118

Summary (SA)

Chapter 118- Story of the Rākṣasas Aśvattha and Pippala

{{Ref- SS 194-195}}

ब्रह्मोवाच-

अश्वत्थतीर्थम् आख्यातं पिप्पलं च ततः परम् ।
उत्तरे मन्दतीर्थं तु तत्र व्युष्टिम् इतः शृणु ॥ १ ॥

पुरा त्व् अगस्त्यो भगवान् दक्षिणाशापतिः प्रभुः ।
देवैस् तु प्रेरितः पूर्वं विन्ध्यस्य प्रार्थनं प्रति ॥ २ ॥

स शनैर् विन्ध्यम् अभ्यागात् सहस्रमुनिभिर् वृतः ।
तम् आगत्य नगश्रेष्ठं बहुवृक्षसमाकुलम् ॥ ३ ॥

स्पर्धिनं मेरुभानुभ्यां विन्ध्यं शृङ्गशतैर् वृतम् ।
अत्युन्नतं नगं धीरो लोपामुद्रापतिर् मुनिः ॥ ४ ॥

कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पुनः ।
इदम् आह मुनिश्रेष्ठो देवकार्यार्थसिद्धये ॥ ५ ॥

अगस्त्य उवाच-

अहं यामि नगश्रेष्ठ मुनिभिस् तत्त्वदर्शिभिः ।
तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्य् अहम् ॥ ६ ॥

देहि मार्गं नगपते आतिथ्यं देहि याचते ।
यावद् आगमनं मे स्यात् स्थातव्यं तावद् एव हि ॥ ७ ॥

नान्यथा भवितव्यं ते तथेत्य् आह नगोत्तमः ।
आक्रामन् दक्षिणाम् आशां तैर् वृतो मुनिभिर् मुनिः ॥ ८ ॥

शनैः स गौतमीम् आगात् सत्त्रयागाय दीक्षितः ।
यावत् संवत्सरं सत्त्रम् अकरोद् ऋषिभिर् वृतः ॥ ९ ॥

कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ ।
अश्वत्थः पिप्पलश् चेति विख्यातौ त्रिदशालये ॥ १० ॥

अश्वत्थो ऽश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक् ।
ताव् उभाव् अन्तरं प्रेप्सू यज्ञविध्वंसनाय तु ॥ ११ ॥

कुरुतां काङ्क्षितं रूपं दानवौ पापचेतसौ ।
अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः ॥ १२ ॥

उभौ तौ ब्राह्मणान् नित्यं पीडयेतां तपोधन ।
आलभन्ते च ये ऽश्वत्थं तांस् तान् अश्नात्य् असौ तरुः ॥ १३ ॥

पिप्पलः सामगो भूत्वा शिष्यान् अश्नाति राक्षसः ।
तस्माद् अद्यापि विप्रेषु सामगो ऽतीव निष्कृपः ॥ १४ ॥

क्षीयमाणान् द्विजान् दृष्ट्वा मुनयो राक्षसाव् इमौ ।
इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरम् आश्रितम् ॥ १५ ॥

सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम् ।
गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन् ॥ १६ ॥

सौरिर् मुनिगणान् आह पूर्णे तपसि मे द्विजाः ।
राक्षसौ हन्म्य् अपूर्णे तु तपस्य् अक्षम एव हि ॥ १७ ॥

पुनः प्रोचुर् मुनिगणा दास्यामस् ते तपो महत् ।
इत्य् उक्तो ब्राह्मणैः सौरिः कृतम् इत्य् आह तान् अपि ॥ १८ ॥

सौरिर् ब्राह्मणवेषेण प्रायाद् अश्वत्थरूपिणम् ।
राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणम् अथाकरोत् ॥ १९ ॥

प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणम् एव तम् ।
नित्यवद् राक्षसः पापो भक्षयाम् आस मायया ॥ २० ॥

तस्य कायं समाविश्य चक्षुषान्त्राण्य् अपश्यत ।
दृष्टः स राक्षसः पापो मन्देन रविसूनुना ॥ २१ ॥

भस्मीभूतः क्षणेनैव गिरिर् वज्रहतो यथा ।
अश्वत्थं भस्मसात् कृत्वा अन्यं ब्राह्मणरूपिणम् ॥ २२ ॥

राक्षसं पापनिलयम् एक एव तम् अभ्यगात् ।
अधीयानो विप्र इव शिष्यरूपो विनीतवत् ॥ २३ ॥

पिप्पलः पूर्ववच् चापि भक्षयाम् आस भानुजम् ।
स भक्षितः पूर्ववच् च कुक्षाव् अन्त्राण्य् अवैक्षत ॥ २४ ॥

तेनालोकितमात्रो ऽसौ राक्षसो भस्मसाद् अभूत् ।
उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्व् अथ ॥ २५ ॥

मुनयो जातसंहर्षाः सर्व एव तपस्विनः ।
ततः प्रसन्ना ह्य् अभवन्न् ऋषयो ऽगस्त्यपूर्वकाः ॥ २६ ॥

वरान् ददुर् यथाकामं सौरये मन्दगामिने ।
स प्रीतो ब्राह्मणान् आह शनिः सूर्यसुतो बली ॥ २७ ॥

सौरिर् उवाच-

मद्द्वारे नियता ये च कुर्वन्त्य् अश्वत्थलम्भनम् ।
तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च ॥ २८ ॥

तीर्थे चाश्वत्थसञ्ज्ञे वै स्नानं कुर्वन्ति ये नराः ।
तेषां सर्वाणि कार्याणि भवेयुर् अपरो वरः ॥ २९ ॥

मन्दवारे तु ये ऽश्वत्थं प्रातर् उत्थाय मानवाः ।
आलभन्ते च तेषां वै ग्रहपीडा व्यपोहतु ॥ ३० ॥

ब्रह्मोवाच-

ततः प्रभृति तत् तीर्थम् अश्वत्थं पिप्पलं विदुः ।
तीर्थं शनैश्चरं तत्र तत्रागस्त्यं च सात्त्रिकम् ॥ ३१ ॥

याज्ञिकं चापि तत् तीर्थं सामगं तीर्थम् एव च ।
इत्याद्यष्टोत्तराण्य् आसन् सहस्राण्य् अथ षोडश ।
तेषु स्नानं च दानं च सत्त्रयागफलप्रदम् ॥ ३२ ॥