116

Summary (SA)

Chapter 116- Death as slaughterer at a sacrifice of sages

{{Ref- SS 192-193}}

ब्रह्मोवाच-

महानलम् इति ख्यातं वडवानलम् उच्यते ।
महानलो यत्र देवो वडवा यत्र सा नदी ॥ १ ॥

तत् तीर्थं पुत्र वक्ष्यामि मृत्युदोषजरापहम् ।
पुरासन् नैमिषारण्ये ऋषयः सत्त्रकारिणः ॥ २ ॥

शमितारं च ऋषयो मृत्युं चक्रुस् तपस्विनः ।
वर्तमाने सत्त्रयागे मृत्यौ शमितरि स्थिते ॥ ३ ॥

न ममार तदा कश्चिद् उभयं स्थास्नु जङ्गमम् ।
विना पशून् मुनिश्रेष्ठ मर्त्यं चामर्त्यतां गतम् ॥ ४ ॥

ततस् त्रिविष्टपे शून्ये मर्त्ये चैवातिसम्भृते ।
मृत्युनोपेक्षिते देवा राक्षसान् ऊचिरे तदा ॥ ५ ॥

देवा ऊचुः-

गच्छध्वम् ऋषिसत्त्रं तन् नाशयध्वं महाध्वरम् ।

ब्रह्मोवाच-

इति देववचः श्रुत्वा प्रोचुस् ते राक्षसाः सुरान् ॥ ६ ॥

असुरा ऊचुः-

विध्वंसयामस् तं यज्ञम् अस्माकं किं फलं ततः ।
प्रवर्तते विना हेतुं न कोपि क्वापि जातुचित् ॥ ७ ॥

ब्रह्मोवाच-

देवा अप्य् असुरान् ऊचुर् यज्ञार्धं भवताम् अपि ।
भवेद् एव ततो यान्तु ऋषीणां सत्त्रम् उत्तमम् ॥ ८ ॥

ते श्रुत्वा त्वरिताः सर्वे यत्र यज्ञः प्रवर्तते ।
जग्मुस् तत्र विनाशाय देववाक्याद् विशेषतः ॥ ९ ॥

तज् ज्ञात्वा ऋषयो मृत्युम् आहुः किं कुर्महे वयम् ।
आगता देववचनाद् राक्षसा यज्ञनाशिनः ॥ १० ॥

मृत्युना सह सम्मन्त्र्य नैमिषारण्यवासिनः ।
सर्वे त्यक्त्वा स्वाश्रमं तं शमित्रा सह नारद ॥ ११ ॥

अग्निमात्रम् उपादाय त्यक्त्वा पात्रादिकं तु यत् ।
क्रतुनिष्पत्तये जग्मुर् गौतमीं प्रति सत्वराः ॥ १२ ॥

तत्र स्नात्वा महेशानं रक्षणायोपतस्थिरे ।
कृताञ्जलिपुटास् ते तु तुष्टुवुस् त्रिदशेश्वरम् ॥ १३ ॥

ऋषय ऊचुः-

यो लीलया विश्वम् इदं चकार ।
धाता विधाता भुवनत्रयस्य ।
यो विश्वरूपः सदसत्परो यः ।
सोमेश्वरं तं शरणं व्रजामः ॥ १४ ॥

मृत्युर् उवाच-

इच्छामात्रेण यः सर्वं हन्ति पाति करोति च ।
तम् अहं त्रिदशेशानं शरणं यामि शङ्करम् ॥ १५ ॥

महानलं महाकायं महानागविभूषणम् ।
महामूर्तिधरं देवं शरणं यामि शङ्करम् ॥ १६ ॥

ब्रह्मोवाच-

ततः प्रोवाच भगवान् मृत्यो का प्रीतिर् अस्तु ते ॥ १७ ॥

मृत्युर् उवाच-

राक्षसेभ्यो भयं घोरम् आपन्नं त्रिदशेश्वर ।
यज्ञम् अस्मांश् च रक्षस्व यावत् सत्त्रं समाप्यते ॥ १८ ॥

ब्रह्मोवाच-

तथा चकार भगवांस् त्रिनेत्रो वृषभध्वजः ।
शमित्रा मृत्युना सत्त्रम् ऋषीणां पूर्णतां ययौ ॥ १९ ॥

हविषां भागधेयाय आजग्मुर् अमराः क्रमात् ।
तान् अवोचन् मुनिगणाः सङ्क्षुब्धा मृत्युना सह ॥ २० ॥

ऋषय ऊचुः-

अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः ।
तस्माद् भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः ॥ २१ ॥

ब्रह्मोवाच-

ततः प्रभृति देवानां राक्षसा वैरिणो ऽभवन् ।
कृत्यां च वडवां तत्र देवाश् च ऋषयो ऽमलाः ॥ २२ ॥

मृत्योर् भार्या भव त्वं ताम् इत्य् उक्त्वा ते ऽभ्यषेचयन् ।
अभिषेकोदकं यत् तु सा नदी वडवाभवत् ॥ २३ ॥

मृत्युना स्थापितं लिङ्गं महानलम् इति श्रुतम् ।
ततः प्रभृति तत् तीर्थं वडवासङ्गमं विदुः ॥ २४ ॥

महानलो यत्र देवस् तत् तीर्थं भुक्तिमुक्तिदम् ।
सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम् ।
उभयोस् तीरयोस् तत्र स्मरणाद् अघघातिनाम् ॥ २५ ॥