Summary (SA)
Chapter 123- Story of Daśaratha and his dutiful son Rāma
{{Ref- SS 201-206}}
ब्रह्मोवाच-
रामतीर्थम् इति ख्यातं भ्रूणहत्याविनाशनम् ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ १ ॥
इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः ।
बलवान् मतिमाञ् शूरो यथा शक्रः पुरन्दरः ॥ २ ॥
पितृपैतामहं राज्यं कुर्वन्न् आस्ते यथा बलिः ।
तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि ॥ ३ ॥
कौशल्या च सुमित्रा च कैकेयी च महामते ।
एताः कुलीनाः सुभगा रूपलक्षणसंयुताः ॥ ४ ॥
तस्मिन् राजनि राज्ये तु स्थिते ऽयोध्यापतौ मुने ।
वसिष्ठे ब्रह्मविच्छ्रेष्ठे पुरोधसि विशेषतः ॥ ५ ॥
न च व्याधिर् न दुर्भिक्षं न चावृष्टिर् न चाधयः ।
ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः ॥ ६ ॥
आश्रमाणां तु सर्वेषाम् आनन्दो ऽभूत् पृथक् पृथक् ।
तस्मिञ् शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे ॥ ७ ॥
देवानां दानवानां तु राज्यार्थे विग्रहो ऽभवत् ।
क्वापि तत्र जयं प्रापुर् देवाः क्वापि तथेतरे ॥ ८ ॥
एवं प्रवर्तमाने तु त्रैलोक्यम् अतिपीडितम् ।
अभून् नारद तत्राहम् अवदं दैत्यदानवान् ॥ ९ ॥
देवांश् चापि विशेषेण न कृतं तैर् मदीरितम् ।
पुनश् च सङ्गरस् तेषां बभूव सुमहान् मिथः ॥ १० ॥
विष्णुं गत्वा सुराः प्रोचुस् तथेशानं जगन्मयम् ।
ताव् ऊचतुर् उभौ देवान् असुरान् दैत्यदानवान् ॥ ११ ॥
तपसा बलिनो यान्तु पुनः कुर्वन्तु सङ्गरम् ।
तथेत्य् आहुर् ययुः सर्वे तपसे नियतव्रताः ॥ १२ ॥
ययुस् तु राक्षसान् देवाः पुनस् ते मत्सरान्विताः ।
देवानां दानवानां च सङ्गरो ऽभूत् सुदारुणः ॥ १३ ॥
न तत्र देवा जेतारो नैव दैत्याश् च दानवाः ।
संयुगे वर्तमाने तु वाग् उवाचाशरीरिणी ॥ १४ ॥
आकाशवाग् उवाच-
येषां दशरथो राजा ते जेतारो न चेतरे ॥ १५ ॥
ब्रह्मोवाच-
इति श्रुत्वा जयायोभौ जग्मतुर् देवदानवौ ।
तत्र वायुस् त्वरन् प्राप्तो राजानम् अवदत् तदा ॥ १६ ॥
वायुर् उवाच-
आगन्तव्यं त्वया राजन् देवदानवसङ्गरे ।
यत्र राजा दशरथो जयस् तत्रेति विश्रुतम् ॥ १७ ॥
तस्मात् त्वं देवपक्षे स्या भवेयुर् जयिनः सुराः ॥ १८ ॥
ब्रह्मोवाच-
तद् वायुवचनं श्रुत्वा राजा दशरथो नृपः ।
आगम्यते मया सत्यं गच्छ वायो यथासुखम् ॥ १९ ॥
गते वायौ तदा दैत्या आजग्मुर् भूपतिं प्रति ।
ते ऽप्य् ऊचुर् भगवन्न् अस्मत्साहाय्यं कर्तुम् अर्हसि ॥ २० ॥
राजन् दशरथ श्रीमन् विजयस् त्वयि संस्थितः ।
तस्मात् त्वं वै दैत्यपतेः साहाय्यं कर्तुम् अर्हसि ॥ २१ ॥
ततः प्रोवाच नृपतिर् वायुना प्रार्थितः पुरा ।
प्रतिज्ञातं मया तच् च यान्तु दैत्याश् च दानवाः ॥ २२ ॥
स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् ।
युद्धं चक्रे तथा दैत्यैर् दानवैः सह राक्षसैः ॥ २३ ॥
पश्यत्सु देवसङ्घेषु नमुचेर् भ्रातरस् तदा ।
विविधुर् निशितैर् बाणैर् अथाक्षं नृपतेस् तथा ॥ २४ ॥
भिन्नाक्षं तं रथं राजा न जानाति स सम्भ्रमात् ।
राजान्तिके स्थिता सुभ्रूः कैकेय्याज्ञायि नारद ॥ २५ ॥
न ज्ञापितं तया राज्ञे स्वयम् आलोक्य सुव्रता ।
भग्नम् अक्षं समालक्ष्य चक्रे हस्तं तदा स्वकम् ॥ २६ ॥
अक्षवन् मुनिशार्दूल तद् एतन् महद् अद्भुतम् ।
रथेन रथिनां श्रेष्ठस् तया दत्तकरेण च ॥ २७ ॥
जितवान् दैत्यदनुजान् देवैः प्राप्य वरान् बहून् ।
ततो देवैर् अनुज्ञातस् त्व् अयोध्यां पुनर् अभ्यगात् ॥ २८ ॥
स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् ।
कैकेय्याः कर्म तद् दृष्ट्वा विस्मयं परमं गतः ॥ २९ ॥
ततस् तस्यै वरान् प्रादात् त्रींस् तु नारद सा अपि ।
अनुमान्य नृपप्रोक्तं कैकेयी वाक्यम् अब्रवीत् ॥ ३० ॥
कैकेय्य् उवाच-
त्वयि तिष्ठन्तु राजेन्द्र त्वया दत्ता वरा अमी ॥ ३१ ॥
ब्रह्मोवाच-
विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह ।
रथेन विजयी राजा ययौ स्वनगरं सुखी ॥ ३२ ॥
योषितां किम् अदेयं हि प्रियाणाम् उचितागमे ।
स कदाचिद् दशरथो मृगयाशीलिभिर् वृतः ॥ ३३ ॥
अटन्न् अरण्ये शर्वर्यां वारिबन्धम् अथाकरोत् ।
सप्तव्यसनहीनेन भवितव्यं तु भूभुजा ॥ ३४ ॥
इति जानन्न् अपि च तच् चकार तु विधेर् वशात् ।
गर्तं प्रविश्य पानार्थम् आगतान् निशितैः शरैः ॥ ३५ ॥
मृगान् हन्ति महाबाहुः शृणु कालविपर्ययम् ।
गर्तं प्रविष्टे नृपतौ तस्मिन्न् एव नगोत्तमे ॥ ३६ ॥
वृद्धो वैश्रवणो नाम न शृणोति न पश्यति ।
तस्य भार्या तथाभूता ताव् अब्रूतां तदा सुतम् ॥ ३७ ॥
मातापितराव् ऊचतुः-
आवां तृषार्तौ रात्रिश् च कृष्णा चापि प्रवर्तते ।
वृद्धानां जीवितं कृत्स्नं बालस् त्वम् असि पुत्रक ॥ ३८ ॥
अन्धानां बधिराणां च वृद्धानां धिक् च जीवितम् ।
जराजर्जरदेहानां धिग् धिक् पुत्रक जीवितम् ॥ ३९ ॥
तावत् पुम्भिर् जीवितव्यं यावल् लक्ष्मीर् दृढं वपुः ।
यावद् आज्ञाप्रतिहता तीर्थादाव् अन्यथा मृतिः ॥ ४० ॥
ब्रह्मोवाच-
इत्य् एतद् वचनं श्रुत्वा वृद्धयोर् गुरुवत्सलः ।
पुत्रः प्रोवाच तद् दुःखं गिरा मधुरया हरन् ॥ ४१ ॥
पुत्र उवाच-
मयि जीवति किं नाम युवयोर् दुःखम् ईदृशम् ।
न हरत्य् आत्मजः पित्रोर् यश् चरित्रैर् मनोरुजम् ॥ ४२ ॥
तेन किं तनुजेनेह कुलोद्वेगविधायिना ॥ ४३ ॥
ब्रह्मोवाच-
इत्य् उक्त्वा पितरौ नत्वा ताव् आश्वास्य महामनाः ।
तरुस्कन्धे समारोप्य वृद्धौ च पितरौ तदा ॥ ४४ ॥
हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः ।
स ऋषिर् न तु राजानं जानाति नृपतिर् द्विजम् ॥ ४५ ॥
उभौ सरभसौ तत्र द्विजो वारि समाविशत् ।
सत्वरं कलशे न्युब्जे वारि गृह्णन्तम् आशुगैः ॥ ४६ ॥
द्विजं राजा द्विपं मत्वा विव्याध निशितैः शरैः ।
वनद्विपो ऽपि भूपानाम् अवध्यस् तद् विदन्न् अपि ॥ ४७ ॥
विव्याध तं नृपः कुर्यान् न किं किं विधिवञ्चितः ।
स विद्धो मर्मदेशे तु दुःखितो वाक्यम् अब्रवीत् ॥ ४८ ॥
द्विज उवाच-
केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे ।
मैत्रो ब्राह्मण इत्य् उक्तो नापराधो ऽस्ति कश्चन ॥ ४९ ॥
ब्रह्मोवाच-
तद् एतद् वचनं श्रुत्वा मुनेर् आर्तस्य भूपतिः ।
निश्चेष्टश् च निरुत्साहो शनैस् तं देशम् अभ्यगात् ॥ ५० ॥
तं तु दृष्ट्वा द्विजवरं ज्वलन्तम् इव तेजसा ।
असाव् अप्य् अभवत् तत्र सशल्य इव मूर्च्छितः ॥ ५१ ॥
आत्मानम् आत्मना कृत्वा स्थिरं राजाब्रवीद् इदम् ॥ ५२ ॥
राजोवाच-
को भवान् द्विजशार्दूल किमर्थम् इह चागतः ।
वद पापकृते मह्यं वद मे निष्कृतिं पराम् ॥ ५३ ॥
ब्रह्महा वर्णिभिः किन्तु श्वपचैर् अपि जातुचित् ।
न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन ॥ ५४ ॥
ब्रह्मोवाच-
तद् राजवचनं श्रुत्वा मुनिपुत्रो ऽब्रवीद् वचः ॥ ५५ ॥
मुनिपुत्र उवाच-
उत्क्रमिष्यन्ति मे प्राणा अतो वक्ष्यामि किञ्चन ।
स्वच्छन्दवृत्तिताज्ञाने विद्धि पाकं च कर्मणाम् ॥ ५६ ॥
आत्मार्थं तु न शोचामि वृद्धौ तु पितरौ मम ।
तयोः शुश्रूषकः कः स्याद् अन्धयोर् एकपुत्रयोः ॥ ५७ ॥
विना मया महारण्ये कथं तौ जीवयिष्यतः ।
ममाभाग्यम् अहो कीदृक् पितृशुश्रूषणे क्षतिः ॥ ५८ ॥
जाता मे ऽद्य विना प्राणैर् हा विधे किं कृतं त्वया ।
तथापि गच्छ तत्र त्वं गृहीतकलशस् त्वरन् ॥ ५९ ॥
ताभ्यां देह्य् उदपानं त्वं यथा तौ न मरिष्यतः ॥ ६० ॥
ब्रह्मोवाच-
इत्य् एवं ब्रुवतस् तस्य गताः प्राणा महावने ।
विसृज्य सशरं चापम् आदाय कलशं नृपः ॥ ६१ ॥
तत्रागात् स तु वेगेन यत्र वृद्धौ महावने ।
वृद्धौ चापि तदा रात्रौ ताव् अन्योन्यं समूचतुः ॥ ६२ ॥
वृद्धाव् ऊचतुः-
उद्विग्नः कुपितो वा स्याद् अथवा भक्षितः कथम् ।
न प्राप्तश् चावयोर् यष्टिः किं कुर्मः का गतिर् भवेत् ॥ ६३ ॥
न कोपि तादृशः पुत्रो विद्यते सचराचरे ।
यः पित्रोर् अन्यथा वाक्यं न करोत्य् अपि निन्दितः ॥ ६४ ॥
वज्राद् अपि कठोरं वा जीवितं तम् अपश्यतोः ।
शीघ्रं न यान्ति यत् प्राणास् तदेकायत्तजीवयोः ॥ ६५ ॥
ब्रह्मोवाच-
एवं बहुविधा वाचो वृद्धयोर् वदतोर् वने ।
तदा दशरथो राजा शनैस् तं देशम् अभ्यगात् ॥ ६६ ॥
पादसञ्चारशब्देन मेनाते सुतम् आगतम् ॥ ६७ ॥
वृद्धाव् ऊचतुः-
कुतो वत्स चिरात् प्राप्तस् त्वं दृष्टिस् त्वं परायणम् ।
न ब्रूषे किन्तु रुष्टो ऽसि वृद्धयोर् अन्धयोः सुतः ॥ ६८ ॥
ब्रह्मोवाच-
सशल्य इव दुःखार्तः शोचन् दुष्कृतम् आत्मनः ।
स भीत इव राजेन्द्रस् ताव् उवाचाथ नारद ॥ ६९ ॥
उदपानं च कुरुतां तच् छ्रुत्वा नृपभाषितम् ।
नायं वक्ता सुतो ऽस्माकं को भवांस् तत् पुरा वद ॥ ७० ॥
पश्चात् पिबावः पानीयं ततो राजाब्रवीच् च तौ ॥ ७१ ॥
राजोवाच-
तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः ॥ ७२ ॥
ब्रह्मोवाच-
तच् छ्रुत्वोचतुर् आर्तौ तौ सत्यं ब्रूहि न चान्यथा ।
आचचक्षे ततो राजा सर्वम् एव यथातथम् ॥ ७३ ॥
ततस् तु पतितौ वृद्धौ तत्रावां नय मा स्पृश ।
ब्रह्मघ्नस्पर्शनं पापं न कदाचिद् विनश्यति ॥ ७४ ॥
निन्ये वै श्रवणं वृद्धं सभार्यं नृपसत्तमः ।
यत्रासौ पतितः पुत्रस् तं स्पृष्ट्वा तौ विलेपतुः ॥ ७५ ॥
वृद्धाव् ऊचतुः-
यथा पुत्रवियोगेन मृत्युर् नौ विहितस् तथा ।
त्वं चापि पाप पुत्रस्य वियोगान् मृत्युम् आप्स्यसि ॥ ७६ ॥
ब्रह्मोवाच-
एवं तु जल्पतोर् ब्रह्मन् गताः प्राणास् ततो नृपः ।
अग्निना योजयाम् आस वृद्धौ च ऋषिपुत्रकम् ॥ ७७ ॥
ततो जगाम नगरं दुःखितो नृपतिर् मुने ।
वसिष्ठाय च तत् सर्वं न्यवेदयद् अशेषतः ॥ ७८ ॥
नृपाणां सूर्यवंश्यानां वसिष्ठो हि परा गतिः ।
वसिष्ठो ऽपि द्विजश्रेष्ठैः सम्मन्त्र्याह च निष्कृतिम् ॥ ७९ ॥
वसिष्ठ उवाच-
गालवं वामदेवं च जाबालिम् अथ कश्यपम् ।
एतान् अन्यान् समाहूय हयमेधाय यत्नतः ॥ ८० ॥
यजस्व हयमेधैश् च बहुभिर् बहुदक्षिणैः ॥ ८१ ॥
ब्रह्मोवाच-
अकरोद् धयमेधांश् च राजा दशरथो द्विजैः ।
एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी ॥ ८२ ॥
आकाशवाण्य् उवाच-
पूतं शरीरम् अभवद् राज्ञो दशरथस्य हि ।
व्यवहार्यश् च भविता भविष्यन्ति तथा सुताः ।
ज्येष्ठपुत्रप्रसादेन राजापापो भविष्यति ॥ ८३ ॥
ब्रह्मोवाच-
ततो बहुतिथे काले ऋष्यशृङ्गान् मुनीश्वरात् ।
देवानां कार्यसिद्ध्यर्थं सुता आसन् सुरोपमाः ॥ ८४ ॥
कौशल्यायां तथा रामः सुमित्रायां च लक्ष्मणः ।
शत्रुघ्नश् चापि कैकेय्यां भरतो मतिमत्तरः ॥ ८५ ॥
ते सर्वे मतिमन्तश् च प्रिया राज्ञो वशे स्थिताः ।
तं राजानम् ऋषिः प्राप्य विश्वामित्रः प्रजापतिः ॥ ८६ ॥
रामं च लक्ष्मणं चापि अयाचत महामते ।
यज्ञसंरक्षणार्थाय ज्ञाततन्महिमा मुनिः ॥ ८७ ॥
चिरप्राप्तसुतो वृद्धो राजा नैवेत्य् अभाषत ॥ ८८ ॥
राजोवाच-
महता दैवयोगेन कथञ्चिद् वार्धके मुने ।
जाताव् आनन्दसन्दोहदायकौ मम बालकौ ॥ ८९ ॥
सशरीरम् इदं राज्यं दास्ये नैव सुताव् इमौ ॥ ९० ॥
ब्रह्मोवाच-
वसिष्ठेन तदा प्रोक्तो राजा दशरथस् त्व् इति ॥ ९१ ॥
वसिष्ठ उवाच-
रघवः प्रार्थनाभङ्गं न राजन् क्वापि शिक्षिताः ॥ ९२ ॥
ब्रह्मोवाच-
रामं च लक्ष्मणं चैव कथञ्चिद् अवदन् नृपः ॥ ९३ ॥
राजोवाच-
विश्वामित्रस्य ब्रह्मर्षेः कुरुतां यज्ञरक्षणम् ॥ ९४ ॥
ब्रह्मोवाच-
वदन्न् इति सुतौ सोष्णं निश्वसन् ग्लपिताधरः ।
पुत्रौ समर्पयाम् आस विश्वामित्रस्य शास्त्रकृत् ॥ ९५ ॥
तथेत्य् उक्त्वा दशरथं नमस्य च पुनः पुनः ।
जग्मतू रक्षणार्थाय विश्वामित्रेण तौ मुदा ॥ ९६ ॥
ततः प्रहृष्टः स मुनिर् मुदा प्रादात् तदोभयोः ।
माहेश्वरीं महाविद्यां धनुर्विद्यापुरःसराम् ॥ ९७ ॥
शास्त्रीम् आस्त्रीं लौकिकीं च रथविद्यां गजोद्भवाम् ।
अश्वविद्यां गदाविद्यां मन्त्राह्वानविसर्जने ॥ ९८ ॥
सर्वविद्याम् अथावाप्य उभौ तौ रामलक्ष्मणौ ।
वनौकसां हितार्थाय जघ्नतुस् ताटकां वने ॥ ९९ ॥
अहल्यां शापनिर्मुक्तां पादस्पर्शाच् च चक्रतुः ।
यज्ञविध्वंसनायाताञ् जघ्नतुस् तत्र राक्षसान् ॥ १०० ॥
कृतविद्यौ धनुष्पाणी चक्रतुर् यज्ञरक्षणम् ।
ततो महामखे वृत्ते विश्वामित्रो मुनीश्वरः ॥ १०१ ॥
पुत्राभ्यां सहितो राज्ञो जनकं द्रष्टुम् अभ्यगात् ।
चित्राम् अदर्शयत् तत्र राजमध्ये नृपात्मजः ॥ १०२ ॥
रामः सौमित्रिसहितो धनुर्विद्यां गुरोर् मताम् ।
तत्प्रीतो जनकः प्रादात् सीतां लक्ष्मीम् अयोनिजाम् ॥ १०३ ॥
तथैव लक्ष्मणस्यापि भरतस्यानुजस्य च ।
शत्रुघ्नभरतादीनां वसिष्ठादिमते स्थितः ॥ १०४ ॥
राजा दशरथः श्रीमान् विवाहम् अकरोन् मुने ।
ततो बहुतिथे काले राज्यं तस्य प्रयच्छति ॥ १०५ ॥
नृपतौ सर्वलोकानाम् अनुमत्या गुरोर् अपि ।
मन्थरात्मकदुर्दैवप्रेरिता मत्सराकुला ॥ १०६ ॥
कैकेयी विघ्नम् आतस्थे वनप्रव्राजनं तथा ।
भरतस्य च तद् राज्यं राजा नैव च दत्तवान् ॥ १०७ ॥
पितरं सत्यवाक्यं तं कुर्वन् रामो महावनम् ।
विवेश सीतया सार्धं तथा सौमित्रिणा सह ॥ १०८ ॥
सतां च मानसं शुद्धं स विवेश स्वकैर् गुणैः ।
तस्मिन् विनिर्गते रामे वनवासाय दीक्षिते ॥ १०९ ॥
समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते ।
तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम् ॥ ११० ॥
दुःखेन महताविष्टो ब्रह्मशापं च संस्मरन् ।
तदा दशरथो राजा प्राणांस् तत्याज दुःखितः ॥ १११ ॥
कृतकर्मविपाकेन राजा नीतो यमानुगैः ।
तस्मै राज्ञे महाप्राज्ञ यावत् स्थावरजङ्गमे ॥ ११२ ॥
यमसद्मन्य् अनेकानि तामिस्रादीनि नारद ।
नरकाण्य् अथ घोराणि भीषणानि बहूनि च ॥ ११३ ॥
तत्र क्षिप्तस् तदा राजा नरकेषु पृथक् पृथक् ।
पच्यते छिद्यते राजा पिष्यते चूर्ण्यते तथा ॥ ११४ ॥
शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते ।
एवमादिषु घोरेषु नरकेषु स पच्यते ॥ ११५ ॥
रामो ऽपि गच्छन्न् अध्वानं चित्रकूटम् अथागमत् ।
तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते ॥ ११६ ॥
पुनः स दक्षिणाम् आशाम् आक्रामद् दण्डकं वनम् ।
विख्यातं त्रिषु लोकेषु देशानां तद् धि पुण्यदम् ॥ ११७ ॥
प्राविशत् तन् महारण्यं भीषणं दैत्यसेवितम् ।
तद्भयाद् ऋषिभिस् त्यक्तं हत्वा दैत्यांस् तु राक्षसान् ॥ ११८ ॥
विचरन् दण्डकारण्ये ऋषिसेव्यम् अथाकरोत् ।
तत्रेदं वृत्तम् आख्यास्ये शृणु नारद यत्नतः ॥ ११९ ॥
तावच् छनैस् त्व् अगाद् रामो यावद् योजनपञ्चकम् ।
गौतमीं समनुप्राप्तो राजापि नरके स्थितः ॥ १२० ॥
यमः स्वकिङ्करान् आह रामो दशरथात्मजः ।
गौतमीम् अभितो याति पितरं तस्य धीमतः ॥ १२१ ॥
आकर्षन्त्व् अथ राजानं नरकान् नात्र संशयः ।
उत्तीर्य गौतमीं याति यावद् योजनपञ्चकम् ॥ १२२ ॥
रामस् तावत् तस्य पिता नरके नैव पच्यताम् ।
यद् एतन् मद्वचः पुण्यं न कुर्युर् यदि दूतकाः ॥ १२३ ॥
ततश् च नरके घोरे यूयं सर्वे निमज्जथ ।
या काप्य् उक्ता परा शक्तिः शिवस्य समवायिनी ॥ १२४ ॥
ताम् एव गौतमीं सन्तो वदन्त्य् अम्भःस्वरूपिणीम् ।
हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत् ॥ १२५ ॥
निस्तीर्यते न केनापि तद् अतिक्रमजं त्व् अघम् ।
पापिनो ऽप्य् आत्मजः कश्चिद् यश् च गङ्गाम् अनुस्मरेत् ॥ १२६ ॥
सो ऽनेकदुर्गनिरयान् निर्गतो मुक्ततां व्रजेत् ।
किं पुनस् तादृशः पुत्रो गौतमीनिकटे स्थितः ॥ १२७ ॥
यस्यासौ नरके पक्तुं न कैरपि हि शक्यते ।
दक्षिणाशापतेर् वाक्यं निशम्य यमकिङ्कराः ॥ १२८ ॥
नरके पच्यमानं तम् अयोध्याधिपतिं नृपम् ।
उत्तार्य घोरनरकाद् वचनं चेदम् अब्रुवन् ॥ १२९ ॥
यमकिङ्करा ऊचुः-
धन्यो ऽसि नृपशार्दूल यस्य पुत्रः स तादृशः ।
इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते ॥ १३० ॥
ब्रह्मोवाच-
स विश्रान्तः शनै राजा किङ्करान् वाक्यम् अब्रवीत् ॥ १३१ ॥
राजोवाच-
नरकेष्व् अथ घोरेषु पच्यमानः पुनः पुनः ।
कथं त्व् आकर्षितः शीघ्रं तन् मे वक्तुम् इहार्हथ ॥ १३२ ॥
ब्रह्मोवाच-
तत्र कश्चिच् छान्तमना राजानम् इदम् अब्रवीत् ॥ १३३ ॥
यमदूत उवाच-
वेदशास्त्रपुराणादाव् एतद् गोप्यं प्रयत्नतः ।
प्रकाश्यते तद् अपि ते सामर्थ्यं पुत्रतीर्थयोः ॥ १३४ ॥
रामस् तव सुतः श्रीमान् गौतमीतीरम् आगतः ।
तस्मात् त्वं नरकाद् घोराद् आकृष्टो ऽसि नरोत्तम ॥ १३५ ॥
यदि त्वां तत्र गौतम्यां स्मरेद् रामः सलक्ष्मणः ।
स्नानं कृत्वाथ पिण्डादि ते दद्यात् स नृपोत्तम ।
ततस् त्वं सर्वपापेभ्यो मुक्तो यासि त्रिविष्टपम् ॥ १३६ ॥
राजोवाच-
तत्र गत्वा भवद्वाक्यम् आख्यास्ये स्वसुतौ प्रति ।
भवन्त एव शरणम् अनुज्ञां दातुम् अर्हथ ॥ १३७ ॥
ब्रह्मोवाच-
तद् राजवचनं श्रुत्वा कृपया यमकिङ्कराः ।
आज्ञां च प्रददुस् तस्मै राजा प्रागात् सुतौ प्रति ॥ १३८ ॥
भीषणं यातनादेहम् आपन्नो निःश्वसन् मुहुः ।
निरीक्ष्य स्वं लज्जमानः कृतं कर्म च संस्मरन् ॥ १३९ ॥
स्वेच्छया विहरन् गङ्गाम् आससाद च राघवः ।
गौतम्यास् तटम् आश्रित्य रामो लक्ष्मण एव च ॥ १४० ॥
सीतया सह वैदेह्या सस्नौ चैव यथाविधि ।
नैव तत्राभवद् भोज्यं भक्ष्यं वा गौतमीतटे ॥ १४१ ॥
तद्दिने तत्र वसतां गौतमीतीरवासिनाम् ।
तद् दृष्ट्वा दुःखितो भ्राता लक्ष्मणो रामम् अब्रवीत् ॥ १४२ ॥
लक्ष्मण उवाच-
पुत्रौ दशरथस्यावां तवापि बलम् ईदृशम् ।
नास्ति भोज्यम् अथास्माकं गङ्गातीरनिवासिनाम् ॥ १४३ ॥
राम उवाच-
भ्रातर् यद् विहितं कर्म नैव तच् चान्यथा भवेत् ।
पृथिव्याम् अन्नपूर्णायां वयम् अन्नाभिलाषिणः ॥ १४४ ॥
सौमित्रे नूनम् अस्माभिर् न ब्राह्मणमुखे हुतम् ।
अवज्ञया महीदेवांस् तर्पयन्त्य् अर्चयन्ति न ॥ १४५ ॥
ते ये लक्ष्मण जायन्ते सर्वदैव बुभुक्षिताः ।
स्नात्वा देवान् अथाभ्यर्च्य होतव्यश् च हुताशनः ।
ततः स्वसमये देवो विधास्यत्य् अशनं तु नौ ॥ १४६ ॥
ब्रह्मोवाच-
भ्रात्रोः सञ्जल्पतोर् एवं पश्यतोः कर्मणो गतिम् ।
शनैर् दशरथो राजा तं देशम् उपजग्मिवान् ॥ १४७ ॥
तं दृष्ट्वा लक्ष्मणः शीघ्रं तिष्ठ तिष्ठेति चाब्रवीत् ।
धनुर् आकृष्य कोपेन रक्षस् त्वं दानवो ऽथवा ॥ १४८ ॥
आसन्नं च पुनर् दृष्ट्वा याहि याह्य् अत्र पुण्यभाक् ।
रामो दाशरथी राजा धर्मभाक् पश्य वर्तते ॥ १४९ ॥
गुरुभक्तः सत्यसन्धो देवब्राह्मणसेवकः ।
त्रैलोक्यरक्षादक्षो ऽसौ वर्तते यत्र राघवः ॥ १५० ॥
न तत्र त्वादृशाम् अस्ति प्रवेशः पापकर्मणाम् ।
यदि प्रविशसे पाप ततो वधम् अवाप्स्यसि ॥ १५१ ॥
तत् पुत्रवचनं श्रुत्वा शनैर् आहूय वाचया ।
उवाचाधोमुखो भूत्वा स्नुषां पुत्रौ कृताञ्जलिः ।
मुहुर् अन्तर् विनिध्यायन् गतिं दुष्कृतकर्मणः ॥ १५२ ॥
राजोवाच-
अहं दशरथो राजा पुत्रौ मे शृणुतं वचः ।
तिसृभिर् ब्रह्महत्याभिर् वृतो ऽहं दुःखम् आगतः ।
छिन्नं पश्यत मे देहं नरकेषु च पातितम् ॥ १५३ ॥
ब्रह्मोवाच-
ततः कृताञ्जली रामः सीतया लक्ष्मणेन च ।
भूमौ प्रणेमुस् ते सर्वे वचनं चैतद् अब्रुवन् ॥ १५४ ॥
सीतारामलक्ष्मणा ऊचुः-
कस्येदं कर्मणस् तात फलं नृपतिसत्तम ॥ १५५ ॥
ब्रह्मोवाच-
स च प्राह यथावृत्तं ब्रह्महत्यात्रयं तथा ॥ १५६ ॥
राजोवाच-
निष्कृतिर् ब्रह्महन्तॄणां पुत्रौ क्वापि न विद्यते ॥ १५७ ॥
ब्रह्मोवाच-
ततो दुःखेन महता आवृताः सर्वे भुवं गताः ।
राजानं वनवासं च मातरं पितरं तथा ॥ १५८ ॥
दुःखागमं कर्मगतिं नरके पातनं तथा ।
एवमाद्य् अथ संस्मृत्य मुमोह नृपतेः सुतः ।
विसञ्ज्ञं नृपतिं दृष्ट्वा सीता वाक्यम् अथाब्रवीत् ॥ १५९ ॥
सीतोवाच-
न शोचन्ति महात्मानस् त्वादृशा व्यसनागमे ।
चिन्तयन्ति प्रतीकारं दैव्यम् अप्य् अथ मानुषम् ॥ १६० ॥
शोचद्भिर् युगसाहस्रं विपत्तिर् नैव तीर्यते ।
व्यामोहम् आप्नुवन्तीह न कदाचिद् विचक्षणाः ॥ १६१ ॥
किम् अनेनात्र दुःखेन निष्फलेन जनेश्वर ।
देहि हत्यां प्रथमतो या जाता ह्य् अतिभीषणा ॥ १६२ ॥
पितृभक्तः पुण्यशीलो वेदवेदाङ्गपारगः ।
अनागा यो हतो विप्रस् तत्पापस्यात्र निष्कृतिम् ॥ १६३ ॥
आचरामि यथाशास्त्रं मा शोकं कुरुतं युवाम् ।
द्वितीयां लक्ष्मणो हत्यां गृह्णातु त्व् अपरां भवान् ॥ १६४ ॥
ब्रह्मोवाच-
एतद् धर्मयुतं वाक्यं सीतया भाषितं दृढम् ।
तथेति चाहतुर् उभौ ततो दशरथो ऽब्रवीत् ॥ १६५ ॥
दशरथ उवाच-
त्वं हि ब्रह्मविदः कन्या जनकस्य त्व् अयोनिजा ।
भार्या रामस्य किं चित्रं यद् युक्तम् अनुभाषसे ॥ १६६ ॥
न कोपि भवतां किन्तु श्रमः स्वल्पो ऽपि विद्यते ।
गौतम्यां स्नानदानेन पिण्डनिर्वपणेन च ॥ १६७ ॥
तिसृभिर् ब्रह्महत्याभिर् मुक्तो यामि त्रिविष्टपम् ।
त्वया जनकसम्भूते स्वकुलोचितम् ईरितम् ॥ १६८ ॥
प्रापयन्ति परं पारं भवाब्धेः कुलयोषितः ।
गोदावर्याः प्रसादेन किं नामास्त्य् अत्र दुर्लभम् ॥ १६९ ॥
ब्रह्मोवाच-
तथेति क्रियमाणे तु पिण्डदानाय शत्रुहा ।
नैवापश्यद् भक्ष्यभोज्यं ततो लक्ष्मणम् अब्रवीत् ॥ १७० ॥
लक्ष्मणः प्राह विनयाद् इङ्गुद्याश् च फलानि च ।
सन्ति तेषां च पिण्याकम् आनीतं तत्क्षणाद् इव ॥ १७१ ॥
पिण्याकेनाथ गङ्गायां पिण्डं दातुं तथा पितुः ।
मनः कुर्वंस् ततो रामो मन्दो ऽभूद् दुःखितस् तदा ॥ १७२ ॥
दैवी वाग् अभवत् तत्र दुःखं त्यज नृपात्मज ।
राज्यभ्रष्टो वनं प्राप्तः किं वै निष्किञ्चनो भवान् ॥ १७३ ॥
अशठो धर्मनिरतो न शोचितुम् इहार्हसि ।
वित्तशाठ्येन यो धर्मं करोति स तु पातकी ॥ १७४ ॥
श्रूयते सर्वशास्त्रेषु यद् राम शृणु यत्नतः ।
यदन्नः पुरुषो राजंस् तदन्नास् तस्य देवताः ॥ १७५ ॥
पिण्डे निपतिते भूमौ नापश्यत् पितरं तदा ।
शवं च पतितं यत्र शवतीर्थम् अनुत्तमम् ॥ १७६ ॥
महापातकसङ्घातविघातकृद् अनुस्मृतिः ।
तत्रागच्छंल् लोकपाला रुद्रादित्यास् तथाश्विनौ ॥ १७७ ॥
स्वं स्वं विमानम् आरूढास् तेषां मध्ये ऽतिदीप्तिमान् ।
विमानवरम् आरूढः स्तूयमानश् च किन्नरैः ॥ १७८ ॥
आदित्यसदृशाकारस् तेषां मध्ये बभौ पिता ।
तम् अदृष्ट्वा स्वपितरं देवान् दृष्ट्वा विमानिनः ॥ १७९ ॥
कृताञ्जलिपुटो रामः पिता मे क्वेत्य् अभाषत ।
इति दिव्याभवद् वाणी रामं सम्बोध्य सीतया ॥ १८० ॥
तिसृभिर् ब्रह्महत्याभिर् मुक्तो दशरथो नृपः ।
वृतं पश्य सुरैस् तात देवा अप्य् ऊचिरे च तम् ॥ १८१ ॥
देवा ऊचुः-
धन्यो ऽसि कृतकृत्यो ऽसि राम स्वर्गं गतः पिता ।
नानानिरयसङ्घातात् पूर्वजान् उद्धरेत् तु यः ॥ १८२ ॥
स धन्यो ऽलङ्कृतं तेन कृतिना भुवनत्रयम् ।
एनं पश्य महाबाहो मुक्तपापं रविप्रभम् ॥ १८३ ॥
सर्वसम्पत्तियुक्तो ऽपि पापी दग्धद्रुमोपमः ।
निष्किञ्चनो ऽपि सुकृती दृश्यते चन्द्रमौलिवत् ॥ १८४ ॥
ब्रह्मोवाच-
दृष्ट्वाब्रवीत् सुतं राजा आशीर्भिर् अभिनन्द्य च ॥ १८५ ॥
राजोवाच-
कृतकृत्यो ऽसि भद्रं ते तारितो ऽहं त्वयानघ ।
धन्यः स पुत्रो लोके ऽस्मिन् पितॄणां यस् तु तारकः ॥ १८६ ॥
ब्रह्मोवाच-
ततः सुरगणाः प्रोचुर् देवानां कार्यसिद्धये ।
रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम् ।
ततस् तद्वचनं श्रुत्वा रामस् तान् अब्रवीत् सुरान् ॥ १८७ ॥
राम उवाच-
गुरौ पितरि मे देवाः किं कृत्यम् अवशिष्यते ॥ १८८ ॥
देवा ऊचुः-
नदी न गङ्गया तुल्या न त्वया सदृशः सुतः ।
न शिवेन समो देवो न तारेण समो मनुः ॥ १८९ ॥
त्वया राम गुरूणां च कार्यं सर्वम् अनुष्ठितम् ।
तारिताः पितरो राम त्वया पुत्रेण मानद ।
गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम् ॥ १९० ॥
ब्रह्मोवाच-
तद् देववचनाद् धृष्टः सीतया लक्ष्मणाग्रजः ।
तद् दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यम् अब्रवीत् ॥ १९१ ॥
राम उवाच-
अहो गङ्गाप्रभावो ऽयं त्रैलोक्ये नोपमीयते ।
वयं धन्या यतो गङ्गा दृष्टास्माभिस् त्रिपावनी ॥ १९२ ॥
ब्रह्मोवाच-
हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम् ।
तं षोडशभिर् ईशानम् उपचारैः प्रयत्नतः ॥ १९३ ॥
सम्पूज्यावरणैर् युक्तं षट्त्रिंशत्कलम् ईश्वरम् ।
कृताञ्जलिपुटो भूत्वा रामस् तुष्टाव शङ्करम् ॥ १९४ ॥
राम उवाच-
नमामि शम्भुं पुरुषं पुराणं ।
नमामि सर्वज्ञम् अपारभावम् ।
नमामि रुद्रं प्रभुम् अक्षयं तं ।
नमामि शर्वं शिरसा नमामि ॥ १९५ ॥
नमामि देवं परम् अव्ययं तम् ।
उमापतिं लोकगुरुं नमामि ।
नमामि दारिद्र्यविदारणं तं ।
नमामि रोगापहरं नमामि ॥ १९६ ॥
नमामि कल्याणम् अचिन्त्यरूपं ।
नमामि विश्वोद्भवबीजरूपम् ।
नमामि विश्वस्थितिकारणं तं ।
नमामि संहारकरं नमामि ॥ १९७ ॥
नमामि गौरीप्रियम् अव्ययं तं ।
नमामि नित्यं क्षरम् अक्षरं तम् ।
नमामि चिद्रूपम् अमेयभावं ।
त्रिलोचनं तं शिरसा नमामि ॥ १९८ ॥
नमामि कारुण्यकरं भवस्य ।
भयङ्करं वापि सदा नमामि ।
नमामि दातारम् अभीप्सितानां ।
नमामि सोमेशम् उमेशम् आदौ ॥ १९९ ॥
नमामि वेदत्रयलोचनं तं ।
नमामि मूर्तित्रयवर्जितं तम् ।
नमामि पुण्यं सदसद्व्यतीतं ।
नमामि तं पापहरं नमामि ॥ २०० ॥
नमामि विश्वस्य हिते रतं तं ।
नमामि रूपाणि बहूनि धत्ते ।
यो विश्वगोप्ता सदसत्प्रणेता ।
नमामि तं विश्वपतिं नमामि ॥ २०१ ॥
यज्ञेश्वरं सम्प्रति हव्यकव्यं ।
तथा गतिं लोकसदाशिवो यः ।
आराधितो यश् च ददाति सर्वं ।
नमामि दानप्रियम् इष्टदेवम् ॥ २०२ ॥
नमामि सोमेश्वरम् अस्वतन्त्रम् ।
उमापतिं तं विजयं नमामि ।
नमामि विघ्नेश्वरनन्दिनाथं ।
पुत्रप्रियं तं शिरसा नमामि ॥ २०३ ॥
विनाशनं चन्द्रधरं नमामि ।
नमामि गङ्गाधरम् ईशम् ईड्यम् ।
उमाधवं देववरं नमामि ॥ २०४ ॥
सुरासुरैर् अर्चितपादपद्मम् ।
नमामि देवीमुखवादनानाम् ।
ईक्षार्थम् अक्षित्रितयं य ऐच्छत् ॥ २०५ ॥
पञ्चामृतैर् गन्धसुधूपदीपैर् ।
विचित्रपुष्पैर् विविधैश् च मन्त्रैः ।
अन्नप्रकारैः सकलोपचारैः ।
सम्पूजितं सोमम् अहं नमामि ॥ २०६ ॥
ब्रह्मोवाच-
ततः स भगवान् आह रामं शम्भुः सलक्ष्मणम् ।
वरान् वृणीष्व भद्रं ते रामः प्राह वृषध्वजम् ॥ २०७ ॥
राम उवाच-
स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम ।
तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर ॥ २०८ ॥
येषां च पितरः शम्भो पतिता नरकार्णवे ।
तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टपम् ॥ २०९ ॥
जन्मप्रभृति पापानि मनोवाक्कायिकं त्व् अघम् ।
अत्र तु स्नानमात्रेण तत् सद्यो नाशम् आप्नुयात् ॥ २१० ॥
अत्र ये भक्तितः शम्भो ददत्य् अर्थिभ्य अण्व् अपि ।
सर्वं तद् अक्षयं शम्भो दातॄणां फलकृद् भवेत् ॥ २११ ॥
ब्रह्मोवाच-
एवम् अस्त्व् इति तं रामं शङ्करो हृषितो ऽब्रवीत् ।
गते तस्मिन् सुरश्रेष्ठे रामो ऽप्य् अनुचरैः सह ॥ २१२ ॥
गौतमी यत्र चोत्पन्ना शनैस् तं देशम् अभ्यगात् ।
ततः प्रभृति तत् तीर्थं रामतीर्थम् उदाहृतम् ॥ २१३ ॥
दयालोर् अपतत् तत्र लक्ष्मणस्य कराच् छरः ।
तद् बाणतीर्थम् अभवत् सर्वापद्विनिवारणम् ॥ २१४ ॥
यत्र सौमित्रिणा स्नानं शङ्करस्यार्चनं कृतम् ।
तत् तीर्थं लक्ष्मणं जातं तथा सीतासमुद्भवम् ॥ २१५ ॥
नानाविधाशेषपापसङ्घनिर्मूलनक्षमम् ।
यद् अङ्घ्रिसङ्गाद् अभवद् गङ्गा त्रैलोक्यपावनी ॥ २१६ ॥
स यत्र स्नानम् अकरोत् तद् वैशिष्ट्यं किम् उच्यते ।
तद् रामतीर्थसदृशं तीर्थं क्वापि न विद्यते ॥ २१७ ॥