Summary (SA)
Chapter 111- The Prince as Serpent
{{Ref- SS 187-189}}
ब्रह्मोवाच-
नागतीर्थम् इति ख्यातं सर्वकामप्रदं शुभम् ।
यत्र नागेश्वरो देवः शृणु तस्यापि विस्तरम् ॥ १ ॥
प्रतिष्ठानपुरे राजा शूरसेन इति श्रुतः ।
सोमवंशभवः श्रीमान् मतिमान् गुणसागरः ॥ २ ॥
पुत्रार्थं स महायत्नम् अकरोत् प्रियया सह ।
तस्य पुत्रश् चिराद् आसीत् सर्पो वै भीषणाकृतिः ॥ ३ ॥
पुत्रं तं गोपयाम् आस शूरसेनो महीपतिः ।
राज्ञः पुत्रः सर्प इति न कश्चिद् विन्दते जनः ॥ ४ ॥
अन्तर्वर्ती परो वापि मातरं पितरं विना ।
धात्रेय्य् अपि न जानाति नामात्यो न पुरोहितः ॥ ५ ॥
तं दृष्ट्वा भीषणं सर्पं सभार्यो नृपसत्तमः ।
सन्तापं नित्यम् आप्नोति सर्पाद् वरम् अपुत्रता ॥ ६ ॥
एतद् अस्ति महासर्पो वक्ति नित्यं मनुष्यवत् ।
स सर्पः पितरं प्राह कुरु चूडाम् अपि क्रियाम् ॥ ७ ॥
तथोपनयनं चापि वेदाध्ययनम् एव च ।
यावद् वेदं न चाधीते तावच् छूद्रसमो द्विजः ॥ ८ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा पुत्रवचः शूरसेनो ऽतिदुःखितः ।
ब्राह्मणं कञ्चनानीय संस्कारादि तदाकरोत् ।
अधीतवेदः सर्पो ऽपि पितरं चाब्रवीद् इदम् ॥ ९ ॥
सर्प उवाच-
विवाहं कुरु मे राजन् स्त्रीकामो ऽहं नृपोत्तम ।
अन्यथापि च कृत्यं ते न सिध्येद् इति मे मतिः ॥ १० ॥
जनयित्वात्मजान् वेदविधिनाखिलसंस्कृतीः ।
न कुर्याद् यः पिता तस्य नरकान् नास्ति निष्कृतिः ॥ ११ ॥
ब्रह्मोवाच-
विस्मितः स पिता प्राह सुतं तम् उरगाकृतिम् ॥ १२ ॥
शूरसेन उवाच-
यस्य शब्दाद् अपि त्रासं यान्ति शूराश् च पूरुषाः ।
तस्मै कन्यां तु को दद्याद् वद पुत्र करोमि किम् ॥ १३ ॥
ब्रह्मोवाच-
तत् पितुर् वचनं श्रुत्वा सर्पः प्राह विचक्षणः ॥ १४ ॥
सर्प उवाच-
विवाहा बहवो राजन् राज्ञां सन्ति जनेश्वर ।
प्रसह्याहरणं चापि शस्त्रैर् वैवाह एव च ॥ १५ ॥
जाते विवाहे पुत्रस्य पितासौ कृतकृद् भवेत् ।
नो चेद् अत्रैव गङ्गायां मरिष्ये नात्र संशयः ॥ १६ ॥
ब्रह्मोवाच-
तत् पुत्रनिश्चयं ज्ञात्वा अपुत्रो नृपसत्तमः ।
विवाहार्थम् अमात्यांस् तान् आहूयेदं वचो ऽब्रवीत् ॥ १७ ॥
शूरसेन उवाच-
नागेश्वरो मम सुतो युवराजो गुणाकरः ।
गुणवान् मतिमाञ् शूरो दुर्जयः शत्रुतापनः ॥ १८ ॥
रथे नागे स धनुषि पृथिव्यां नोपमीयते ।
विवाहस् तस्य कर्तव्यो ह्य् अहं वृद्धस् तथैव च ॥ १९ ॥
राज्यभारं सुते न्यस्य निश्चिन्तो ऽहं भवाम्य् अतः ।
न दारसङ्ग्रहो यावत् तावत् पुत्रो मम प्रियः ॥ २० ॥
बालभावं नो जहाति तस्मात् सर्वे ऽनुमन्य च ।
विवाहायाथ कुर्वन्तु यत्नं मम हिते रताः ॥ २१ ॥
न मे काचित् तदा चिन्ता कृतोद्वाहो यदात्मजः ।
सुते न्यस्तभरा यान्ति कृतिनस् तपसे वनम् ॥ २२ ॥
ब्रह्मोवाच-
अमात्या राजवचनं श्रुत्वा सर्वे विनीतवत् ।
ऊचुः प्राञ्जलयो हर्षाद् राजानं भूरितेजसम् ॥ २३ ॥
अमात्या ऊचुः-
तव पुत्रो गुणज्येष्ठस् त्वं च सर्वत्र विश्रुतः ।
विवाहे तव पुत्रस्य किं मन्त्र्यं किं तु चिन्त्यते ॥ २४ ॥
ब्रह्मोवाच-
अमात्येषु तथोक्तेषु गम्भीरो नृपसत्तमः ।
पुत्रं सर्पं त्व् अमात्यानां न चाख्याति न ते विदुः ॥ २५ ॥
राजा पुनस् तान् उवाच का स्यात् कन्या गुणाधिका ।
महावंशभवः श्रीमान् को राजा स्याद् गुणाश्रयः ॥ २६ ॥
सम्बन्धयोग्यः शूरश् च यत्सम्बन्धः प्रशस्यते ।
तद् राजवचनं श्रुत्वा अमात्यानां महामतिः ॥ २७ ॥
कुलीनः साधुर् अत्यन्तं राजकार्यहिते रतः ।
राज्ञो मतिं विदित्वा तु इङ्गितज्ञो ऽब्रवीद् इदम् ॥ २८ ॥
अमात्य उवाच-
पूर्वदेशे महाराज विजयो नाम भूपतिः ।
वाजिवारणरत्नानां यस्य सङ्ख्या न विद्यते ॥ २९ ॥
अष्टौ पुत्रा महेष्वासा महाराजस्य धीमतः ।
तेषां स्वसा भोगवती साक्षाल् लक्ष्मीर् इवापरा ।
तव पुत्रस्य योग्या सा भार्या राजन् मयोदिता ॥ ३० ॥
ब्रह्मोवाच-
वृद्धामात्यवचः श्रुत्वा राजा तं प्रत्यभाषत ॥ ३१ ॥
राजोवाच-
सुता तस्य कथं मे ऽस्य सुतस्य स्याद् वदस्व तत् ॥ ३२ ॥
वृद्धामात्य उवाच-
लक्षितो ऽसि महाराज यत् ते मनसि वर्तते ।
यच् छूरसेन कृत्यं स्याद् अनुजानीहि मां ततः ॥ ३३ ॥
ब्रह्मोवाच-
वृद्धामात्यवचः श्रुत्वा भूषणाच्छादनोक्तिभिः ।
सम्पूज्य प्रेषयाम् आस महत्या सेनया सह ॥ ३४ ॥
स पूर्वदेशम् आगत्य महाराजं समेत्य च ।
सम्पूज्य विविधैर् वाक्यैर् उपायैर् नीतिसम्भवैः ॥ ३५ ॥
महाराजसुतायाश् च भोगवत्या महामतिः ।
शूरसेनस्य नृपतेः सूनोर् नागस्य धीमतः ॥ ३६ ॥
विवाहायाकरोत् सन्धिं मिथ्यामिथ्यावचोउक्तिभिः ।
पूजयाम् आस नृपतिं भूषणाच्छादनादिभिः ॥ ३७ ॥
अवाप्य पूजां नृपतिर् ददामीत्य् अवदत् तदा ।
तत आगत्य राज्ञे ऽसौ वृद्धामात्यो महामतिः ॥ ३८ ॥
शूरसेनाय तद् वृत्तं वैवाहिकम् अवेदयत् ।
ततो बहुतिथे काले वृद्धामात्यो महामतिः ॥ ३९ ॥
पुनर् बलेन महता वस्त्रालङ्कारभूषितः ।
जगाम तरसा सर्वैर् अन्यैश् च सचिवैर् वृतः ॥ ४० ॥
विवाहाय महामात्यो महाराजाय बुद्धिमान् ।
सर्वं प्रोवाच वृद्धो ऽसाव् अमात्यः सचिवैर् वृतः ॥ ४१ ॥
वृद्धामात्य उवाच-
अत्रागन्तुं न चायाति शूरसेनस्य भूपतेः ।
पुत्रो नाग इति ख्यातो बुद्धिमान् गुणसागरः ॥ ४२ ॥
क्षत्रियाणां विवाहाश् च भवेयुर् बहुधा नृप ।
तस्माच् छस्त्रैर् अलङ्कारैर् विवाहः स्यान् महामते ॥ ४३ ॥
क्षत्रिया ब्राह्मणाश् चैव सत्यां वाचं वदन्ति हि ।
तस्माच् छस्त्रैर् अलङ्कारैर् विवाहस् त्व् अनुमन्यताम् ॥ ४४ ॥
ब्रह्मोवाच-
वृद्धामात्यवचः श्रुत्वा विजयो राजसत्तमः ।
मेने वाक्यं तथा सत्यम् अमात्यं भूपतिं तदा ॥ ४५ ॥
विवाहम् अकरोद् राजा भोगवत्याः सविस्तरम् ।
शस्त्रेण च यथाशास्त्रं प्रेषयाम् आस तां पुनः ॥ ४६ ॥
स्वान् अमात्यांस् तथा गाश् च हिरण्यतुरगादिकम् ।
बहु दत्त्वाथ विजयो हर्षेण महता युतः ॥ ४७ ॥
ताम् आदायाथ सचिवा वृद्धामात्यपुरोगमाः ।
प्रतिष्ठानम् अथाभ्येत्य शूरसेनाय तां स्नुषाम् ॥ ४८ ॥
न्यवेदयंस् तथोचुस् ते विजयस्य वचो बहु ।
भूषणानि विचित्राणि दास्यो वस्त्रादिकं च यत् ॥ ४९ ॥
निवेद्य शूरसेनाय कृतकृत्या बभूविरे ।
विजयस्य तु ये ऽमात्या भोगवत्या सहागताः ॥ ५० ॥
तान् पूजयित्वा राजासौ बहुमानपुरःसरम् ।
विजयाय यथा प्रीतिस् तथा कृत्वा व्यसर्जयत् ॥ ५१ ॥
विजयस्य सुता बाला रूपयौवनशालिनी ।
श्वश्रूश्वशुरयोर् नित्यं शुश्रूषन्ती सुमध्यमा ॥ ५२ ॥
भोगवत्याश् च यो भर्ता महासर्पो ऽतिभीषणः ।
एकान्तदेशे विजने गृहे रत्नसुशोभिते ॥ ५३ ॥
सुगन्धकुसुमाकीर्णे तत्रास्ते सुखशीतले ।
स सर्पो मातरं प्राह पितरं च पुनः पुनः ॥ ५४ ॥
मम भार्या राजपुत्री किं मां नैवोपसर्पति ।
तत् पुत्रवचनं श्रुत्वा सर्पमातेदम् अब्रवीत् ॥ ५५ ॥
राजपत्न्य् उवाच-
धात्रिके गच्छ सुभगे शीघ्रं भोगवतीं वद ।
तव भर्ता सर्प इति ततः सा किं वदिष्यति ॥ ५६ ॥
ब्रह्मोवाच-
धात्रिका च तथेत्य् उक्त्वा गत्वा भोगवतीं तदा ।
रहोगता उवाचेदं विनीतवद् अपूर्ववत् ॥ ५७ ॥
धात्रिकोवाच-
जाने ऽहं सुभगे भद्रे भर्तारं तव दैवतम् ।
न चाख्येयं त्वया क्वापि सर्पो न पुरुषो ध्रुवम् ॥ ५८ ॥
ब्रह्मोवाच-
तस्यास् तद् वचनं श्रुत्वा भोगवत्य् अब्रवीद् इदम् ॥ ५९ ॥
भोगवत्य् उवाच-
मानुषीणां मनुष्यो हि भर्ता सामान्यतो भवेत् ।
किं पुनर् देवजातिस् तु भर्ता पुण्येन लभ्यते ॥ ६० ॥
ब्रह्मोवाच-
भोगवत्यास् तु तद् वाक्यं सा च सर्वं न्यवेदयत् ।
सर्पाय सर्पमात्रे च राज्ञे चैव यथाक्रमम् ॥ ६१ ॥
रुरोद राजा तद्वाक्यात् स्मृत्वा तां कर्मणो गतिम् ।
भोगवत्य् अपि तां प्राह उक्तपूर्वां पुनः सखीम् ॥ ६२ ॥
भोगवत्य् उवाच-
कान्तं दर्शय भद्रं ते वृथा याति वयो मम ॥ ६३ ॥
ब्रह्मोवाच-
ततः सा दर्शयाम् आस सर्पं तम् अतिभीषणम् ।
सुगन्धकुसुमाकीर्णे शयने सा रहोगता ॥ ६४ ॥
तं दृष्ट्वा भीषणं सर्पं भर्तारं रत्नभूषितम् ।
कृताञ्जलिपुटा वाक्यम् अवदत् कान्तम् अञ्जसा ॥ ६५ ॥
भोगवत्य् उवाच-
धन्यास्म्य् अनुगृहीतास्मि यस्या मे दैवतं पतिः ॥ ६६ ॥
ब्रह्मोवाच-
इत्य् उक्त्वा शयने स्थित्वा तं सर्पं सर्पभावनैः ।
खेलयाम् आस तन्वङ्गी गीतैश् चैवाङ्गसङ्गमैः ॥ ६७ ॥
सुगन्धकुसुमैः पानैस् तोषयाम् आस तं पतिम् ।
तस्याश् चैव प्रसादेन सर्पस्याभूत् स्मृतिर् मुने ।
स्मृत्वा सर्वं दैवकृतं रात्रौ सर्पो ऽब्रवीत् प्रियाम् ॥ ६८ ॥
सर्प उवाच-
राजकन्यापि मां दृष्ट्वा न भीतासि कथं प्रिये ।
सोवाच दैवविहितं को ऽतिक्रमितुम् ईश्वरः ।
पतिर् एव गतिः स्त्रीणां सर्वदैव विशेषतः ॥ ६९ ॥
ब्रह्मोवाच-
श्रुत्वेति हृष्टस् ताम् आह नागः प्रहसिताननः ॥ ७० ॥
सर्प उवाच-
तुष्टो ऽस्मि तव भक्त्याहं किं ददामि तवेप्सितम् ।
तव प्रसादाच् चार्वङ्गि सर्वस्मृतिर् अभूद् इयम् ॥ ७१ ॥
शप्तो ऽहं देवदेवेन कुपितेन पिनाकिना ।
महेश्वरकरे नागः शेषपुत्रो महाबलः ॥ ७२ ॥
सो ऽहं पतिस् त्वं च भार्या नाम्ना भोगवती पुरा ।
उमावाक्याज् जहासोच्चैः शम्भुः प्रीतो रहोगतः ॥ ७३ ॥
ममापि चागतं भद्रे हास्यं तद्देवसन्निधौ ।
ततस् तु कुपितः शम्भुः प्रादाच् छापं ममेदृशम् ॥ ७४ ॥
शिव उवाच-
मनुष्ययोनौ त्वं सर्पो भविता ज्ञानवान् इति ॥ ७५ ॥
सर्प उवाच-
ततः प्रसादितः शम्भुस् त्वया भद्रे मया सह ।
ततश् चोक्तं तेन भद्रे गौतम्यां मम पूजनम् ॥ ७६ ॥
कुर्वतो ज्ञानम् आधास्ये यदा सर्पाकृतेस् तव ।
तदा विशापो भविता भोगवत्याः प्रसादतः ॥ ७७ ॥
तस्माद् इदं ममापन्नं तव चापि शुभानने ।
तस्मान् नीत्वा गौतमीं मां पूजां कुरु मया सह ॥ ७८ ॥
ततो विशापो भविता आवां यावः शिवं पुनः ।
सर्वेषां सर्वदार्तानां शिव एव परा गतिः ॥ ७९ ॥
ब्रह्मोवाच-
तच् छ्रुत्वा भर्तृवचनं सा भर्त्रा गौतमीं ययौ ।
ततः स्नात्वा तु गौतम्यां पूजां चक्रे शिवस्य तु ॥ ८० ॥
ततः प्रसन्नो भगवान् दिव्यरूपं ददौ मुने ।
आपृच्छ्य पितरौ सर्पो भार्यया गन्तुम् उद्यतः ।
शिवलोकं ततो ज्ञात्वा पिता प्राह महामतिः ॥ ८१ ॥
पितोवाच-
युवराज्यधरो ज्येष्ठः पुत्र एको भवान् इति ।
तस्माद् राज्यम् अशेषेण कृत्वोत्पाद्य सुतान् बहून् ।
याते मयि परं धाम ततो याहि शिवं पुरम् ॥ ८२ ॥
ब्रह्मोवाच-
एतच् छ्रुत्वा पितृवचस् तथेत्य् आह स नागराट् ।
कामरूपम् अवाप्याथ भार्यया सह सुव्रतः ॥ ८३ ॥
पित्रा मात्रा तथा पुत्रै राज्यं कृत्वा सुविस्तरम् ।
याते पितरि स्वर्लोकं पुत्रान् स्थाप्य स्वके पदे ॥ ८४ ॥
भार्यामात्यादिसहितस् ततः शिवपुरं ययौ ।
ततः प्रभृति तत् तीर्थं नागतीर्थम् इति श्रुतम् ॥ ८५ ॥
यत्र नागेश्वरो देवो भोगवत्या प्रतिष्ठितः ।
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ८६ ॥