Summary (SA)
Chapter 119- The plants and Soma
{{Ref- SS 195-196}}
ब्रह्मोवाच-
सोमतीर्थम् इति ख्यातं तद् अप्य् उक्तं महात्मभिः ।
तत्र स्नानेन दानेन सोमपानफलं लभेत् ॥ १ ॥
जगतां मातरः पूर्वम् ओषध्यो जीवसम्मताः ।
ममापि मातरो देव्यः पूर्वासां पूर्ववत्तराः ॥ २ ॥
आसु प्रतिष्ठितो धर्मः स्वाध्यायो यज्ञकर्म च ।
आभिर् एव धृतं सर्वं त्रैलोक्यं सचराचरम् ॥ ३ ॥
अशेषरोगोपशमो भवत्य् आभिर् असंशयम् ।
अन्नम् एताभिर् एव स्याद् अशेषप्राणरक्षणम् ।
अत्रौषध्यो जगद्वन्द्या माम् ऊचुर् अनहङ्कृताः ॥ ४ ॥
ओषध्य ऊचुः-
अस्माकं त्वं पतिं देहि राजानं सुरसत्तम ॥ ५ ॥
ब्रह्मोवाच-
तच् छ्रुत्वा वचनं तासां मयोक्ता ओषधीर् इदम् ।
पतिं प्राप्स्यथ सर्वाश् च राजानं प्रीतिवर्धनम् ॥ ६ ॥
राजानम् इति तच् छ्रुत्वा ता माम् ऊचुः पुनर् मुने ।
गन्तव्यं क्व पुनश् चोक्ता गौतमीं यान्तु मातरः ॥ ७ ॥
तुष्टायाम् अथ तस्यां वो राजा स्याल् लोकपूजितः ।
ताश् च गत्वा मुनिश्रेष्ठ तुष्टुवुर् गौतमीं नदीम् ॥ ८ ॥
ओषध्य ऊचुः-
किं वाकरिष्यन् भववर्तिनो जना ।
नानाघसङ्घाभिभवाच् च दुःखिताः ।
न चागमिष्यद् भवती भुवं चेत् ।
पुण्योदके गौतमि शम्भुकान्ते ॥ ९ ॥
को वेत्ति भाग्यं नरदेहभाजां ।
महीगतानां सरिताम् अधीशे ।
एषां महापातकसङ्घहन्त्री ।
त्वम् अम्ब गङ्गे सुलभा सदैव ॥ १० ॥
न ते विभूतिं ननु वेत्ति को ऽपि ।
त्रैलोक्यवन्द्ये जगदम्ब गङ्गे ।
गौरीसमालिङ्गितविग्रहो ऽपि ।
धत्ते स्मरारिः शिरसापि यत् त्वाम् ॥ ११ ॥
नमो ऽस्तु ते मातर् अभीष्टदायिनि ।
नमो ऽस्तु ते ब्रह्ममये ऽघनाशिनि ।
नमो ऽस्तु ते विष्णुपदाब्जनिःसृते ।
नमो ऽस्तु ते शम्भुजटाविनिःसृते ॥ १२ ॥
ब्रह्मोवाच-
इत्य् एवं स्तुवताम् ईशा किं ददामीत्य् अवोचत ॥ १३ ॥
ओषध्य ऊचुः-
पतिं देहि जगन्माता राजानम् अतितेजसम् ॥ १४ ॥
ब्रह्मोवाच-
तदोवाच नदी गङ्गा ओषधीस् ता इदं वचः ॥ १५ ॥
गङ्गोवाच-
अहं चामृतरूपास्मि ओषध्यो मातरो ऽमृताः ।
तादृशं चामृतात्मानं पतिं सोमं ददामि वः ॥ १६ ॥
ब्रह्मोवाच-
देवाश् च ऋषयो वाक्यं मेनिरे सोम एव च ।
ओषध्यश् चापि तद् वाक्यं ततो जग्मुः स्वम् आलयम् ॥ १७ ॥
यत्र चापुर् महौषध्यो राजानम् अमृतात्मकम् ।
सोमं समस्तसन्तापपापसङ्घनिवारकम् ॥ १८ ॥
सोमतीर्थं तु तत् ख्यातं सोमपानफलप्रदम् ।
तत्र स्नानेन दानेन पितरः स्वर्गम् आप्नुयुः ॥ १९ ॥
य इदं शृणुयान् नित्यं पठेद् वा भक्तितः स्मरेत् ।
दीर्घम् आयुर् अवाप्नोति स पुत्री धनवान् भवेत् ॥ २० ॥