122

Summary (SA)

Chapter 122- Stories of Dhanvantari and of Indra regaining his kingdom

{{Ref- SS 198-201}}

ब्रह्मोवाच-

पूर्णतीर्थम् इति ख्यातं गङ्गाया उत्तरे तटे ।
तत्र स्नात्वा नरो ऽज्ञानात् तथापि शुभम् आप्नुयात् ॥ १ ॥

पूर्णतीर्थस्य माहात्म्यं वर्ण्यते केन जन्तुना ।
स्वयं संस्थीयते यत्र चक्रिणा च पिनाकिना ॥ २ ॥

पुरा धन्वन्तरिर् नाम कल्पादाव् आयुषः सुतः ।
इष्ट्वा बहुविधैर् यज्ञैर् अश्वमेधपुरःसरैः ॥ ३ ॥

दत्त्वा दानान्य् अनेकानि भुक्त्वा भोगांश् च पुष्कलान् ।
विज्ञाय भोगवैषम्यं परं वैराग्यम् आश्रितः ॥ ४ ॥

गिरिशृङ्गे ऽम्बुधेः पारे तथा गङ्गानदीतटे ।
शिवविष्ण्वोर् गृहे वापि विशेषात् पुण्यसङ्गमे ॥ ५ ॥

तप्तं हुतं च जप्तं च सर्वम् अक्षयतां व्रजेत् ।
धन्वन्तरिर् इति ज्ञात्वा तत्र तेपे तपो महत् ॥ ६ ॥

ज्ञानवैराग्यसम्पन्नो भीमेशचरणाश्रयः ।
तपश् चकार विपुलं गङ्गासागरसङ्गमे ॥ ७ ॥

पुरा च निकृतो राज्ञा रणं हित्वा महासुरः ।
सहस्रम् एकं वर्षाणां समुद्रं प्राविशद् भयात् ॥ ८ ॥

धन्वन्तरौ वनं प्राप्ते राज्यं प्राप्ते तु तत्सुते ।
विरागं च गते राज्ञि ततः प्रायाद् अथार्णवात् ॥ ९ ॥

तपस्यन्तं तमो नाम बलवान् असुरो मुने ।
गङ्गातीरं समाश्रित्य राजा धन्वन्तरिर् यतः ॥ १० ॥

जपहोमरतो नित्यं ब्रह्मज्ञानपरायणः ।
तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात् ॥ ११ ॥

नाशितो बहुशो ऽनेन राज्ञा बलवता त्व् अहम् ।
तं रिपुं नाशयामीति तमः प्रायाद् अथार्णवात् ॥ १२ ॥

मायया प्रमदारूपं कृत्वा राजानम् अभ्यगात् ।
नृत्यगीतवती सुभ्रूर् हसन्ती चारुदर्शना ॥ १३ ॥

तां दृष्ट्वा चारुसर्वाङ्गीं बहुकालं नयान्विताम् ।
शान्ताम् अनुव्रतां भक्तां कृपया चाब्रवीन् नृपः ॥ १४ ॥

नृप उवाच-

कासि त्वं कस्य हेतोर् वा वर्तसे गहने वने ।
कं दृष्ट्वा हर्षसीव त्वं वद कल्याणि पृच्छते ॥ १५ ॥

ब्रह्मोवाच-

प्रमदा चापि तद्वाक्यं श्रुत्वा राजानम् अब्रवीत् ॥ १६ ॥

प्रमदोवाच-

त्वयि तिष्ठति को लोके हेतुर् हर्षस्य मे भवेत् ।
अहम् इन्द्रस्य या लक्ष्मीस् त्वां दृष्ट्वा कामसम्भृतम् ॥ १७ ॥

हर्षाच् चरामि पुरतो राजंस् तव पुनः पुनः ।
अगण्यपुण्यविरहाद् अहं सर्वस्य दुर्लभा ॥ १८ ॥

ब्रह्मोवाच-

एतद् वचो निशम्याशु तपस् त्यक्त्वा सुदुष्करम् ।
ताम् एव मनसा ध्यायंस् तन्निष्ठस् तत्परायणः ॥ १९ ॥

तदेकशरणो राजा बभूव स यदा तमः ।
अन्तर्धानं गतो ब्रह्मन् नाशयित्वा तपो बृहत् ॥ २० ॥

एतस्मिन्न् अन्तरे ऽहं वै वरान् दातुं समभ्यगाम् ।
तं दृष्ट्वा विह्वलीभूतं तपोभ्रष्टं यथा मृतम् ॥ २१ ॥

तम् आश्वास्याथ विविधैर् हेतुभिर् नृपसत्तमम् ।
तव शत्रुस् तमो नाम कृत्वा तां तपसश् च्युतिम् ॥ २२ ॥

चरितार्थो गतो राजन् न त्वं शोचितुम् अर्हसि ।
आनन्दयन्ति प्रमदास् तापयन्ति च मानवम् ॥ २३ ॥

सर्वा एव विशेषेण किम् उ मायामयी तु सा ।
ततः कृताञ्जली राजा माम् आह विगतभ्रमः ॥ २४ ॥

राजोवाच-

किं करोमि कथं ब्रह्मंस् तपसः पारम् आप्नुयाम् ॥ २५ ॥

ब्रह्मोवाच-

ततस् तस्योत्तरं प्रादां देवदेवं जनार्दनम् ।
स्तुहि सर्वप्रयत्नेन ततः सिद्धिम् अवाप्स्यसि ॥ २६ ॥

स ह्य् अशेषजगत्स्रष्टा वेदवेद्यः पुरातनः ।
सर्वार्थसिद्धिदः पुंसां नान्यो ऽस्ति भुवनत्रये ॥ २७ ॥

स जगाम नगश्रेष्ठं हिमवन्तं नृपोत्तमः ।
कृताञ्जलिपुटो भूत्वा विष्णुं तुष्टाव भक्तितः ॥ २८ ॥

धन्वन्तरिर् उवाच-

जय विष्णो जयाचिन्त्य जय जिष्णो जयाच्युत ।
जय गोपाल लक्ष्मीश जय कृष्ण जगन्मय ॥ २९ ॥

जय भूतपते नाथ जय पन्नगशायिने ।
जय सर्वग गोविन्द जय विश्वकृते नमः ॥ ३० ॥

जय विश्वभुजे देव जय विश्वधृते नमः ।
जयेश सदसत् त्वं वै जय माधव धर्मिणे ॥ ३१ ॥

जय कामद काम त्वं जय राम गुणार्णव ।
जय पुष्टिद पुष्टीश जय कल्याणदायिने ॥ ३२ ॥

जय भूतप भूतेश जय मानविधायिने ।
जय कर्मद कर्म त्वं जय पीताम्बरच्छद ॥ ३३ ॥

जय सर्वेश सर्वस् त्वं जय मङ्गलरूपिणे ।
जय सत्त्वाधिनाथाय जय वेदविदे नमः ॥ ३४ ॥

जय जन्मद जन्मिस्थ परमात्मन् नमो ऽस्तु ते ।
जय मुक्तिद मुक्तिस् त्वं जय भुक्तिद केशव ॥ ३५ ॥

जय लोकद लोकेश जय पापविनाशन ।
जय वत्सल भक्तानां जय चक्रधृते नमः ॥ ३६ ॥

जय मानद मानस् त्वं जय लोकनमस्कृत ।
जय धर्मद धर्मस् त्वं जय संसारपारग ॥ ३७ ॥

जय अन्नद अन्नं त्वं जय वाचस्पते नमः ।
जय शक्तिद शक्तिस् त्वं जय जैत्रवरप्रद ॥ ३८ ॥

जय यज्ञद यज्ञस् त्वं जय पद्मदलेक्षण ।
जय दानद दानं त्वं जय कैटभसूदन ॥ ३९ ॥

जय कीर्तिद कीर्तिस् त्वं जय मूर्तिद मूर्तिधृक् ।
जय सौख्यद सौख्यात्मञ् जय पावनपावन ॥ ४० ॥

जय शान्तिद शान्तिस् त्वं जय शङ्करसम्भव ।
जय पानद पानस् त्वं जय ज्योतिःस्वरूपिणे ॥ ४१ ॥

जय वामन वित्तेश जय धूमपताकिने ।
जय सर्वस्य जगतो दातृमूर्ते नमो ऽस्तु ते ॥ ४२ ॥

निकायसङ्क्लेशविनाशदक्ष ।
श्रीपुण्डरीकाक्ष कृपानिधे त्वं ।
निधेहि पाणिं मम मूर्ध्नि विष्णो ॥ ४३ ॥

ब्रह्मोवाच-

एवं स्तुवन्तं भगवाञ् शङ्खचक्रगदाधरः ।
वरेण च्छन्दयाम् आस सर्वकामसमृद्धिदः ॥ ४४ ॥

धन्वन्तरिः प्रीतमना वरदानेन चक्रिणः ।
वरदानाय देवेशं गोविन्दं संस्थितं पुरः ॥ ४५ ॥

तम् आह नृपतिः प्रह्वः सुरराज्यं ममेप्सितम् ।
तच् च दत्तं त्वया विष्णो प्राप्तो ऽस्मि कृतकृत्यताम् ॥ ४६ ॥

स्तुतः सम्पूजितो विष्णुस् तत्रैवान्तरधीयत ।
तथैव त्रिदशेशत्वम् अवाप नृपतिः क्रमात् ॥ ४७ ॥

प्रागर्जितानेककर्मपरिपाकवशात् ततः ।
त्रिःकृत्वो नाशम् अगमत् सहस्राक्षः स्वकात् पदात् ॥ ४८ ॥

नहुषाद् वृत्रहत्यायाः सिन्धुसेनवधात् ततः ।
अहल्यायां च गमनाद् येन केन च हेतुना ॥ ४९ ॥

स्मारं स्मारं तत् तद् इन्द्रश् चिन्तासन्तापदुर्मनाः ।
ततः सुरपतिः प्राह वाचस्पतिम् इदं वचः ॥ ५० ॥

इन्द्र उवाच-

हेतुना केन वागीश भ्रष्टराज्यो भवाम्य् अहम् ।
मध्ये मध्ये पदभ्रंशाद् वरं निःश्रीकता नृणाम् ॥ ५१ ॥

गहनां कर्मणां जीवगतिं को वेत्ति तत्त्वतः ।
रहस्यं सर्वभावानां ज्ञातुं नान्यः प्रगल्भते ॥ ५२ ॥

ब्रह्मोवाच-

बृहस्पतिर् हरिं प्राह ब्रह्माणं पृच्छ गच्छ तम् ।
स तु जानाति यद् भूतं भविष्यच् चापि वर्तनम् ॥ ५३ ॥

स तु वक्ष्यति येनेदं जातं तच् च महामते ।
ताव् आगत्य महाप्राज्ञौ नमस्कृत्य ममान्तिकम् ।
कृताञ्जलिपुटो भूत्वा माम् ऊचतुर् इदं वचः ॥ ५४ ॥

इन्द्रबृहस्पती ऊचतुः-

भगवन् केन दोषेण शचीभर्ता उदारधीः ।
राज्यात् प्रभ्रश्यते नाथ संशयं छेत्तुम् अर्हसि ॥ ५५ ॥

ब्रह्मोवाच-

तदाहम् अब्रवं ब्रह्मंश् चिरं ध्यात्वा बृहस्पतिम् ।
खण्डधर्माख्यदोषेण तेन राज्यपदाच् च्युतः ॥ ५६ ॥

देशकालादिदोषेण श्रद्धामन्त्रविपर्ययात् ।
यथावद्दक्षिणादानाद् असद्द्रव्यप्रदानतः ॥ ५७ ॥

देवभूदेवतावज्ञापातकाच् च विशेषतः ।
यत् खण्डत्वं स्वधर्मस्य देहिनाम् उपजायते ॥ ५८ ॥

तेनातिमानसस् तापः पदहानिश् च दुस्त्यजा ।
कृतो ऽपि धर्मो ऽनिष्टाय जायते क्षुब्धचेतसा ॥ ५९ ॥

कार्यस्य न भवेत् सिद्ध्यै तस्माद् अव्याकुलाय च ।
असम्पूर्णे स्वधर्मे हि किम् अनिष्टं न जायते ॥ ६० ॥

ताभ्यां यत् पूर्ववृत्तान्तं तद् अप्य् उक्तं मयानघ ।
आयुषस् तु सुतः श्रीमान् धन्वन्तरिर् उदारधीः ॥ ६१ ॥

तमसा च कृतं विघ्नं विष्णुना तच् च नाशितम् ।
पूर्वजन्मसु वृत्तान्तम् इत्यादि परिकीर्तितम् ॥ ६२ ॥

तच् छ्रुत्वा विस्मितौ चोभौ माम् एव पुनर् ऊचतुः ॥ ६३ ॥

इन्द्रबृहस्पती ऊचतुः-

तद्दोषप्रतिबन्धस् तु केन स्यात् सुरसत्तम ॥ ६४ ॥

ब्रह्मोवाच-

पुनर् ध्यात्वा ताव् अवदं श्रूयतां दोषकारकम् ।
कारणं सर्वसिद्धीनां दुःखसंसारतारणम् ॥ ६५ ॥

शरणं तप्तचित्तानां निर्वाणं जीवताम् अपि ।
गत्वा तु गौतमीं देवीं स्तूयेतां हरिशङ्करौ ॥ ६६ ॥

नोपायो ऽन्यो ऽस्ति संशुद्ध्यै तौ तां हित्वा जगत्त्रये ।
तदैव जग्मतुर् उभौ गौतमीं मुनिसत्तम ।
स्नातौ कृतक्षणौ चोभौ देवौ तुष्टुवतुर् मुदा ॥ ६७ ॥

इन्द्र उवाच-

नमो मत्स्याय कूर्माय वराहाय नमो नमः ।
नरसिंहाय देवाय वामनाय नमो नमः ॥ ६८ ॥

नमो ऽस्तु हयरूपाय त्रिविक्रम नमो ऽस्तु ते ।
नमो ऽस्तु बुद्धरूपाय रामरूपाय कल्किने ॥ ६९ ॥

अनन्तायाच्युतायेश जामदग्न्याय ते नमः ।
वरुणेन्द्रस्वरूपाय यमरूपाय ते नमः ॥ ७० ॥

परमेशाय देवाय नमस् त्रैलोक्यरूपिणे ।
बिभ्रत्सरस्वतीं वक्त्रे सर्वज्ञो ऽसि नमो ऽस्तु ते ॥ ७१ ॥

लक्ष्मीवान् अस्य् अतो लक्ष्मीं बिभ्रद् वक्षसि चानघ ।
बहुबाहूरुपादस् त्वं बहुकर्णाक्षिशीर्षकः ।
त्वाम् एव सुखिनं प्राप्य बहवः सुखिनो ऽभवन् ॥ ७२ ॥

तावन् निःश्रीकता पुंसां मालिन्यं दैन्यम् एव वा ।
यावन् न यान्ति शरणं हरे त्वां करुणार्णवम् ॥ ७३ ॥

बृहस्पतिर् उवाच-

सूक्ष्मं परं जोतिर् अनन्तरूपम् ।
ओङ्कारमात्रं प्रकृतेः परं यत् ।
चिद्रूपम् आनन्दमयं समस्तम् ।
एवं वदन्तीश मुमुक्षवस् त्वाम् ॥ ७४ ॥

आराधयन्त्य् अत्र भवन्तम् ईशं ।
महामखैः पञ्चभिर् अप्य् अकामाः ।
संसारसिन्धोः परम् आप्तकामा ।
विशन्ति दिव्यं भुवनं वपुस् ते ॥ ७५ ॥

सर्वेषु सत्त्वेषु समत्वबुद्ध्या ।
संवीक्ष्य षट्सूर्मिषु शान्तभावाः ।
ज्ञानेन ते कर्मफलानि हित्वा ।
ध्यानेन ते त्वां प्रविशन्ति शम्भो ॥ ७६ ॥

न जातिधर्माणि न वेदशास्त्रं ।
न ध्यानयोगो न समाधिधर्मः ।
रुद्रं शिवं शङ्करं शान्तिचित्तं ।
भक्त्या देवं सोमम् अहं नमस्ये ॥ ७७ ॥

मूर्खो ऽपि शम्भो तव पादभक्त्या ।
समाप्नुयान् मुक्तिमयीं तनुं ते ।
ज्ञानेषु यज्ञेषु तपःसु चैव ।
ध्यानेषु होमेषु महाफलेषु ॥ ७८ ॥

सम्पन्नम् एतत् फलम् उत्तमं यत् ।
सोमेश्वरे भक्तिर् अहर्निशं यत् ।
सर्वस्य जीवस्य सदा प्रियस्य ।
फलस्य दृष्टस्य तथा श्रुतस्य ॥ ७९ ॥

स्वर्गस्य मोक्षस्य जगन्निवास ।
सोपानपङ्क्तिस् तव भक्तिर् एषा ।
त्वत्पादसम्प्राप्तिफलाप्तये तु ।
सोपानपङ्क्तिं न वदन्ति धीराः ॥ ८० ॥

तस्माद् दयालो मम भक्तिर् अस्तु ।
नैवास्त्य् उपायस् तव रूपसेवा ।
आत्मीयम् आलोक्य महत्त्वम् ईश ।
पापेषु चास्मासु कुरु प्रसादम् ॥ ८१ ॥

स्थूलं च सूक्ष्मं त्वम् अनादि नित्यं ।
पिता च माता यद् असच् च सच् च ।
एवं स्तुतो यः श्रुतिभिः पुराणैर् ।
नमामि सोमेश्वरम् ईशितारम् ॥ ८२ ॥

ब्रह्मोवाच-

ततः प्रीतौ हरिहराव् ऊचतुस् त्रिदशेश्वरौ ॥ ८३ ॥

हरिहराव् ऊचतुः-

व्रियतां यन् मनोभीष्टं यद् वरं चातिदुर्लभम् ॥ ८४ ॥

ब्रह्मोवाच-

इन्द्रः प्राह सुरेशानं मद्राज्यं तु पुनः पुनः ।
जायते भ्रश्यते चैव तत् पापम् उपशाम्यताम् ॥ ८५ ॥

यथा स्थिरो ऽहं राज्ये स्यां सर्वं स्यान् निश्चलं मम ।
सुप्रीतौ यदि देवेशौ सर्वं स्यान् निश्चलं सदा ॥ ८६ ॥

तथेति हरिवाक्यं ताव् अभिनन्द्येदम् ऊचतुः ।
परं प्रसादम् आपन्नौ ताव् आलोक्य स्मिताननौ ॥ ८७ ॥

निरपायनिराधारनिर्विकारस्वरूपिणौ ।
शरण्यौ सर्वलोकानां भुक्तिमुक्तिप्रदाव् उभौ ॥ ८८ ॥

हरिहराव् ऊचतुः-

त्रिदैवत्यं महातीर्थं गौतमी वाञ्छितप्रदा ।
तस्याम् अनेन मन्त्रेण कुरुतां स्नानम् आदरात् ॥ ८९ ॥

अभिषेकं महेन्द्रस्य मङ्गलाय बृहस्पतिः ।
करोतु संस्मरन्न् आवां सम्पदां स्थैर्यसिद्धये ॥ ९० ॥

इह जन्मनि पूर्वस्मिन् यत् किञ्चित् सुकृतं कृतम् ।
तत् सर्वं पूर्णताम् एतु गोदावरि नमो ऽस्तु ते ॥ ९१ ॥

एवं स्मृत्वा तु यः कश्चिद् गौतम्यां स्नानम् आचरेत् ।
आवाभ्यां तु प्रसादेन धर्मः सम्पूर्णताम् इयात् ।
पूर्वजन्मकृताद् दोषात् स मुक्तः पुण्यवान् भवेत् ॥ ९२ ॥

ब्रह्मोवाच-

तथेति चक्रतुः प्रीतौ सुरेन्द्रधिषणौ ततः ।
महाभिषेकम् इन्द्रस्य चकार द्युसदां गुरुः ॥ ९३ ॥

तेनाभूद् या नदी पुण्या मङ्गलेत्य् उदिता तु सा ।
तया च सङ्गमः पुण्यो गङ्गायाः शुभदस् त्व् असौ ॥ ९४ ॥

इन्द्रेण संस्तुतो विष्णुः प्रत्यक्षो ऽभूज् जगन्मयः ।
त्रिलोकसम्मितां शक्रो भूमिं लेभे जगत्पतेः ॥ ९५ ॥

तन्नाम्ना चापि विख्यातो गोविन्द इति तत्र च ।
त्रिलोकसम्मिता लब्धा तेन गौर् वज्रधारिणा ॥ ९६ ॥

दत्ता च हरिणा तत्र गोविन्दस् तद् अभूद् धरिः ।
त्रैलोक्यराज्यं यत् प्राप्तं हरिणा च हरेर् मुने ॥ ९७ ॥

निश्चलं येन सञ्जातं देवदेवान् महेश्वरात् ।
बृहस्पतिर् देवगुरुर् यत्रास्तौषीन् महेश्वरम् ॥ ९८ ॥

राज्यस्य स्थिरभावाय देवेन्द्रस्य महात्मनः ।
सिद्धेश्वरस् तत्र देवो लिङ्गं तु त्रिदशार्चितम् ॥ ९९ ॥

ततः प्रभृति तत् तीर्थं गोविन्दम् इति विश्रुतम् ।
मङ्गलासङ्गमं चैव पूर्णतीर्थं ततः परम् ॥ १०० ॥

इन्द्रतीर्थम् इति ख्यातं बार्हस्पत्यं च विश्रुतम् ।
यत्र सिद्धेश्वरो देवो विष्णुर् गोविन्द एव च ॥ १०१ ॥

तेषु स्नानं च दानं च यत् किञ्चित् सुकृतार्जनम् ।
सर्वं तद् अक्षयं विद्यात् पितॄणाम् अतिवल्लभम् ॥ १०२ ॥

शृणोति यश् चापि पठेद् यश् च स्मरति नित्यशः ।
तस्य तीर्थस्य माहात्म्यं भ्रष्टराज्यप्रदायकम् ॥ १०३ ॥

सप्तत्रिंशत् सहस्राणि तीर्थानां तीरयोर् द्वयोः ।
उभयोर् मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥ १०४ ॥

न पूर्णतीर्थसदृशं तीर्थम् अस्ति महाफलम् ।
निष्फलं तस्य जन्मादि यो न सेवेत तन् नरः ॥ १०५ ॥