Summary (SA)
Chapter 114- Gaṇeśa and the obstacle at the Sattra-rite of the gods
{{Ref- SS 191}}
ब्रह्मोवाच-
अविघ्नं तीर्थम् आख्यातं सर्वविघ्नविनाशनम् ।
तत्रापि वृत्तम् आख्यास्ये शृणु नारद भक्तितः ॥ १ ॥
देवसत्त्रे प्रवृत्ते तु गौतम्याश् चोत्तरे तटे ।
समाप्तिर् नैव सत्त्रस्य सञ्जाता विघ्नदोषतः ॥ २ ॥
ततः सुरगणाः सर्वे माम् अवोचन् हरिं तदा ।
ततो ध्यानगतो ऽहं तान् अवोचं वीक्ष्य कारणम् ॥ ३ ॥
विनायककृतैर् विघ्नैर् नैतत् सत्त्रं समाप्यते ।
तस्मात् स्तुवन्तु ते सर्वे आदिदेवं विनायकम् ॥ ४ ॥
तथेत्य् उक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे ।
अस्तुवन् भक्तितो देवा आदिदेवं गणेश्वरम् ॥ ५ ॥
देवा ऊचुः-
यः सर्वकार्येषु सदा सुराणाम् ।
अपीशविष्ण्वम्बुजसम्भवानाम् ।
पूज्यो नमस्यः परिचिन्तनीयस् ।
तं विघ्नराजं शरणं व्रजामः ॥ ६ ॥
न विघ्नराजेन समो ऽस्ति कश्चिद् ।
देवो मनोवाञ्छितसम्प्रदाता ।
निश्चित्य चैतत् त्रिपुरान्तको ऽपि ।
तं पूजयाम् आस वधे पुराणाम् ॥ ७ ॥
करोतु सो ऽस्माकम् अविघ्नम् अस्मिन् ।
महाक्रतौ सत्वरम् आम्बिकेयः ।
ध्यातेन येनाखिलदेहभाजां ।
पूर्णा भविष्यन्ति मनोभिलाषाः ॥ ८ ॥
महोत्सवो ऽभूद् अखिलस्य देव्या ।
जातः सुतश् चिन्तितमात्र एव ।
अतो ऽवदन् सुरसङ्घाः कृतार्थाः ।
सद्योजातं विघ्नराजं नमन्तः ॥ ९ ॥
यो मातुर् उत्सङ्गगतो ऽथ मात्रा ।
निवार्यमाणो ऽपि बलाच् च चन्द्रम् ।
सङ्गोपयाम् आस पितुर् जटासु ।
गणाधिनाथस्य विनोद एषः ॥ १० ॥
पपौ स्तनं मातुर् अथापि तृप्तो ।
यो भ्रातृमात्सर्यकषायबुद्धिः ।
लम्बोदरस् त्वं भव विघ्नराजो ।
लम्बोदरं नाम चकार शम्भुः ॥ ११ ॥
संवेष्टितो देवगणैर् महेशः ।
प्रवर्ततां नृत्यम् इतीत्य् उवाच ।
सन्तोषितो नूपुररावमात्राद् ।
गणेश्वरत्वे ऽभिषिषेच पुत्रम् ॥ १२ ॥
यो विघ्नपाशं च करेण बिभ्रत् ।
स्कन्धे कुठारं च तथा परेण ।
अपूजितो विघ्नम् अथो ऽपि मातुः ।
करोति को विघ्नपतेः समो ऽन्यः ॥ १३ ॥
धर्मार्थकामादिषु पूर्वपूज्यो ।
देवासुरैः पूज्यत एव नित्यम् ।
यस्यार्चनं नैव विनाशम् अस्ति ।
तं पूर्वपूज्यं प्रथमं नमामि ॥ १४ ॥
यस्यार्चनात् प्रार्थनयानुरूपां ।
दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् ।
स्वतन्त्रसामर्थ्यकृतातिगर्वं ।
भ्रातृप्रियं त्व् आखुरथं तम् ईडे ॥ १५ ॥
यो मातरं सरसैर् नृत्यगीतैस् ।
तथाभिलाषैर् अखिलैर् विनोदैः ।
सन्तोषयाम् आस तदातितुष्टं ।
तं श्रीगणेशं शरणं प्रपद्ये ॥ १६ ॥
सुरोपकारैर् असुरैश् च युद्धैः ।
स्तोत्रैर् नमस्कारपरैश् च मन्त्रैः ।
पितृप्रसादेन सदा समृद्धं ।
तं श्रीगणेशं शरणं प्रपद्ये ॥ १७ ॥
जये पुराणाम् अकरोत् प्रतीपं ।
पित्रापि हर्षात् प्रतिपूजितो यः ।
निर्विघ्नतां चापि पुनश् चकार ।
तस्मै गणेशाय नमस्करोमि ॥ १८ ॥
ब्रह्मोवाच-
इति स्तुतः सुरगणैर् विघ्नेशः प्राह तान् पुनः ॥ १९ ॥
गणेश उवाच-
इतो निर्विघ्नता सत्त्रे मत्तः स्याद् असुरारिणः ॥ २० ॥
ब्रह्मोवाच-
देवसत्त्रे निवृत्ते तु गणेशः प्राह तान् सुरान् ॥ २१ ॥
गणेश उवाच-
स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः ।
तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन ॥ २२ ॥
अत्र ये भक्तितः स्नानं दानं कुर्युर् अतन्द्रिताः ।
तेषां सर्वाणि कार्याणि भवेयुर् इति मन्यताम् ॥ २३ ॥
ब्रह्मोवाच-
तद्वाक्यसमकालं तु तथेत्य् ऊचुः सुरा अपि ।
निवृत्ते तु मखे तस्मिन् सुरा जग्मुः स्वम् आलयम् ॥ २४ ॥
ततः प्रभृति तत् तीर्थम् अविघ्नम् इति गद्यते ।
सर्वकामप्रदं पुंसां सर्वविघ्नविनाशनम् ॥ २५ ॥