117

Summary (SA)

Chapter 117- Datta Ātreya and Śiva

{{Ref- SS 194}}

ब्रह्मोवाच-

आत्मतीर्थम् इति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ।
तस्य प्रभावं वक्ष्यामि यत्र ज्ञानेश्वरः शिवः ॥ १ ॥

दत्त इत्य् अपि विख्यातः सो ऽत्रिपुत्रो हरप्रियः ।
दुर्वाससः प्रियो भ्राता सर्वज्ञानविशारदः ।
स गत्वा पितरं प्राह विनयेन प्रणम्य च ॥ २ ॥

दत्त उवाच-

ब्रह्मज्ञानं कथं मे स्यात् कं पृच्छामि क्व यामि च ॥ ३ ॥

ब्रह्मोवाच-

तच् छ्रुत्वात्रिः पुत्रवाक्यं ध्यात्वा वचनम् अब्रवीत् ॥ ४ ॥

अत्रिर् उवाच-

गौतमीं पुत्र गच्छ त्वं तत्र स्तुहि महेश्वरम् ।
स तु प्रीतो यदैव स्यात् तदा ज्ञानम् अवाप्स्यसि ॥ ५ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा तदात्रेयो गङ्गां गत्वा शुचिर् यतः ।
कृताञ्जलिपुटो भूत्वा भक्त्या तुष्टाव शङ्करम् ॥ ६ ॥

दत्त उवाच-

संसारकूपे पतितो ऽस्मि दैवान् ।
मोहेन गुप्तो भवदुःखपङ्के ।
अज्ञाननाम्ना तमसावृतो ऽहं ।
परं न विन्दामि सुराधिनाथ ॥ ७ ॥

भिन्नस् त्रिशूलेन बलीयसाहं ।
पापेन चिन्ताक्षुरपाटितश् च ।
तप्तो ऽस्मि पञ्चेन्द्रियतीव्रतापैः ।
श्रान्तो ऽस्मि सन्तारय सोमनाथ ॥ ८ ॥

बद्धो ऽस्मि दारिद्र्यमयैश् च बन्धैर् ।
हतो ऽस्मि रोगानलतीव्रतापैः ।
क्रान्तो ऽस्म्य् अहं मृत्युभुजङ्गमेन ।
भीतो भृशं किं करवाणि शम्भो ॥ ९ ॥

भवाभवाभ्याम् अतिपीडितो ऽहं ।
तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् ।
ईदृक्षया जरया चाभिभूतः ।
पश्यावस्थां कृपया मे ऽद्य नाथ ॥ १० ॥

कामेन कोपेन च मत्सरेण ।
दम्भेन दर्पादिभिर् अप्य् अनेकैः ।
एकैकशः कष्टगतो ऽस्मि विद्धस् ।
त्वं नाथवद् वारय नाथ शत्रून् ॥ ११ ॥

कस्यापि कश्चित् पतितस्य पुंसो ।
दुःखप्रणोदी भवतीति सत्यम् ।
विना भवन्तं मम सोमनाथ ।
कुत्रापि कारुण्यवचो ऽपि नास्ति ॥ १२ ॥

तावत् स कोपो भयमोहदुःखान्य् ।
अज्ञानदारिद्र्यरुजस् तथैव ।
कामादयो मृत्युर् अपीह यावन् ।
नमः शिवायेति न वच्मि वाक्यम् ॥ १३ ॥

न मे ऽस्ति धर्मो न च मे ऽस्ति भक्तिर् ।
नाहं विवेकी करुणा कुतो मे ।
दातासि तेनाशु शरण्य चित्ते ।
निधेहि सोमेति पदं मदीये ॥ १४ ॥

याचे न चाहं सुरभूपतित्वं ।
हृत्पद्ममध्ये मम सोमनाथ ।
श्रीसोमपादाम्बुजसन्निधानं ।
याचे विचार्यैव च तत् कुरुष्व ॥ १५ ॥

यथा तवाहं विदितो ऽस्मि पापस् ।
तथापि विज्ञापनम् आशृणुष्व ।
संश्रूयते यत्र वचः शिवेति ।
तत्र स्थितिः स्यान् मम सोमनाथ ॥ १६ ॥

गौरीपते शङ्कर सोमनाथ ।
विश्वेश कारुण्यनिधे ऽखिलात्मन् ।
संस्तूयते यत्र सदेति तत्र ।
केषाम् अपि स्यात् कृतिनां निवासः ॥ १७ ॥

ब्रह्मोवाच-

इत्य् आत्रेयस्तुतिं श्रुत्वा तुतोष भगवान् हरः ।
वरदो ऽस्मीति तं प्राह योगिनं विश्वकृद् भवः ॥ १८ ॥

आत्रेय उवाच-

आत्मज्ञानं च मुक्तिं च भुक्तिं च विपुलां त्वयि ।
तीर्थस्यापि च माहात्म्यं वरो ऽयं त्रिदशार्चित ॥ १९ ॥

ब्रह्मोवाच-

एवम् अस्त्व् इति तं शम्भुर् उक्त्वा चान्तरधीयत ।
ततः प्रभृति तत् तीर्थम् आत्मतीर्थं विदुर् बुधाः ।
तत्र स्नानेन दानेन मुक्तिः स्याद् इह नारद ॥ २० ॥