115

Summary (SA)

Chapter 115- Śiva’s help to Śeṣa against the demons

{{Ref- SS 192}}

ब्रह्मोवाच-

शेषतीर्थम् इति ख्यातं सर्वकामप्रदायकम् ।
तस्य रूपं प्रवक्ष्यामि यन् मया परिभाषितम् ॥ १ ॥

शेषो नाम महानागो रसातलपतिः प्रभुः ।
सर्वनागैः परिवृतो रसातलम् अथाभ्यगात् ॥ २ ॥

राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम् ।
तैर् निरस्तो भोगिपतिर् माम् उवाचाथ विह्वलः ॥ ३ ॥

शेष उवाच-

रसातलं त्वया दत्तं राक्षसानां ममापि च ।
ते मे स्थानं न दास्यन्ति तस्मात् त्वां शरणं गतः ॥ ४ ॥

ततो ऽहम् अब्रवं नागं गौतमीं याहि पन्नग ।
तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम् ॥ ५ ॥

नान्यो ऽस्ति लोकत्रितये मनोरथसमर्पकः ।
मद्वाक्यप्रेरितो नागो गङ्गाम् आप्लुत्य यत्नतः ।
कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम् ॥ ६ ॥

शेष उवाच-

नमस् त्रैलोक्यनाथाय दक्षयज्ञविभेदिने ।
आदिकर्त्रे नमस् तुभ्यं नमस् त्रैलोक्यरूपिणे ॥ ७ ॥

नमः सहस्रशिरसे नमः संहारकारिणे ।
सोमसूर्याग्निरूपाय जलरूपाय ते नमः ॥ ८ ॥

सर्वदा सर्वरूपाय कालरूपाय ते नमः ।
पाहि शङ्कर सर्वेश पाहि सोमेश सर्वग ।
जगन्नाथ नमस् तुभ्यं देहि मे मनसेप्सितम् ॥ ९ ॥

ब्रह्मोवाच-

ततो महेश्वरः प्रीतः प्रादान् नागेप्सितान् वरान् ।
विनाशाय सुरारीणां दैत्यदानवरक्षसाम् ॥ १० ॥

शेषाय प्रददौ शूलं जह्य् अनेनारिपुङ्गवान् ।
ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः ॥ ११ ॥

रसातलम् अथो गत्वा निजघान रिपून् रणे ।
निहत्य नागः शूलेन दैत्यदानवराक्षसान् ॥ १२ ॥

न्यवर्तत पुनर् देवो यत्र शेषेश्वरो हरः ।
पथा येन समायातो देवं द्रष्टुं स नागराट् ॥ १३ ॥

रसातलाद् यत्र देवो बिलं तत्र व्यजायत ।
तस्माद् बिलतलाद् यातं गाङ्गं वार्य् अतिपुण्यदम् ॥ १४ ॥

तद् वारि गङ्गाम् अगमद् गङ्गायाः सङ्गमस् ततः ।
देवस्य पुरतश् चापि कुण्डं तत्र सुविस्तरम् ॥ १५ ॥

नागस् तत्राकरोद् धोमं यत्र चाग्निः सदा स्थितः ।
सोष्णं तद् अभवद् वारि गङ्गायास् तत्र सङ्गमः ॥ १६ ॥

देवदेवं समाराध्य नागः प्रीतो महायशाः ।
रसातलं ततो ऽभीष्टं शिवात् प्राप्य तलं ययौ ॥ १७ ॥

ततः प्रभृति तत् तीर्थं नागतीर्थम् उदाहृतम् ।
सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम् ॥ १८ ॥

आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच् च मुक्तिदम् ।
शृणुयाद् वा पठेद् भक्त्या यो वापि स्मरते तु तत् ॥ १९ ॥

तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः ।
एकविंशतितीर्थानाम् उभयोस् तत्र तीरयोः ।
शतानि मुनिशार्दूल सर्वसम्पत्प्रदायिनाम् ॥ २० ॥