113

Summary (SA)

Chapter 113- The treacherous fifth head of Brahman

{{Ref- SS 190-191}}

ब्रह्मोवाच-

इदम् अप्य् अपरं तीर्थं देवानाम् अपि दुर्लभम् ।
ब्रह्मतीर्थम् इति ख्यातं भुक्तिमुक्तिप्रदं नृणाम् ॥ १ ॥

स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम् ।
दैत्येषु च मुनिश्रेष्ठ तथा मातृषु तान् अनु ॥ २ ॥

मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम् ।
तद् वक्त्रं देवसैन्येषु मयि तिष्ठत्य् उवाच ह ॥ ३ ॥

हे दैत्याः किं पलायन्ते न भयं वो ऽस्तु सत्वरम् ।
आगच्छन्तु सुरान् सर्वान् भक्षयिष्ये क्षणाद् इति ॥ ४ ॥

निवारयन्तं माम् एवं भक्षणायोद्यतं तथा ।
तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुम् अब्रुवन् ॥ ५ ॥

त्राहि विष्णो जगन्नाथ ब्रह्मणो ऽस्य मुखं लुन ।
चक्रधृग् विबुधान् आह च्छेद्मि चक्रेण वै शिरः ॥ ६ ॥

किं तु तच् छिन्नम् एवेदं संहरेत् सचराचरम् ।
मन्त्रं ब्रूमो ऽत्र विबुधाः श्रूयतां सर्वम् एव हि ॥ ७ ॥

त्रिनेत्रः कशिरश् छेत्ता स च धत्ते न संशयः ।
मया च शम्भुः सर्वैश् च स्तुतः प्रोक्तस् तथैव च ॥ ८ ॥

यागः क्षणी दृष्टफले ऽसमर्थः ।
स नैव कर्तुः फलतीति मत्वा ।
फलस्य दाने प्रतिभूर् जटीति ।
निश्चित्य लोकः प्रतिकर्म यातः ॥ ९ ॥

ततः सुरेशः सन्तुष्टो देवानां कार्यसिद्धये ।
लोकानाम् उपकारार्थं तथेत्य् आह सुरान् प्रति ॥ १० ॥

तद्वक्त्रं पापरूपं यद् भीषणं लोमहर्षणम् ।
निकृत्य नखशस्त्रैश् च क्व स्थाप्यं चेत्य् अथाब्रवीत् ॥ ११ ॥

तत्रेला विबुधान् आह नाहं वोढुं शिरः क्षमा ।
रसातलम् अथो यास्ये उदधिश् चाप्य् अथाब्रवीत् ॥ १२ ॥

शोषं यास्ये क्षणाद् एव पुनश् चोचुः शिवं सुराः ।
त्वयैवैतद् ब्रह्मशिरो धार्यं लोकानुकम्पया ॥ १३ ॥

अच्छेदे जगतां नाशश् छेदे दोषश् च तादृशः ।
एवं विमृश्य सोमेशो दधार कशिरस् तदा ॥ १४ ॥

तद् दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम् ।
अस्तुवञ् जगताम् ईशं प्रणयाद् भक्तितः सुराः ॥ १५ ॥

देवेष्व् अमित्रं कशिरो ऽतिभीमं ।
तान् भक्षणायोपगतं निकृत्य ।
नखाग्रसूच्या शकलेन्दुमौलिस् ।
त्यागे ऽपि दोषात् कृपयानुधत्ते ॥ १६ ॥

तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणो ऽन्तिके ।
तुष्टुवुर् विबुधेशानं कर्म दृष्ट्वातिदैवतम् ॥ १७ ॥

ततः प्रभृति तत् तीर्थं ब्रह्मतीर्थम् इति श्रुतम् ।
अद्यापि ब्रह्मणो रूपं चतुर्मुखम् अवस्थितम् ॥ १८ ॥

शिरोमात्रं तु यः पश्येत् स गच्छेद् ब्रह्मणः पदम् ।
यत्र स्थित्वा स्वयं रुद्रो लूनवान् ब्रह्मणः शिरः ॥ १९ ॥

रुद्रतीर्थं तद् एव स्यात् तत्र साक्षाद् दिवाकरः ।
देवानां च स्वरूपेण स्थितो यस्मात् तद् उत्तमम् ॥ २० ॥

सौर्यं तीर्थं तद् आख्यातं सर्वक्रतुफलप्रदम् ।
तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते ॥ २१ ॥

महादेवेन यच् छिन्नं ब्रह्मणः पञ्चमं शिरः ।
क्षेत्रे ऽविमुक्ते संस्थाप्य देवतानां हितं कृतम् ॥ २२ ॥

ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमीतटे ।
क्षेत्रे ऽविमुक्ते तस्यैव स्थापितं यो ऽनुपश्यति ।
कपालं ब्रह्मणः पुण्यं ब्रह्महा पूततां व्रजेत् ॥ २३ ॥