Summary (SA)
Chapter 121- Kaṭha and his special gift to his teacher Bharadvāja
{{Ref- SS 197-198}}
ब्रह्मोवाच-
विदर्भासङ्गमं पुण्यं रेवतीसङ्गमं तथा ।
तत्र यद् वृत्तम् आख्यास्ये यत् पुराणविदो विदुः ॥ १ ॥
भरद्वाज इति ख्यात ऋषिर् आसीत् तपोधिकः ।
तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा ॥ २ ॥
तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान् ।
चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे ॥ ३ ॥
कस्मै दद्याम् इमां कन्यां स्वसारं भीषणाकृतिम् ।
न कश्चित् प्रतिगृह्णाति दातव्या च स्वसा तथा ॥ ४ ॥
अहो भूयान् न कस्यापि कन्या दुःखैककारणम् ।
मरणं जीवतो ऽप्य् अस्य प्राणिनस् तु पदे पदे ॥ ५ ॥
एवं विमृशतस् तस्य स्वाश्रमे चातिशोभने ।
द्रष्टुं मुनिवरः प्रायाद् भरद्वाजं यतव्रतम् ॥ ६ ॥
द्व्यष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः ।
नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः ॥ ७ ॥
विधिवत् पूज्य तं विप्रं भरद्वाजः कठं तदा ।
तस्यागमनकार्यं च पप्रच्छ पुरतः स्थितः ॥ ८ ॥
कठो ऽप्य् आह भरद्वाजं विद्यार्थ्य् अहम् उपागतः ।
तथा च दर्शनाकाङ्क्षी यद् युक्तं तद् विधीयताम् ॥ ९ ॥
भरद्वाजः कठं प्राह अधीष्व यद् अभीप्सितम् ।
पुराणं स्मृतयो वेदा धर्मस्थानान्य् अनेकशः ॥ १० ॥
सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम् ।
कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः ।
अभिमानी श्रुतधरः शिष्यः पुण्यैर् अवाप्यते ॥ ११ ॥
कठ उवाच-
अध्यापयस्व भो ब्रह्मञ् शिष्यं मां वीतकल्मषम् ।
शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम् ॥ १२ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा भरद्वाजः प्रादाद् विद्याम् अशेषतः ।
प्राप्तविद्यः कठः प्रीतो भरद्वाजम् अथाब्रवीत् ॥ १३ ॥
कठ उवाच-
इच्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम् ।
वदस्व दुर्लभं वापि गुरो तुभ्यं नमो ऽस्तु ते ॥ १४ ॥
विद्यां प्राप्यापि ये मोहात् स्वगुरोः पारितोषिकम् ।
न प्रयच्छन्ति निरयं ते यान्त्य् आचन्द्रतारकम् ॥ १५ ॥
भरद्वाज उवाच-
गृहाण कन्यां विधिवद् भार्यां कुरु मम स्वसाम् ।
अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणाम् इमाम् ॥ १६ ॥
कठ उवाच-
भ्रातृवत् पुत्रवच् चापि शिष्यः स्यात् तु गुरोः सदा ।
गुरुश् च पितृवच् च स्यात् सम्बन्धो ऽत्र कथं भवेत् ॥ १७ ॥
भरद्वाज उवाच-
मद्वाक्यं कुरु सत्यं त्वं ममाज्ञा तव दक्षिणा ।
सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः ॥ १८ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा गुरोर् वाक्यात् कठो जग्राह पाणिना ।
रेवतीं विधिवद् दत्तां तां समीक्ष्य कठस् त्व् अथ ॥ १९ ॥
तत्रैव पूजयाम् आस देवेशं शङ्करं तदा ।
रेवत्या रूपसम्पत्त्यै शिवप्रीत्यै च रेवती ॥ २० ॥
सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते ।
अभिषेकोदकं तत्र रेवत्या यद् विनिःसृतम् ॥ २१ ॥
साभवत् तत्र गङ्गायां तस्मात् तन्नामतो नदी ।
रेवतीति समाख्याता रूपसौभाग्यदायिनी ॥ २२ ॥
पुनर् दर्भैश् च विविधैर् अभिषेकं चकार सः ।
पुण्यरूपत्वसंसिद्ध्यै विदर्भा तद् अभून् नदी ॥ २३ ॥
श्रद्धया सङ्गमे स्नात्वा रेवतीगङ्गयोर् नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ २४ ॥
तथा विदर्भागौतम्योः सङ्गमे श्रद्धया मुने ।
स्नानं करोत्य् असौ याति भुक्तिं मुक्तिं च तत्क्षणात् ॥ २५ ॥
उभयोस् तीरयोस् तत्र तीर्थानां शतम् उत्तमम् ।
सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम् ॥ २६ ॥