Summary (SA)
Chapter 120- The plants and Soma (cont.)
{{Ref- SS 196-197}}
ब्रह्मोवाच-
धान्यतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम् ।
सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम् ॥ १ ॥
ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः ।
ऊचुः सर्वस्य लोकस्य गङ्गायाश् चेप्सितं वचः ॥ २ ॥
ओषध्य ऊचुः-
वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः ।
भूमिं सस्यवतीं कश्चिन् मातरं मातृसम्मिताम् ॥ ३ ॥
गङ्गासमीपे यो दद्यात् सर्वकामान् अवाप्नुयात् ।
भूमिं सस्यवतीं गाश् च ओषधीश् च मुदान्वितः ॥ ४ ॥
विष्णुब्रह्मेशरूपाय यो दद्याद् भक्तिमान् नरः ।
सर्वं तद् अक्षयं विद्यात् सर्वकामान् अवाप्नुयात् ॥ ५ ॥
ओषध्यः सोमराजन्याः सोमश् चाप्य् ओषधीपतिः ।
इति ज्ञात्वा ब्रह्मविद ओषधीर् यः प्रदास्यति ॥ ६ ॥
सर्वान् कामान् अवाप्नोति ब्रह्मलोके महीयते ।
ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः ॥ ७ ॥
ओषध्य ऊचुः-
यो ऽस्मान् ददाति गङ्गायां तं राजन् पारयामसि ।
त्वम् उत्तमश् चौषधीश त्वदधीनं चराचरम् ॥ ८ ॥
ओषधयः संवदन्ते सोमेन सह राज्ञा ।
यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि ॥ ९ ॥
वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च ।
यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि ॥ १० ॥
अस्मान् ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः ।
उपास्तिर् अस्ति सास्माकं तं राजन् पारयामसि ॥ ११ ॥
स्थावरं जङ्गमं किञ्चिद् अस्माभिर् व्यापृतं जगत् ।
यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि ॥ १२ ॥
हव्यं कव्यं यद् अमृतं यत् किञ्चिद् उपभुज्यते ।
तद्गरीयश् च यो दद्यात् तं राजन् पारयामसि ॥ १३ ॥
इत्य् एतां वैदिकीं गाथां यः शृणोति स्मरेत वा ।
पठते भक्तिम् आपन्नस् तं राजन् पारयामसि ॥ १४ ॥
ब्रह्मोवाच-
यत्रैषा पठिता गाथा सोमेन सह राज्ञा ।
गङ्गातीरे चौषधीभिर् धान्यतीर्थं तद् उच्यते ॥ १५ ॥
ततः प्रभृति तत् तीर्थम् औषध्यं सौम्यम् एव च ।
अमृतं वेदगाथं च मातृतीर्थं तथैव च ॥ १६ ॥
एषु स्नानं जपो होमो दानं च पितृतर्पणम् ।
अन्नदानं तु यः कुर्यात् तद् आनन्त्याय कल्पते ॥ १७ ॥
षट्शताधिकसाहस्रं तीर्थानां तीरयोर् द्वयोः ।
सर्वपापनिहन्तॄणां सर्वसम्पद्विवर्धनम् ॥ १८ ॥