112

Summary (SA)

Chapter 112- Śiva and the Mothers fighting against the demons

{{Ref- SS 189-190}}

ब्रह्मोवाच-

मातृतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् ।
आधिभिर् मुच्यते जन्तुस् तत्तीर्थस्मरणाद् अपि ॥ १ ॥

देवानाम् असुराणां च सङ्गरो ऽभूत् सुदारुणः ।
नाशक्नुवंस् तदा जेतुं देवा दानवसङ्गरम् ॥ २ ॥

तदाहम् अगमं देवैस् तिष्ठन्तं शूलपाणिनम् ।
अस्तवं विविधैर् वाक्यैः कृताञ्जलिपुटः शनैः ॥ ३ ॥

सम्मन्त्र्य देवैर् असुरैश् च सर्वैर् ।
यदाहृतं सम्मथितुं समुद्रम् ।
यत् कालकूटं समभून् महेश ।
तत् त्वां विना को ग्रसितुं समर्थः ॥ ४ ॥

पुष्पप्रहारेण जगत्त्रयं यः ।
स्वाधीनम् आपादयितुं समर्थः ।
मारो हरे ऽप्य् अन्यसुरादिवन्द्यो ।
वितायमानो विलयं प्रयातः ॥ ५ ॥

विमथ्य वारीशम् अनङ्गशत्रो ।
यद् उत्तमं तत् तु दिवौकसेभ्यः ।
दत्त्वा विषं संहरन् नीलकण्ठ ।
को वा धर्तुं त्वाम् ऋते वै समर्थः ॥ ६ ॥

ततश् च तुष्टो भगवान् आदिकर्ता त्रिलोचनः ॥ ७ ॥

शिव उवाच-

दास्ये ऽहं यद् अभीष्टं वो ब्रुवन्तु सुरसत्तमाः ॥ ८ ॥

देवा ऊचुः-

दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज ।
जहि शत्रून् सुरान् पाहि नाथवन्तस् त्वया प्रभो ॥ ९ ॥

निष्कारणः सुहृच् छम्भो नाभविष्यद् भवान् यदि ।
तदाकरिष्यन् किम् इव दुःखार्ताः सर्वदेहिनः ॥ १० ॥

ब्रह्मोवाच-

इत्य् उक्तस् तत्क्षणात् प्रायाद् यत्र ते देवशत्रवः ।
तत्र तद् युद्धम् अभवच् छङ्करेण सुरद्विषाम् ॥ ११ ॥

ततस् त्रिलोचनः श्रान्तस् तमोरूपधरः शिवः ।
ललाटाद् व्यपतंस् तस्य युध्यतः स्वेदबिन्दवः ॥ १२ ॥

स संहरन् दैत्यगणांस् तामसीं मूर्तिम् आश्रितः ।
तां मूर्तिम् असुरा दृष्ट्वा मेरुपृष्ठाद् भुवं ययुः ॥ १३ ॥

स संहरन् सर्वदैत्यांस् तदागच्छद् भुवं हरः ।
इतश् चेतश् च भीतास् ते ऽधावन् सर्वां महीम् इमाम् ॥ १४ ॥

तथैव कोपाद् रुद्रो ऽपि शत्रूंस् तान् अनुधावति ।
तथैव युध्यतः शम्भोः पतिताः स्वेदबिन्दवः ॥ १५ ॥

यत्र यत्र भुवं प्राप्तो बिन्दुर् माहेश्वरो मुने ।
तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः ॥ १६ ॥

प्रोचुर् महेश्वरं सर्वाः खादामस् त्व् असुरान् इति ।
ततः प्रोवाच भगवान् सर्वैः सुरगणैर् वृतः ॥ १७ ॥

शिव उवाच-

स्वर्गाद् भुवम् अनुप्राप्ता राक्षसास् ते रसातलम् ।
अनुप्राप्तास् ततः सर्वाः शृण्वन्तु मम भाषितम् ॥ १८ ॥

यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः ।
रसातलम् अनुप्राप्ता इदानीं मद्भयाद् द्विषः ।
भवत्यो ऽप्य् अनुगच्छन्तु रसातलम् अनु द्विषः ॥ १९ ॥

ब्रह्मोवाच-

ताश् च जग्मुर् भुवं भित्त्वा यत्र ते दैत्यदानवाः ।
तान् हत्वा मातरः सर्वान् देवारीन् अतिभीषणान् ॥ २० ॥

पुनर् देवान् उपाजग्मुः पथा तेनैव मातरः ।
गताश् च मातरो यावद् यावच् च पुनर् आगताः ॥ २१ ॥

तावद् देवाः स्थिता आसन् गौतमीतीरम् आश्रिताः ।
प्रस्थानात् तत्र मातॄणां सुराणां च प्रतिष्ठितेः ॥ २२ ॥

प्रतिष्ठानं तु तत् क्षेत्रं पुण्यं विजयवर्धनम् ।
मातॄणां यत्र चोत्पत्तिर् मातृतीर्थं पृथक् पृथक् ॥ २३ ॥

तत्र तत्र बिलान्य् आसन् रसातलगतानि च ।
सुरास् ताभ्यो वरान् प्रोचुर् लोके पूजां यथा शिवः ॥ २४ ॥

प्राप्नोति तद्वन् मातृभ्यः पूजा भवतु सर्वदा ।
इत्य् उक्त्वान्तर्दधुर् देवा आसंस् तत्रैव मातरः ॥ २५ ॥

यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः ।
सुराणाम् अपि सेव्यानि किं पुनर् मानुषादिभिः ॥ २६ ॥

तेषु स्नानम् अथो दानं पितॄणां चैव तर्पणम् ।
सर्वं तद् अक्षयं ज्ञेयं शिवस्य वचनं यथा ॥ २७ ॥

यस् त्व् इदं शृणुयान् नित्यं स्मरेद् अपि पठेत् तथा ।
आख्यानं मातृतीर्थानाम् आयुष्मान् स सुखी भवेत् ॥ २८ ॥