक्रः पितरं प्राह भीतवत् ॥ ८१ ॥

शक्र उवाच-

अगस्त्याच् च दितेश् चैव बिभेमि क्रमितुं बहिः ॥ ८२ ॥

ब्रह्मोवाच-

एतस्मिन्न् अन्तरे प्राप्य कश्यपो ऽपि प्रजापतिः ।
पुत्रकर्म च तद् दृष्ट्वा गर्भान्तःस्थितिम् एव च ।
दितिशापम् अगस्त्यस्य श्रुत्वासौ दुःखितो ऽभवत् ॥ ८३ ॥

कश्यप उवाच-

निर्गच्छ शक्र पुत्रैतत् पापं किं कृतवान् असि ।
न निर्मलकुलोत्पन्ना मनः कुर्वन्ति पातके ॥ ८४ ॥

ब्रह्मोवाच-

स निर्गतो वज्रपाणिः सव्रीडो ऽधोमुखो ऽब्रवीत् ।
तन्मूर्तिर् एव वदति सदसच्चेष्टितं नृणाम् ॥ ८५ ॥

शक्र उवाच-

यद् उक्तम् अत्र श्रेयः स्यात् तत्कर्ताहम् असंशयम् ॥ ८६ ॥

ब्रह्मोवाच-

ततो ममान्तिकं प्रायाल् लोकपालैः स कश्यपः ।
सर्वं वृत्तम् अथोवाच पुनः पप्रच्छ मां सुरैः ॥ ८७ ॥

दितिगर्भस्य वै शान्तिं सहस्राक्षविशापताम् ।
गर्भस्थानां च सर्वेषाम् इन्द्रेण सह मित्रताम् ॥ ८८ ॥

तेषाम् आरोग्यतां चापि शचीभर्तुर् अदोषताम् ।
अगस्त्यदत्तशापस्य विशापत्वम् अपि क्रमात् ॥ ८९ ॥

ततो ऽहम् अब्रवं वाक्यं कश्यपं विनयान्वितम् ।
प्रजापते कश्यप त्वं वसुभिर् लोकपालकैः ॥ ९० ॥

इन्द्रेण सहितः शीघ्रं गौतमीं याहि मानद ।
तत्र स्नात्वा महेशानं स्तुहि सर्वैः समन्वितः ॥ ९१ ॥

ततः शिवप्रसादेन सर्वं श्रेयो भवेद् इति ।
तथेत्य् उक्त्वा जगामासौ कश्यपो गौतमीं तदा ॥ ९२ ॥

स्नात्वा तुष्टाव देवेशम् एभिर् एव पदक्रमैः ।
सर्वदुःखापनोदाय द्वयम् एव प्रकीर्तितम् ।
गौतमी वा पुण्यनदी शिवो वा करुणाकरः ॥ ९३ ॥

कश्यप उवाच-

पाहि शङ्कर देवेश पाहि लोकनमस्कृत ।
पाहि पावन वागीश पाहि पन्नगभूषण ॥ ९४ ॥

पाहि धर्म वृषारूढ पाहि वेदत्रयेक्षण ।
पाहि गोधर लक्ष्मीश पाहि शर्व गजाम्बर ॥ ९५ ॥

पाहि त्रिपुरहन् नाथ पाहि सोमार्धभूषण ।
पाहि यज्ञेश सोमेश पाह्य् अभीष्टप्रदायक ॥ ९६ ॥

पाहि कारुण्यनिलय पाहि मङ्गलदायक ।
पाहि प्रभव सर्वस्य पाहि पालक वासव ॥ ९७ ॥

पाहि भास्कर वित्तेश पाहि ब्रह्मनमस्कृत ।
पाहि विश्वेश सिद्धेश पाहि पूर्ण नमो ऽस्तु ते ॥ ९८ ॥

घोरसंसारकान्तारसञ्चारोद्विग्नचेतसाम् ।
शरीरिणां कृपासिन्धो त्वम् एव शरणं शिव ॥ ९९ ॥

ब्रह्मोवाच-

एवं संस्तुवतस् तस्य पुरतो ऽभूद् वृषध्वजः ।
वरेण च्छन्दयाम् आस कश्यपं तं प्रजापतिम् ॥ १०० ॥

कश्यपो ऽपि शिवं प्राह विनीतवद् इदं वचः ।
स प्राह विस्तरेणाथ इन्द्रस्य तु विचेष्टितम् ॥ १०१ ॥

शापं नाशं च पुत्राणां परस्परम् अमित्रताम् ।
पापप्राप्तिं तु शक्रस्य शापप्राप्तिं तथैव च ।
ततो वृषाकपिः प्राह दितिं चागस्त्यम् एव च ॥ १०२ ॥

शिव उवाच-

मरुतो ये भवत्पुत्राः पञ्चाशच् चैकवर्जिताः ।
सर्वे भवेयुः सुभगा भवेयुर् यज्ञभागिनः ॥ १०३ ॥

इन्द्रेण सहिता नित्यं वर्तयेयुर् मुदान्विताः ॥ १०४ ॥

इन्द्रस्य तु हविर्भागो यत्र यत्र मखे भवेत् ।
आदौ तु मरुतस् तत्र भवेयुर् नात्र संशयः ॥ १०५ ॥

मरुद्भिः सहितं शक्रं न जयेयुः कदाचन ।
जेता भवेत् सर्वदैव सुखं तिष्ठ प्रजापते ॥ १०६ ॥

अद्यप्रभृति ये कुर्युर् अनयाद् भ्रातृघातनम् ।
वंशच्छेदो विपत्तिश् च नित्यं तेषां भविष्यति ॥ १०७ ॥

ब्रह्मोवाच-

अगस्त्यम् ऋषिशार्दूलं शम्भुर् अप्य् आह यत्नतः ॥ १०८ ॥

शम्भुर् उवाच-

न कुर्यास् त्वं च कोपं च शचीभर्तरि वै मुने ।
शमं व्रज महाप्राज्ञ मरुतस् त्व् अमरा भवन् ॥ १०९ ॥

ब्रह्मोवाच-

दितिं चापि शिवः प्राह प्रसन्नो वृषभध्वजः ॥ ११० ॥

शिव उवाच-

एको भूयान् मम सुतस् त्रैलोक्यैश्वर्यमण्डितः ।
इत्य् एवं चिन्तयन्ती त्वं तपसे नियताभवः ॥ १११ ॥

तद् एतत् सफलं ते ऽद्य पुत्रा बहुगुणाः शुभाः ।
अभवन् बलिनः शूरास् तस्माज् जहि मनोरुजम् ।
अन्यान् अपि वरान् सुभ्रूर् याचस्व गतसम्भ्रमा ॥ ११२ ॥

ब्रह्मोवाच-

तद् एतद् वचनं श्रुत्वा देवदेवस्य सा दितिः ।
कृताञ्जलिपुटा नत्वा शम्भुं वाक्यम् अथाब्रवीत् ॥ ११३ ॥

दितिर् उवाच-

लोके यद् एतत् परमं यत् पित्रोः पुत्रदर्शनम् ।
विशेषेण तु तन् मातुः प्रियं स्यात् सुरपूजित ॥ ११४ ॥

तत्रापि रूपसम्पत्तिशौर्यविक्रमवान् भवेत् ।
एको ऽपि तनयः किन्तु बहवश् चेत् किम् उच्यते ॥ ११५ ॥

मत्पुत्रास् ते प्रभावाच् च जेतारो बलिनो ध्रुवम् ।
इन्द्रस्य भ्रातरः सत्यं पुत्राश् चैव प्रजापतेः ॥ ११६ ॥

अगस्त्यस्य प्रसादाच् च गङ्गायाश् च प्रसादतः ।
यत्र देव प्रसादस् ते तच् छुभं को ऽत्र संशयः ॥ ११७ ॥

कृतार्थाहं तथापि त्वां भक्त्या विज्ञापयाम्य् अहम् ।
शृणुष्व देव वचनं कुरुष्व च जगद्धितम् ॥ ११८ ॥

ब्रह्मोवाच-

वदेत्य् उक्ता जगद्धात्रा दितिर् नम्राब्रवीद् इदम् ॥ ११९ ॥

दितिर् उवाच-

सन्ततिप्रापणं लोके दुर्लभं सुरवन्दित ।
विशेषेण प्रियं मातुः पुत्रश् चेत् किं नु वर्ण्यते ॥ १२० ॥

स चापि गुणवाञ् श्रीमान् आयुष्मान् यदि जायते ।
किं तु स्वर्गेण देवेश पारमेष्ठ्यपदेन वा ॥ १२१ ॥

सर्वेषाम् अपि भूतानाम् इहामुत्र फलैषिणाम् ।
गुणवत्पुत्रसम्प्राप्तिर् अभीष्टा सर्वदैव च ।
तस्माद् आप्लवनाद् अत्र क्रियतां समनुग्रहः ॥ १२२ ॥

शङ्कर उवाच-

महापापफलं चेदं यद् एतद् अनपत्यता ।
स्त्रिया वा पुरुषस्यापि वन्ध्यत्वं यदि जायते ॥ १२३ ॥

तद् अत्र स्नानमात्रेण तद्दोषो नाशम् आप्नुयात् ।
स्नात्वा तत्र फलं दद्यात् स्तोत्रम् एतच् च यः पठेत् ॥ १२४ ॥

स तु पुत्रम् अवाप्नोति त्रिमासस्नानदानतः ।
अपुत्रिणी त्व् अत्र स्नानं कृत्वा पुत्रम् अवाप्नुयात् ॥ १२५ ॥

ऋतुस्नाता तु या काचित् तत्र स्नाता सुतांल् लभेत् ।
त्रिमासाभ्यन्तरं या तु गुर्विणी भक्तितस् त्व् इह ॥ १२६ ॥

फलैः स्नात्वा तु मां पश्येत् स्तोत्रेण स्तौति मां तथा ।
तस्याः शक्रसमः पुत्रो जायते नात्र संशयः ॥ १२७ ॥

पितृदोषैश् च ये पुत्रं न लभन्ते दिते शृणु ।
धनापहारदोषैश् च तत्रैषा निष्कृतिः परा ॥ १२८ ॥

तत्रैषां पिण्डदानेन पितॄणां प्रीणनेन च ।
किञ्चित् सुवर्णदानेन ततः पुत्रो भवेद् ध्रुवम् ॥ १२९ ॥

ये न्यासाद्यपहर्तारो रत्नापह्नवकारकाः ।
श्राद्धकर्मविहीनाश् च तेषां वंशो न वर्धते ॥ १३० ॥

दोषिणां तु परेतानां गतिर् एषा भवेद् इति ।
सन्ततिर् जायतां श्लाघ्या जीवतां तीर्थसेवनात् ॥ १३१ ॥

सङ्गमे दितिगङ्गायाः स्नात्वा सिद्धेश्वरं प्रभुम् ।
अनाद्यपारम् अजरं चित्सदानन्दविग्रहम् ॥ १३२ ॥

देवर्षिसिद्धगन्धर्वयोगीश्वरनिषेवितम् ।
लिङ्गात्मकं महादेवं ज्योतिर्मयम् अनामयम् ॥ १३३ ॥

पूजयित्वोपचारैश् च नित्यं भक्त्या यतव्रतः ।
स्तोत्रेणानेन यः स्तौति चतुर्दश्यष्टमीषु च ॥ १३४ ॥

यथाशक्त्या स्वर्णदानं ब्राह्मणानां च भोजनम् ।
यः करोत्य् अत्र गङ्गायां स पुत्रशतम् आप्नुयात् ॥ १३५ ॥

सम्प्राप्य सकलान् कामान् अन्ते शिवपुरं व्रजेत् ।
स्तोत्रेणानेन यः कश्चिद् यत्र क्वापि स्तवीति माम् ।
षण्मासात् पुत्रम् आप्नोति अपि वन्ध्याप्य् अशङ्कितम् ॥ १३६ ॥

ब्रह्मोवाच-

ततः प्रभृति तत् तीर्थं पुत्रतीर्थम् उदाहृतम् ।
तत्र तु स्नानदानाद्यैः सर्वकामान् अवाप्नुयात् ॥ १३७ ॥

मरुद्भिः सह मैत्र्येण मित्रतीर्थं तद् उच्यते ।
निष्पापत्वेन चेन्द्रस्य शक्रतीर्थं तद् उच्यते ॥ १३८ ॥

ऐन्द्रीं श्रियं यत्र लेभे तत् तीर्थं कमलाभिधम् ।
एतानि सर्वतीर्थानि सर्वाभीष्टप्रदानि हि ॥ १३९ ॥

सर्वं भविष्यतीत्य् उक्त्वा शिवश् चान्तरधीयत ।
कृतकृत्याश् च ते जग्मुः सर्व एव यथागतम् ।
तीर्थानां पुण्यदं तत्र लक्षम् एकं प्रकीर्तितम् ॥ १४० ॥