110

Summary (SA)

Chapter 110- Story of Dadhīci and his son Pippalāda

{{Ref- SS 181-187}}

ब्रह्मोवाच-

पिप्पलं तीर्थम् आख्यातं चक्रतीर्थाद् अनन्तरम् ।
यत्र चक्रेश्वरो देवश् चक्रम् आप यतो हरिः ॥ १ ॥

यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शङ्करं विभुम् ।
पूजयाम् आस तत् तीर्थं चक्रतीर्थम् उदाहृतम् ॥ २ ॥

यत्र प्रीतो ऽभवद् विष्णोः शम्भुस् तत् पिप्पलं विदुः ।
महिमानं यस्य वक्तुं न क्षमो ऽप्य् अहिनायकः ॥ ३ ॥

चक्रेश्वरो पिप्पलेशो नामधेयस्य कारणम् ।
शृणु नारद तद् भक्त्या साक्षाद् वेदोदितं मया ॥ ४ ॥

दधीचिर् इति विख्यातो मुनिर् आसीद् गुणान्वितः ।
तस्य भार्या महाप्राज्ञा कुलीना च पतिव्रता ॥ ५ ॥

लोपामुद्रेति या ख्याता स्वसा तस्या गभस्तिनी ।
इति नाम्ना च विख्याता वडवेति प्रकीर्तिता ॥ ६ ॥

दधीचेः सा प्रिया नित्यं तपस् तेपे तया महत् ।
दधीचिर् अग्निमान् नित्यं गृहधर्मपरायणः ॥ ७ ॥

भागीरथीं समाश्रित्य देवातिथिपरायणः ।
स्वकलत्ररतः शान्तः कुम्भयोनिर् इवापरः ॥ ८ ॥

तस्य प्रभावात् तं देशं नारयो दैत्यदानवाः ।
आजग्मुर् मुनिशार्दूल यत्रागस्त्यस्य चाश्रमः ॥ ९ ॥

तत्र देवाः समाजग्मू रुद्रादित्यास् तथाश्विनौ ।
इन्द्रो विष्णुर् यमो ऽग्निश् च जित्वा दैत्यान् उपागतान् ॥ १० ॥

जयेन जातसंहर्षाः स्तुताश् चैव मरुद्गणैः ।
दधीचिं मुनिशार्दूलं दृष्ट्वा नेमुः सुरेश्वराः ॥ ११ ॥

दधीचिर् जातसंहर्षः सुरान् पूज्य पृथक् पृथक् ।
गृहकृत्यं ततश् चक्रे सुरेभ्यो भार्यया सह ॥ १२ ॥

पृष्टाश् च कुशलं तेन कथाश् चक्रुः सुरा अपि ।
दधीचिम् अब्रुवन् देवा भार्यया सुखितं पुनः ॥ १३ ॥

आसीनं हृष्टमनस ऋषिं नत्वा पुनः पुनः ॥ १४ ॥

देवा ऊचुः-

किम् अद्य दुर्लभं लोके ऋषे ऽस्माकं भविष्यति ।
त्वादृशः सकृपो येषु मुनिर् भूकल्पपादपः ॥ १५ ॥

एतद् एव फलं पुंसां जीवतां मुनिसत्तम ।
तीर्थाप्लुतिर् भूतदया दर्शनं च भवादृशाम् ॥ १६ ॥

यत् स्नेहाद् उच्यते ऽस्माभिर् अवधारय तन् मुने ।
जित्वा दैत्यान् इह प्राप्ता हत्वा राक्षसपुङ्गवान् ॥ १७ ॥

वयं च सुखिनो ब्रह्मंस् त्वयि दृष्टे विशेषतः ।
नायुधैः फलम् अस्माकं वोढुं नैव क्षमा वयम् ॥ १८ ॥

स्थाप्यदेशं न पश्याम आयुधानां मुनीश्वर ।
स्वर्गे सुरद्विषो ज्ञात्वा स्थापितानि हरन्ति च ॥ १९ ॥

नयेयुर् आयुधानीति तथैव च रसातले ।
तस्मात् तवाश्रमे पुण्ये स्थाप्यन्ते ऽस्त्राणि मानद ॥ २० ॥

नैवात्र किञ्चिद् भयम् अस्ति विप्र ।
न दानवेभ्यो राक्षसेभ्यश् च घोरम् ।
त्वदाज्ञया रक्षितपुण्यदेशो ।
न विद्यते तपसा ते समानः ॥ २१ ॥

जितारयो ब्रह्मविदां वरिष्ठं ।
वयं च पूर्वं निहता दैत्यसङ्घाः ।
अस्त्रैर् अलं भारभूतैः कृतार्थैः ।
स्थाप्यं स्थानं ते समीपे मुनीश ॥ २२ ॥

दिव्यान् भोगान् कामिनीभिः समेतान् ।
देवोद्याने नन्दने सम्भजामः ।
ततो यामः कृतकार्याः सहेन्द्राः ।
स्वं स्वं स्थानं चायुधानां च रक्षा ॥ २३ ॥

त्वया कृता जायतां तत् प्रशाधि ।
समर्थस् त्वं रक्षणे धारणे च ॥ २४ ॥

ब्रह्मोवाच-

तद्वाक्यम् आकर्ण्य दधीचिर् एवं ।
वाक्यं जगौ विबुधान् एवम् अस्तु ।
निवार्यमाणः प्रियशीलया स्त्रिया ।
किं देवकार्येण विरुद्धकारिणा ॥ २५ ॥

ये ज्ञातशास्त्राः परमार्थनिष्ठाः ।
संसारचेष्टासु गतानुरागाः ।
तेषां परार्थव्यसनेन किं मुने ।
येनात्र वामुत्र सुखं न किञ्चित् ॥ २६ ॥

देवद्विषो द्वेषम् अनुप्रयान्ति ।
दत्ते स्थाने विप्रवर्य शृणुष्व ।
नष्टे हृते चायुधानां मुनीश ।
कुप्यन्ति देवा रिपवस् ते भवन्ति ॥ २७ ॥

तस्मान् नेदं वेदविदां वरिष्ठ ।
युक्तं द्रव्ये परकीये ममत्वम् ।
तावच् च मैत्री द्रव्यभावश् च तावन् ।
नष्टे हृते रिपवस् ते भवन्ति ॥ २८ ॥

चेद् अस्ति शक्तिर् द्रव्यदाने ततस् ते ।
दातव्यम् एवार्थिने किं विचार्यम् ।
नो चेत् सन्तः परकार्याणि कुर्युर् ।
वाग्भिर् मनोभिः कृतिभिस् तथैव ॥ २९ ॥

परस्वसन्धारणम् एतद् एव ।
सद्भिर् निरस्तं त्यज कान्त सद्यः ॥ ३० ॥

ब्रह्मोवाच-

एवं प्रियाया वचनं स विप्रो ।
निशम्य भार्याम् इदम् आह सुभ्रूम् ॥ ३१ ॥

दधीचिर् उवाच-

पुरा सुराणाम् अनुमान्य भद्रे ।
नेतीति वाणी न सुखं ममैति ॥ ३२ ॥

ब्रह्मोवाच-

श्रुत्वेरितं पत्युर् इति प्रियायां ।
दैवं विनान्यन् न नृणां समर्थम् ।
तूष्णीं स्थितायां सुरसत्तमास् ते ।
संस्थाप्य चास्त्राण्य् अतिदीप्तिमन्ति ॥ ३३ ॥

नत्वा मुनीन्द्रं ययुर् एव लोकान् ।
दैत्यद्विषो न्यस्तशस्त्राः कृतार्थाः ।
गतेषु देवेषु मुनिप्रवर्यो ।
हृष्टो ऽवसद् भार्यया धर्मयुक्तः ॥ ३४ ॥

गते च काले ह्य् अतिविप्रयुक्ते ।
दैवे वर्षे सङ्ख्यया वै सहस्रे ।
न ते सुरा आयुधानां मुनीश ।
वाचं मनश् चापि तथैव चक्रुः ॥ ३५ ॥

दधीचिर् अप्य् आह गभस्तिम् ओजसा ।
देवारयो मां द्विषतीह भद्रे ।
न ते सुरा नेतुकामा भवन्ति ।
संस्थापितान्य् अत्र वदस्व युक्तम् ॥ ३६ ॥

सा चाह कान्तं विनयाद् उक्तम् एव ।
त्वं जानीषे नाथ यद् अत्र युक्तम् ।
दैत्या हरिष्यन्ति महाप्रवृद्धास् ।
तपोयुक्ता बलिनः स्वायुधानि ॥ ३७ ॥

तदस्त्ररक्षार्थम् इदं स चक्रे ।
मन्त्रैस् तु सङ्क्षाल्य जलैश् च पुण्यैः ।
तद् वारि सर्वास्त्रमयं सुपुण्यं ।
तेजोयुक्तं तच् च पपौ दधीचिः ॥ ३८ ॥

निर्वीर्यरूपाणि तदायुधानि ।
क्षयं जग्मुः क्रमशः कालयोगात् ।
सुराः समागत्य दधीचिम् ऊचुर् ।
महाभयं ह्य् आगतं शात्रवं नः ॥ ३९ ॥

ददस्व चास्त्राणि मुनिप्रवीर ।
यानि त्वदन्ते निहितानि देवैः ।
दधीचिर् अप्य् आह सुरारिभीत्या ।
अनागत्या भवतां चाचिरेण ॥ ४० ॥

अस्त्राणि पीतानि शरीरसंस्थान्य् ।
उक्तानि युक्तं मम तद् वदन्तु ।
श्रुत्वा तदुक्तं वचनं तु देवाः ।
प्रोचुस् तम् इत्थं विनयावनम्राः ॥ ४१ ॥

अस्त्राणि देहीति च वक्तुम् एतच् ।
छक्यं न वान्यत् प्रतिवक्तुं मुनीन्द्र ।
विना च तैः परिभूयेम नित्यं ।
पुष्टारयः क्व प्रयामो मुनीश ॥ ४२ ॥

न मर्त्यलोके न तले न नाके ।
वासः सुराणां भविताद्य तात ।
त्वं विप्रवर्यस् तपसा चैव युक्तो ।
नान्यद् वक्तुं युज्यते ते पुरस्तात् ॥ ४३ ॥

विप्रस् तदोवाच मदस्थिसंस्थान्य् ।
अस्त्राणि गृह्णन्तु न संशयो ऽत्र ।
देवास् तम् अप्य् आहुर् अनेन किं नो ह्य् ।
अस्त्रैर् हीनाः स्त्रीत्वम् आप्ताः सुरेन्द्राः ॥ ४४ ॥

पुनस् तदा चाह मुनिप्रवीरस् ।
त्यक्ष्ये जीवान् दैहिकान् योगयुक्तः ।
अस्त्राणि कुर्वन्तु मदस्थिभूतान्य् ।
अनुत्तमान्य् उत्तमरूपवन्ति ॥ ४५ ॥

कुरुष्व चेत्य् आहुर् अदीनसत्त्वं ।
दधीचिम् इत्य् उत्तरम् अग्निकल्पम् ।
तदा तु तस्य प्रियम् ईरयन्ती ।
न सान्निध्ये प्रातिथेयी मुनीश ॥ ४६ ॥

ते चापि देवास् ताम् अदृष्ट्वैव शीघ्रं ।
तस्या भीता विप्रम् ऊचुः कुरुष्व ।
तत्याज जीवान् दुस्त्यजान् प्रीतियुक्तो ।
यथासुखं देहम् इमं जुषध्वम् ॥ ४७ ॥

मदस्थिभिः प्रीतिमन्तो भवन्तु ।
सुराः सर्वे किं तु देहेन कार्यम् ॥ ४८ ॥

ब्रह्मोवाच-

इत्य् उक्त्वासौ बद्धपद्मासनस्थो ।
नासाग्रदत्ताक्षिप्रकाशप्रसन्नः ।
वायुं सवह्निं मध्यमोद्घाटयोगान् ।
नीत्वा शनैर् दहराकाशगर्भम् ॥ ४९ ॥

यद् अप्रमेयं परमं पदं यद् ।
यद् ब्रह्मरूपं यद् उपासितव्यम् ।
तत्रैव विन्यस्य धियं महात्मा ।
सायुज्यतां ब्रह्मणो ऽसौ जगाम ॥ ५० ॥

निर्जीवतां प्राप्तम् अभीक्ष्य देवाः ।
कलेवरं तस्य सुराश् च सम्यक् ।
त्वष्टारम् अप्य् ऊचुर् अतित्वरन्तः ।
कुरुष्व चास्त्राणि बहूनि सद्यः ॥ ५१ ॥

स चापि तान् आह कथं नु कार्यं ।
कलेवरं ब्राह्मणस्येह देवाः ।
बिभेमि कर्तुं दारुणं चाक्षमो ऽहं ।
विदारितान्य् आयुधान्य् उत्तमानि ॥ ५२ ॥

तदस्थिभूतानि करोमि सद्यस् ।
ततो देवा गाः समूचुस् त्वरन्तः ॥ ५३ ॥

देवा ऊचुः-

वज्रं मुखं वः क्रियते हितार्थं ।
गावो देवैर् आयुधार्थं क्षणेन ।
दधीचिदेहं तु विदार्य यूयम् ।
अस्थीनि शुद्धानि प्रयच्छताद्य ॥ ५४ ॥

ब्रह्मोवाच-

ता देववाक्याच् च तथैव चक्रुः ।
संलिह्य चास्थीनि ददुः सुराणाम् ।
सुरास् त्वरा जग्मुर् अदीनसत्त्वाः ।
स्वम् आलयं चापि तथैव गावः ॥ ५५ ॥

कृत्वा तथास्त्राणि च देवतानां ।
त्वष्टा जगामाथ सुराज्ञया तदा ।
ततश् चिराच् छीलवती सुभद्रा ।
भर्तुः प्रिया बालगर्भा त्वरन्ती ॥ ५६ ॥

करे गृहीत्वा कलशं वारिपूर्णम् ।
उमां नत्वा फलपुष्पैः समेत्य ।
अग्निं च भर्तारम् अथाश्रमं च ।
सन्द्रष्टुकामा ह्य् आजगामाथ शीघ्रम् ॥ ५७ ॥

आगच्छन्तीं तां प्रातिथेयीं तदानीं ।
निवारयाम् आस तदोल्कपातः ।
सा सम्भ्रमाद् आगता चाश्रमं स्वं ।
नैवापश्यत् तत्र भर्तारम् अग्रे ॥ ५८ ॥

क्व वा गतश् चेति सविस्मया सा ।
पप्रच्छ चाग्निं प्रातिथेयी तदानीम् ।
अग्निस् तदोवाच सविस्तरं तां ।
देवागमं याचनं वै शरीरे ॥ ५९ ॥

अस्थ्नाम् उपादानम् अथ प्रयाणं ।
श्रुत्वा सर्वं दुःखिता सा बभूव ।
दुःखोद्वेगात् सा पपाताथ पृथ्व्यां ।
मन्दं मन्दं वह्निनाश्वासिता च ॥ ६० ॥

प्रातिथेय्य् उवाच-

शापे ऽमराणां तु नाहं समर्था ।
अग्निं प्राप्स्ये किं नु कार्यं भवेन् मे ॥ ६१ ॥

ब्रह्मोवाच-

कोपं च दुःखं च नियम्य साध्वी ।
तदावादीद् धर्मयुक्तं च भर्तुः ॥ ६२ ॥

प्रातिथेय्य् उवाच-

उत्पद्यते यत् तु विनाशि सर्वं ।
न शोच्यम् अस्तीति मनुष्यलोके ।
गोविप्रदेवार्थम् इह त्यजन्ति ।
प्राणान् प्रियान् पुण्यभाजो मनुष्याः ॥ ६३ ॥

संसारचक्रे परिवर्तमाने ।
देहं समर्थं धर्मयुक्तं त्व् अवाप्य ।
प्रियान् प्राणान् देवविप्रार्थहेतोस् ।
ते वै धन्याः प्राणिनो ये त्यजन्ति ॥ ६४ ॥

प्राणाः सर्वे ऽस्यापि देहान्वितस्य ।
यातारो वै नात्र सन्देहलेशः ।
अर्थं चैनान् उत्सृजन्तीश्वरास् ते ॥ ६५ ॥

निवार्यमाणो ऽपि मया प्रपन्नया ।
चकार देवास्त्रपरिग्रहं सः ।
मनोगतं वेत्त्य् अथवा विधातुः ।
को मर्त्यलोकातिगचेष्टितस्य ॥ ६६ ॥

ब्रह्मोवाच-

इत्य् एवम् उक्त्वापूज्य चाग्नीन् यथावद् ।
भर्तुस् त्वचा लोमभिः सा विवेश ।
गर्भस्थितं बालकं प्रातिथेयी ।
कुक्षिं विदार्याथ करे गृहीत्वा ॥ ६७ ॥

नत्वा च गङ्गां भुवम् आश्रमं च ।
वनस्पतीन् ओषधीर् आश्रमस्थान् ॥ ६८ ॥

प्रातिथेय्य् उवाच-

पित्रा हीनो बन्धुभिर् गोत्रजैश् च ।
मात्रा हीनो बालकः सर्व एव ।
रक्षन्तु सर्वे ऽपि च भूतसङ्घास् ।
तथौषध्यो बालकं लोकपालाः ॥ ६९ ॥

ये बालकं मातृपितृप्रहीणं ।
सनिर्विशेषं स्वतनुप्ररूढैः ।
पश्यन्ति रक्षन्ति त एव नूनं ।
ब्रह्मादिकानाम् अपि वन्दनीयाः ॥ ७० ॥

ब्रह्मोवाच-

इत्य् उक्त्वा चात्यजद् बालं भर्तृचित्तपरायणा ।
पिप्पलानां समीपे तु न्यस्य बालं नमस्य च ॥ ७१ ॥

अग्निं प्रदक्षिणीकृत्य यज्ञपात्रसमन्विता ।
विवेशाग्निं प्रातिथेयी भर्त्रा सह दिवं ययौ ॥ ७२ ॥

रुरुदुश् चाश्रमस्था ये वृक्षाश् च वनवासिनः ।
पुत्रवत् पोषिता येन ऋषिणा च दधीचिना ॥ ७३ ॥

विना तेन न जीवामस् तया मात्रा विना तथा ।
मृगाश् च पक्षिणः सर्वे वृक्षाः प्रोचुः परस्परम् ॥ ७४ ॥

वृक्षा ऊचुः-

स्वर्गम् आसेदुषोः पित्रोस् तदपत्येष्व् अकृत्रिमम् ।
ये कुर्वन्त्य् अनिशं स्नेहं त एव कृतिनो नराः ॥ ७५ ॥

दधीचिः प्रातिथेयी वा वीक्षते ऽस्मान् यथा पुरा ।
तथा पिता न माता वा धिग् अस्मान् पापिनो वयम् ॥ ७६ ॥

अस्माकम् अपि सर्वेषाम् अतः प्रभृति निश्चितम् ।
बालो दधीचिः प्रातिथेयी बालो धर्मः सनातनः ॥ ७७ ॥

ब्रह्मोवाच-

एवम् उक्त्वा तदौषध्यो वनस्पतिसमन्विताः ।
सोमं राजानम् अभ्येत्य याचिरे ऽमृतम् उत्तमम् ॥ ७८ ॥

स चापि दत्तवांस् तेभ्यः सोमो ऽमृतम् अनुत्तमम् ।
ददुर् बालाय ते चापि अमृतं सुरवल्लभम् ॥ ७९ ॥

स तेन तृप्तो ववृधे शुक्लपक्षे यथा शशी ।
पिप्पलैः पालितो यस्मात् पिप्पलादः स बालकः ।
प्रवृद्धः पिप्पलान् एवम् उवाच त्व् अतिविस्मितः ॥ ८० ॥

पिप्पलाद उवाच-

मानुषेभ्यो मानुषास् तु जायन्ते पक्षिभिः खगाः ।
बीजेभ्यो वीरुधो लोके वैषम्यं नैव दृश्यते ।
वार्क्षस् त्व् अहं कथं जातो हस्तपादादिजीववान् ॥ ८१ ॥

ब्रह्मोवाच-

वृक्षास् तद्वचनं श्रुत्वा सर्वम् ऊचुर् यथाक्रमम् ।
दधीचेर् मरणं साध्व्यास् तथा चाग्निप्रवेशनम् ॥ ८२ ॥

अस्थ्नां संहरणं देवैर् एतत् सर्वं सविस्तरम् ।
श्रुत्वा दुःखसमाविष्टो निपपात तदा भुवि ॥ ८३ ॥

आश्वासितः पुनर् वृक्षैर् वाक्यैर् धर्मार्थसंहितैः ।
आश्वस्तः स पुनः प्राह तदौषधिवनस्पतीन् ॥ ८४ ॥

पिप्पलाद उवाच-

पितृहन्तॄन् हनिष्ये ऽहं नान्यथा जीवितुं क्षमः ।
पितुर् मित्राणि शत्रूंश् च तथा पुत्रो ऽनुवर्तते ॥ ८५ ॥

स एव पुत्रो यो ऽन्यस् तु पुत्ररूपो रिपुः स्मृतः ।
वदन्ति पितृमित्राणि तारयन्त्य् अहितान् अपि ॥ ८६ ॥

ब्रह्मोवाच-

वृक्षास् तं बालम् आदाय सोमान्तिकम् अथाययुः ।
बालवाक्यं तु ते वृक्षाः सोमायाथ न्यवेदयन् ।
श्रुत्वा सोमो ऽपि तं बालं पिप्पलादम् अभाषत ॥ ८७ ॥

सोम उवाच-

गृहाण विद्यां विधिवत् समग्रां ।
तपःसमृद्धिं च शुभां च वाचम् ।
शौर्यं च रूपं च बलं च बुद्धिं ।
सम्प्राप्स्यसे पुत्र मदाज्ञया त्वम् ॥ ८८ ॥

ब्रह्मोवाच-

पिप्पलादस् तम् अप्य् आह ओषधीशं विनीतवत् ॥ ८९ ॥

पिप्पलाद उवाच-

सर्वम् एतद् वृथा मन्ये पितृहन्तृविनिष्कृतिम् ।
न करोम्य् अत्र यावच् च तस्मात् तत् प्रथमं वद ॥ ९० ॥

यस्मिन् देशे यत्र काले यस्मिन् देवे च मन्त्रके ।
यत्र तीर्थे च सिध्येत मत्सङ्कल्पः सुरोत्तम ॥ ९१ ॥

ब्रह्मोवाच-

चन्द्रः प्राह चिरं ध्यात्वा भुक्तिर् वा मुक्तिर् एव वा ।
सर्वं महेश्वराद् देवाज् जायते नात्र संशयः ॥ ९२ ॥

स सोमं पुनर् अप्य् आह कथं द्रक्ष्ये महेश्वरम् ।
बालो ऽहं बालबुद्धिश् च न सामर्थ्यं तपस् तथा ॥ ९३ ॥

चन्द्र उवाच-

गौतमीं गच्छ भद्र त्वं स्तुहि चक्रेश्वरं हरम् ।
प्रसन्नस् तु तवेशानो ह्य् अल्पायासेन वत्सक ॥ ९४ ॥

प्रीतो भवेन् महादेवः साक्षात् कारुणिकः शिवः ।
आस्ते साक्षात्कृतः शम्भुर् विष्णुना प्रभविष्णुना ॥ ९५ ॥

वरं च दत्तवान् विष्णोश् चक्रं च त्रिदशार्चितम् ।
गच्छ तत्र महाबुद्धे दण्डके गौतमीं नदीम् ॥ ९६ ॥

चक्रेश्वरं नाम तीर्थं जानन्त्य् ओषधयस् तु तत् ।
तं गत्वा स्तुहि देवेशं सर्वभावेन शङ्करम् ।
स ते प्रीतमनास् तात सर्वान् कामान् प्रदास्यति ॥ ९७ ॥

ब्रह्मोवाच-

तद् राजवचनाद् ब्रह्मन् पिप्पलादो महामुनिः ।
आजगाम जगन्नाथो यत्र रुद्रः स चक्रदः ॥ ९८ ॥

तं बालं कृपयाविष्टाः पिप्पलाः स्वाश्रमान् ययुः ।
गोदावर्यां ततः स्नात्वा नत्वा त्रिभुवनेश्वरम् ।
तुष्टाव सर्वभावेन पिप्पलादः शिवं शुचिः ॥ ९९ ॥

पिप्पलाद उवाच-

सर्वाणि कर्माणि विहाय धीरास् ।
त्यक्तैषणा निर्जितचित्तवाताः ।
यं यान्ति मुक्त्यै शरणं प्रयत्नात् ।
तम् आदिदेवं प्रणमामि शम्भुम् ॥ १०० ॥

यः सर्वसाक्षी सकलान्तरात्मा ।
सर्वेश्वरः सर्वकलानिधानम् ।
विज्ञाय मच्चित्तगतं समस्तं ।
स मे स्मरारिः करुणां करोतु ॥ १०१ ॥

दिगीश्वराञ् जित्य सुरार्चितस्य ।
कैलासम् आन्दोलयतः पुरारेः ।
गतस्य तस्यैव दशाननस्य ॥ १०२ ॥

आलूनकायस्य गिरं निशम्य ।
विहस्य देव्या सह दत्तम् इष्टम् ।
तस्मै प्रसन्नः कुपितो ऽपि तद्वद् ।
अयुक्तदातासि महेश्वर त्वम् ॥ १०३ ॥

सौत्रामणीम् ऋद्धिम् अधः स चक्रे ।
यो ऽर्चां हरौ नित्यम् अतीव कृत्वा ।
बाणः प्रशस्यः कृतवान् उच्चपूजां ।
रम्यां मनोज्ञां शशिखण्डमौलेः ॥ १०४ ॥

जित्वा रिपून् देवगणान् प्रपूज्य ।
गुरुं नमस्कर्तुम् अगाद् विशाखः ।
चुकोप दृष्ट्वा गणनाथम् ऊढम् ।
अङ्के तम् आरोप्य जहास सोमः ॥ १०५ ॥

ईशाङ्करूढो ऽपि शिशुस्वभावान् ।
न मातुर् अङ्कं प्रमुमोच बालः ।
क्रुद्धं सुतं बोधितुम् अप्य् अशक्तस् ।
ततो ऽर्धनारित्वम् अवाप सोमः ॥ १०६ ॥

ब्रह्मोवाच-

ततः स्वयम्भूः सुप्रीतः पिप्पलादम् अभाषत ॥ १०७ ॥

शिव उवाच-

वरं वरय भद्रं ते पिप्पलाद यथेप्सितम् ॥ १०८ ॥

पिप्पलाद उवाच-

हतो देवैर् महादेव पिता मम महायशाः ।
अदाम्भिकः सत्यवादी तथा माता पतिव्रता ॥ १०९ ॥

देवेभ्यश् च तयोर् नाशं श्रुत्वा नाथ सविस्तरम् ।
दुःखकोपसमाविष्टो नाहं जीवितुम् उत्सहे ॥ ११० ॥

तस्मान् मे देहि सामर्थ्यं नाशयेयं सुरान् यथा ।
अवध्यसेव्यस् त्रैलोक्ये त्वम् एव शशिशेखर ॥ १११ ॥

ईश्वर उवाच-

तृतीयं नयनं द्रष्टुं यदि शक्नोषि मे ऽनघ ।
ततः समर्थो भविता देवांश् छेदयितुं भवान् ॥ ११२ ॥

ब्रह्मोवाच-

ततो द्रष्टुं मनश् चक्रे तृतीयं लोचनं विभोः ।
न शशाक तदोवाच न शक्तो ऽस्मीति शङ्करम् ॥ ११३ ॥

ईश्वर उवाच-

किञ्चित् कुरु तपो बाल यदा द्रक्ष्यसि लोचनम् ।
तृतीयं त्वं तदाभीष्टं प्राप्स्यसे नात्र संशयः ॥ ११४ ॥

ब्रह्मोवाच-

एतच् छ्रुत्वेशानवाक्यं तपसे कृतनिश्चयः ।
दधीचिसूनुर् धर्मात्मा तत्रैव बहुलाः समाः ॥ ११५ ॥

शिवध्यानैकनिरतो बालो ऽपि बलवान् इव ।
प्रत्यहं प्रातर् उत्थाय स्नात्वा नत्वा गुरून् क्रमात् ॥ ११६ ॥

सुखासीनो मनः कृत्वा सुषुम्नायाम् अनन्यधीः ।
हस्तस्वस्तिकम् आरोप्य नाभौ विस्मृतसंसृतिः ॥ ११७ ॥

स्थानात् स्थानान्तरोत्कर्षान् विदध्यौ शाम्भवं महः ।
ददर्श चक्षुर् देवस्य तृतीयं पिप्पलाशनः ।
कृताञ्जलिपुटो भूत्वा विनीत इदम् अब्रवीत् ॥ ११८ ॥

पिप्पलाद उवाच-

शम्भुना देवदेवेन वरो दत्तः पुरा मम ।
तार्तीयचक्षुषो ज्योतिर् यदा पश्यसि तत्क्षणात् ॥ ११९ ॥

सर्वं ते प्रार्थितं सिध्येद् इत्य् आह त्रिदशेश्वरः ।
तस्माद् रिपुविनाशाय हेतुभूतां प्रयच्छ मे ॥ १२० ॥

तदैव पिप्पलाः प्रोचुर् वडवापि महाद्युते ।
माता तव प्रातिथेयी वदन्त्य् एवं दिवं गता ॥ १२१ ॥

पराभिद्रोहनिरता विस्मृतात्महिता नराः ।
इतस् ततो भ्रान्तचित्ताः पतन्ति नरकावटे ॥ १२२ ॥

तन् मातृवचनं श्रुत्वा कुपितः पिप्पलाशनः ।
अभिमाने ज्वलत्य् अन्तः साधुवादो निरर्थकः ॥ १२३ ॥

देहि देहीति तं प्राह कृत्या नेत्रविनिर्गता ।
वडवेति स्मरन् विप्रः कृत्यापि वडवाकृतिः ॥ १२४ ॥

सर्वसत्त्वविनाशाय प्रभूतानलगर्भिणी ।
गभस्तिनी बालगर्भा या माता पिप्पलाशिनः ॥ १२५ ॥

तद्ध्यानयोगात् तु जाता कृत्या सानलगर्भिणी ।
उत्पन्ना सा महारौद्रा मृत्युजिह्वेव भीषणा ॥ १२६ ॥

अवोचत् पिप्पलादं तं किं कृत्यं मे वदस्व तत् ।
पिप्पलादो ऽपि तां प्राह देवान् खाद रिपून् मम ॥ १२७ ॥

जग्राह सा तथेत्य् उक्त्वा पिप्पलादं पुरस्थितम् ।
स प्राह किम् इदं कृत्ये सा चाप्य् आह त्वयोदितम् ॥ १२८ ॥

देवैश् च निर्मितं देहं ततो भीतः शिवं ययौ ।
तुष्टाव देवं स मुनिः कृत्यां प्राह तदा शिवः ॥ १२९ ॥

शिव उवाच-

योजनान्तःस्थिताञ् जीवान् न गृहाण मदाज्ञया ।
तस्माद् याहि ततो दूरं कृत्ये कृत्यं ततः कुरु ॥ १३० ॥

ब्रह्मोवाच-

तीर्थात् तु पिप्पलात् पूर्वं यावद् योजनसङ्ख्यया ।
प्रातिष्ठद् वडवारूपा कृत्या सा ऋषिनिर्मिता ॥ १३१ ॥

तस्यां जातो महान् अग्निर् लोकसंहरणक्षमः ।
तं दृष्ट्वा विबुधाः सर्वे त्रस्ताः शम्भुम् उपागमन् ॥ १३२ ॥

चक्रेश्वरं पिप्पलेशं पिप्पलादेन तोषितम् ।
स्तुवन्तो भीतमनसः शम्भुम् ऊचुर् दिवौकसः ॥ १३३ ॥

देवा ऊचुः-

रक्षस्व शम्भो कृत्यास्मान् बाधते तद्भवानलः ।
शरणं भव सर्वेश भीतानाम् अभयप्रद ॥ १३४ ॥

सर्वतः परिभूतानाम् आर्तानां श्रान्तचेतसाम् ।
सर्वेषाम् एव जन्तूनां त्वम् एव शरणं शिव ॥ १३५ ॥

ऋषिणाभ्यर्थिता कृत्या त्वच्चक्षुर्वह्निनिर्गता ।
सा जिघांसति लोकांस् त्रींस् त्वं नस् त्राता न चेतरः ॥ १३६ ॥

ब्रह्मोवाच-

तान् अब्रवीज् जगन्नाथो योजनान्तर्निवासिनः ।
न बाधते त्व् असौ कृत्या तस्माद् यूयम् अहर्निशम् ।
इहैवासध्वम् अमरास् तस्या वो न भयं भवेत् ॥ १३७ ॥

ब्रह्मोवाच-

पुनर् ऊचुः सुरेशानं त्वया दत्तं त्रिविष्टपम् ।
तत् त्यक्त्वात्र कथं नाथ वत्स्यामस् त्रिदशार्चित ॥ १३८ ॥

ब्रह्मोवाच-

देवानां वचनं श्रुत्वा शिवो वाक्यम् अथाब्रवीत् ॥ १४० ॥

शिव उवाच-

देवो ऽसौ विश्वतश्चक्षुर् यो देवो विश्वतोमुखः ।
यो रश्मिभिस् तु धमते नित्यं यो जनको मतः ॥ १४१ ॥

स सूर्य एक एवात्र साक्षाद् रूपेण सर्वदा ।
स्थितिं करोतु तन्मूर्तौ भविष्यन्त्य् अखिलाः स्थिताः ॥ १४२ ॥

ब्रह्मोवाच-

तथेति शम्भुवचनात् पारिजाततरोस् तदा ।
देवा दिवाकरं चक्रुस् त्वष्टा भास्करम् अब्रवीत् ॥ १४३ ॥

त्वष्टोवाच-

इहैवास्स्व जगत्स्वामिन् रक्षेमान् विबुधान् स्वयम् ।
स्वांशैश् च वयम् अप्य् अत्र तिष्ठामः शम्भुसन्निधौ ॥ १४४ ॥

चक्रेश्वरस्य परितो यावद् योजनसङ्ख्यया ।
गङ्गाया उभयं तीरम् आसाद्यासन् सुरोत्तमाः ॥ १४५ ॥

अङ्गुल्यर्धार्धमात्रं तु गङ्गातीरं समाश्रिताः ।
तिस्रः कोट्यस् तथा पञ्च शतानि मुनिसत्तम ।
तीर्थानां तत्र व्युष्टिं च कः शृणोति ब्रवीति वा ॥ १४६ ॥

ब्रह्मोवाच-

ततः सुरगणाः सर्वे विनीताः शिवम् अब्रुवन् ॥ १४७ ॥

देवा ऊचुः-

पिप्पलादं सुरेशान शमं नय जगन्मय ॥ १४८ ॥

ब्रह्मोवाच-

ॐ इत्य् उक्त्वा जगन्नाथः पिप्पलादम् अवोचत ॥ १४९ ॥

शिव उवाच-

नाशितेष्व् अपि देवेषु पिता ते नागमिष्यति ।
दत्ताः पित्रा तव प्राणा देवानां कार्यसिद्धये ॥ १५० ॥

दीनार्तकरुणाबन्धुः को हि तादृग्भवे भवेत् ।
तथा याता दिवं तात तव माता पतिव्रता ॥ १५१ ॥

समा काप्य् अत्र मतया लोपामुद्राप्य् अरुन्धती ।
यद् अस्थिभिः सुराः सर्वे जयिनः सुखिनः सदा ॥ १५२ ॥

तेनावाप्तं यशः स्फीतं तव मात्राक्षयं कृतम् ।
त्वया पुत्रेण सर्वत्र नातः परतरं कृतम् ॥ १५३ ॥

त्वत्प्रतापभयात् स्वर्गाच् च्युतांस् त्वं पातुम् अर्हसि ।
कान्दिशीकांस् तव भयाद् अमरांस् त्रातुम् अर्हसि ।
नार्तत्राणाद् अभ्यधिकं सुकृतं क्वापि विद्यते ॥ १५४ ॥

यावद् यशः स्फुरति चारु मनुष्यलोके ।
अहानि तावन्ति दिवं गतस्य ।
दिने दिने वर्षसङ्ख्या परस्मिंल् ।
लोके वासो जायते निर्विकारः ॥ १५५ ॥

मृतास् त एवात्र यशो न येषाम् ।
अन्धास् त एव श्रुतवर्जिता ये ।
ये दानशीला न नपुंसकास् ते ।
ये धर्मशीला न त एव शोच्याः ॥ १५६ ॥

ब्रह्मोवाच-

भाषितं देवदेवस्य श्रुत्वा शान्तो ऽभवन् मुनिः ।
कृताञ्जलिपुटो भूत्वा नत्वा नाथम् अथाब्रवीत् ॥ १५७ ॥

पिप्पलाद उवाच-

वाग्भिर् मनोभिः कृतिभिः कदाचिन् ।
ममोपकुर्वन्ति हिते रता ये ।
तेभ्यो हितार्थं त्व् इह चापरेषां ।
सोमं नमस्यामि सुरादिपूज्यम् ॥ १५८ ॥

संरक्षितो यैर् अभिवर्धितश् च ।
समानगोत्रश् च समानधर्मा ।
तेषाम् अभीष्टानि शिवः करोतु ।
बालेन्दुमौलिं प्रणतो ऽस्मि नित्यम् ॥ १५९ ॥

यैर् अहं वर्धितो नित्यं मातृवत् पितृवत् प्रभो ।
तन्नाम्ना जायतां तीर्थं देवदेव जगत्त्रये ॥ १६० ॥

यशस् तु तेषां भविता तेभ्यो ऽहम् अनृणस् ततः ।
यानि क्षेत्राणि देवानां यानि तीर्थानि भूतले ॥ १६१ ॥

तेभ्यो यद् इदम् अधिकम् अनुमन्यन्तु देवताः ।
ततः क्षमे ऽहं देवानाम् अपराधं निरञ्जनः ॥ १६२ ॥

ब्रह्मोवाच-

ततः समक्षं सुरसाक्षरां गिरं ।
सहस्रचक्षुःप्रमुखांस् तथाग्रतः ।
उवाच देवा अपि मेनिरे वचो ।
दधीचिपुत्रोदितम् आदरेण ॥ १६३ ॥

बालस्य बुद्धिं विनयं च विद्यां ।
शौर्यं बलं साहसं सत्यवाचम् ।
पित्रोर् भक्तिं भावशुद्धिं विदित्वा ।
तदावादीच् छङ्करः पिप्पलादम् ॥ १६४ ॥

शङ्कर उवाच-

वत्स यद् वै प्रियं कामं यच् चापि सुरवल्लभम् ।
प्राप्स्यसे वद कल्याणं नान्यथा त्वं मनः कृथाः ॥ १६५ ॥

पिप्पलाद उवाच-

ये गङ्गायाम् आप्लुता धर्मनिष्ठाः ।
सम्पश्यन्ति त्वत्पदाब्जं महेश ।
सर्वान् कामान् आप्नुवन्तु प्रसह्य ।
देहान्ते ते पदम् आयान्तु शैवम् ॥ १६६ ॥

तातः प्राप्तस् त्वत्पदं चाम्बिका मे ।
नाथ प्राप्ता पिप्पलश् चामराश् च ।
सुखं प्राप्ता नाथनाथं विलोक्य ।
त्वां पश्येयुस् त्वत्पदं ते प्रयान्तु ॥ १६७ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा पिप्पलादं देवदेवो महेश्वरः ।
अभिनन्द्य च तं देवैः सार्धं वाक्यम् अथाब्रवीत् ॥ १६८ ॥

देवा अपि मुदा युक्ता निर्भयास् तत्कृताद् भयात् ।
इदम् ऊचुः सर्व एव दाधीचं शिवसन्निधौ ॥ १६९ ॥

देवा ऊचुः-

सुराणां यद् अभीष्टं च त्वया कृतम् असंशयम् ।
पालिता देवदेवस्य आज्ञा त्रैलोक्यमण्डनी ॥ १७० ॥

याचितं च त्वया पूर्वं परार्थं नात्मने द्विज ।
तस्माद् अन्यतमं ब्रूहि किञ्चिद् दास्यामहे वयम् ॥ १७१ ॥

ब्रह्मोवाच-

पुनः पुनस् तद् एवोचुः सुरसङ्घा द्विजोत्तमम् ।
कृताञ्जलिपुटः पूर्वं नत्वा शम्भुसुरान् इदम् ।
उवाच पिप्पलादश् च उमां नत्वा च पिप्पलान् ॥ १७२ ॥

पिप्पलाद उवाच-

पितरौ द्रष्टुकामो ऽस्मि सदा मे शब्दगोचरौ ।
ते धन्याः प्राणिनो लोके मातापित्रोर् वशे स्थिताः ॥ १७३ ॥

शुश्रूषणपरा नित्यं तत्पादाज्ञाप्रतीक्षकाः ।
इन्द्रियाणि शरीरं च कुलं शक्तिं धियं वपुः ॥ १७४ ॥

परिलभ्य तयोः कृत्ये कृतकृत्यो भवेत् स्वयम् ।
पशूनां पक्षिणां चापि सुलभं मातृदर्शनम् ॥ १७५ ॥

दुर्लभं मम तच् चापि पृच्छे पापफलं नु किम् ।
दुर्लभं च तथा चेत् स्यात् सर्वेषां यस्य कस्यचित् ॥ १७६ ॥

नोपपद्येत सुलभं मत्तो नान्यो ऽस्ति पापकृत् ।
तयोर् दर्शनमात्रं च यदि प्राप्स्ये सुरोत्तमाः ॥ १७७ ॥

मनोवाक्कायकर्मभ्यः फलं प्राप्तं भविष्यति ।
पितरौ ये न पश्यन्ति समुत्पन्ना न संसृतौ ।
तेषां महापातकानां कः सङ्ख्यां कर्तुम् ईश्वरः ॥ १७८ ॥

ब्रह्मोवाच-

तद् ऋषेर् वचनं श्रुत्वा मिथः सम्मन्त्र्य ते सुराः ।
विमानवरम् आरूढौ पितरौ दम्पती शुभौ ॥ १७९ ॥

तव सन्दर्शनाकाङ्क्षौ द्रक्ष्यसे वाद्य निश्चितम् ।
विषादं लोभमोहौ च त्यक्त्वा चित्तं शमं नय ॥ १८० ॥

पश्य पश्येति तं प्राहुर् दाधीचं सुरसत्तमाः ।
विमानवरम् आरूढौ स्वर्गिणौ स्वर्णभूषणौ ॥ १८१ ॥

तव सन्दर्शनाकाङ्क्षौ पितरौ दम्पती शुभौ ।
वीज्यमानौ सुरस्त्रीभिः स्तूयमानौ च किन्नरैः ॥ १८२ ॥

दृष्ट्वा स मातापितरौ ननाम शिवसन्निधौ ।
हर्षबाष्पाश्रुनयनौ स कथञ्चिद् उवाच तौ ॥ १८३ ॥

पुत्र उवाच-

तारयन्त्य् एव पितराव् अन्ये पुत्राः कुलोद्वहाः ।
अहं तु मातुर् उदरे केवलं भेदकारणम् ।
एवम्भूतो ऽपि तौ मोहात् पश्येयम् अतिदुर्मतिः ॥ १८४ ॥

ब्रह्मोवाच-

ताव् आलोक्य ततो दुःखाद् वक्तुं नैव शशाक सः ।
देवाश् च मातापितरौ पिप्पलादम् अथाब्रुवन् ॥ १८५ ॥

धन्यस् त्वं पुत्र लोकेषु यस्य कीर्तिर् गता दिवम् ।
साक्षात्कृतस् त्वया त्र्यक्षो देवाश् चाश्वासितास् त्वया ।
त्वया पुत्रेण सल्लोका न क्षीयन्ते कदाचन ॥ १८६ ॥

ब्रह्मोवाच-

पुष्पवृष्टिस् तदा स्वर्गात् पपात तस्य मूर्धनि ।
जयशब्दः सुरैर् उक्तः प्रादुर्भूतो महामुने ॥ १८७ ॥

{} आशिषं तु सुते दत्त्वा दधीचिः सह भार्यया ।
शम्भुं गङ्गां सुरान् नत्वा पुत्रं वाक्यम् अथाब्रवीत् ॥ १८८ ॥

दधीचिर् उवाच-

प्राप्य भार्यां शिवे भक्तिं कुरु गङ्गां च सेवय ।
पुत्रान् उत्पाद्य विधिवद् यज्ञान् इष्ट्वा सदक्षिणान् ।
कृतकृत्यस् ततो वत्स आक्रमस्व चिरं दिवम् ॥ १८९ ॥

ब्रह्मोवाच-

करोम्य् एवम् इति प्राह दधीचिं पिप्पलाशनः ।
दधीचिः पुत्रम् आश्वास्य भार्यया च पुनः पुनः ॥ १९० ॥

अनुज्ञातः सुरगणैः पुनः स दिवम् आक्रमत् ।
देवा अप्य् ऊचिरे सर्वे पिप्पलादं ससम्भ्रमाः ॥ १९१ ॥

देवा ऊचुः-

कृत्यां शमय भद्रं ते तद् उत्पन्नं महानलम् ॥ १९२ ॥

ब्रह्मोवाच-

पिप्पलादस् तु तान् आह न शक्तो ऽहं निवारणे ।
असत्यं नैव वक्ताहं यूयं कृत्यां तु ब्रूत ताम् ॥ १९३ ॥

मां दृष्ट्वा सा महारौद्रा विपरीतं करिष्यति ।
ताम् एव गत्वा विबुधाः प्रोचुस् ते शान्तिकारणम् ॥ १९४ ॥

अनलं च यथाप्रीति ते उभे नेत्य् अवोचताम् ।
सर्वेषां भक्षणायैव सृष्टा चाहं द्विजन्मना ॥ १९५ ॥

तथा च मत्प्रसूतो ऽग्निर् अन्यथा तत् कथं भवेत् ।
महाभूतानि पञ्चापि स्थावरं जङ्गमं तथा ॥ १९६ ॥

सर्वम् अस्मन्मुखे विद्याद् वक्तव्यं नावशिष्यते ।
मया सम्मन्त्र्य ते देवाः पुनर् ऊचुर् उभाव् अपि ॥ १९७ ॥

भक्षयेताम् उभौ सर्वं यथानुक्रमतस् तथा ।
वडवापि सुरान् एवम् उवाच शृणु नारद ॥ १९८ ॥

वडवोवाच-

भवताम् इच्छया सर्वं भक्ष्यं मे सुरसत्तमाः ॥ १९९ ॥

ब्रह्मोवाच-

वडवा सा नदी जाता गङ्गया सङ्गता मुने ।
तद्भवस् तु महान् अग्निर् य आसीद् अतिभीषणः ।
तम् आहुर् अमरा वह्निं भूतानाम् आदितो विदुः ॥ २०० ॥

सुरा ऊचुः-

आपो ज्येष्ठतमा ज्ञेयास् तथैव प्रथमं भवान् ।
तत्राप्य् अपाम्पतिं ज्येष्ठं समुद्रम् अशनं कुरु ।
यथैव तु वयं ब्रूमो गच्छ भुङ्क्ष्व यथासुखम् ॥ २०१ ॥

ब्रह्मोवाच-

अनलस् त्व् अमरान् आह आपस् तत्र कथं त्व् अहम् ।
व्रजेयं यदि मां तत्र प्रापयन्त्य् उदकं महत् ॥ २०२ ॥

भवन्त एव ते ऽप्य् आहुः कथं ते ऽग्ने गतिर् भवेत् ।
अग्निर् अप्य् आह तान् देवान् कन्या मां गुणशालिनी ॥ २०३ ॥

हिरण्यकलशे स्थाप्य नयेद् यत्र गतिर् मम ।
तस्य तद् वचनं श्रुत्वा कन्याम् ऊचुः सरस्वतीम् ॥ २०४ ॥

{} देवा ऊचुः-

नयैनम् अनलं शीघ्रं शिरसा वरुणालयम् ॥ २०५ ॥

ब्रह्मोवाच-

सरस्वती सुरान् आह नैका शक्ता च धारणे ।
युक्ता चतसृभिः शीघ्रं वहेयं वरुणालयम् ॥ २०६ ॥

सरस्वत्या वचः श्रुत्वा गङ्गां च यमुनां तथा ।
नर्मदां तपतीं चैव सुराः प्रोचुः पृथक् पृथक् ॥ २०७ ॥

ताभिः समन्वितोवाह हिरण्यकलशे ऽनलम् ।
संस्थाप्य शिरसाधार्य ता जग्मुर् वरुणालयम् ॥ २०८ ॥

संस्थाप्य यत्र देवेशः सोमनाथो जगत्पतिः ।
अध्यास्ते विबुधैः सार्धं प्रभासे शशिभूषणः ॥ २०९ ॥

प्रापयाम् आसुर् अनलं पञ्चनद्यः सरस्वती ।
अध्यास्ते च महान् अग्निः पिबन् वारि शनैः शनैः ॥ २१० ॥

ततः सुरगणाः सर्वे शिवम् ऊचुः सुरोत्तमम् ॥ २११ ॥

देवा ऊचुः-

अस्थ्नां च पावनं ब्रूहि अस्माकं च गवां तथा ॥ २१२ ॥

ब्रह्मोवाच-

शिवः प्राह तदा सर्वान् गङ्गाम् आप्लुत्य यत्नतः ।
देवाश् च गावस् तत्पापान् मुच्यन्ते नात्र संशयः ॥ २१३ ॥

प्रक्षालितानि चास्थीनि ऋषिदेहभवान्य् अथ ।
तानि प्रक्षालनाद् एव तत्र प्राप्तानि पूतताम् ॥ २१४ ॥

यत्र देवा मुक्तपापास् तत् तीर्थं पापनाशनम् ।
तत्र स्नानं च दानं च ब्रह्महत्याविनाशनम् ॥ २१५ ॥

गवां च पावनं यत्र गोतीर्थं तद् उदाहृतम् ।
तत्र स्नानान् महाबुद्धिर् गोमेधफलम् आप्नुयात् ॥ २१६ ॥

यत्र तद्ब्राह्मणास्थीनि आसन् पुण्यानि नारद ।
पितृतीर्थं तु वै ज्ञेयं पितॄणां प्रीतिवर्धनम् ॥ २१७ ॥

भस्मास्थिनखरोमाणि प्राणिनो यस्य कस्यचित् ।
तत्र तीर्थे सङ्क्रमेरन् यावच् चन्द्रार्कतारकम् ॥ २१८ ॥

स्वर्गे वासो भवेत् तस्य अपि दुष्कृतकर्मणः ।
तथा चक्रेश्वरात् तीर्थात् त्रीणि तीर्थानि नारद ।
ततः पूताः सुरगणा गावः शम्भुम् अथाब्रुवन् ॥ २१९ ॥

गोसुरा ऊचुः-

यामः स्वं स्वम् अधिष्ठानम् अत्र सूर्यः प्रतिष्ठितः ।
अस्मिन् स्थिते दिनकरे सुराः सर्वे प्रतिष्ठिताः ॥ २२० ॥

भवेयुर् जगताम् ईश तद् अनुज्ञातुम् अर्हसि ।
सूर्यो ह्य् आत्मास्य जगतस् तस्थुषश् च सनातनः ॥ २२१ ॥

दिवाकरो देवमयस् तत्रास्माभिः प्रतिष्ठितः ।
यत्र गङ्गा जगद्धात्री यत्र वै त्र्यम्बकः स्वयम् ।
सुरवासं प्रतिष्ठानं भवेद् यत्र च त्र्यम्बकम् ॥ २२२ ॥

ब्रह्मोवाच-

आपृच्छ्य पिप्पलादं तं सुराः स्वं सदनं ययुः ।
पिप्पलाः कालपर्याये स्वर्गं जग्मुर् अथाक्षयम् ॥ २२३ ॥

{} पादपानां पदं विप्रः पिप्पलादः प्रतापवान् ।
क्षेत्राधिपत्ये संस्थाप्य पूजयाम् आस शङ्करम् ॥ २२४ ॥

दधीचिसूनुर् मुनिर् उग्रतेजा ।
अवाप्य भार्यां गौतमस्यात्मजां च ।
पुत्रान् अथावाप्य श्रियं यशश् च ।
सुहृज्जनैः स्वर्गम् अवाप धीरः ॥ २२५ ॥

ततः प्रभृति तत् तीर्थं पिप्पलेश्वरम् उच्यते ।
सर्वक्रतुफलं पुण्यं स्मरणाद् अघनाशनम् ॥ २२६ ॥

किं पुनः स्नानदानाभ्याम् आदित्यस्य तु दर्शनात् ।
चक्रेश्वरः पिप्पलेशो देवदेवस्य नामनी ॥ २२७ ॥

सरहस्यं विदित्वा तु सर्वकामान् अवाप्नुयात् ।
सूर्यस्य च प्रतिष्ठानात् सुरवासे प्रतिष्ठिते ।
प्रतिष्ठानं तु तत् क्षेत्रं सुराणाम् अपि वल्लभम् ॥ २२८ ॥

इतीदम् आख्यानम् अतीव पुण्यं ।
पठेत वा यः शृणुयात् स्मरेद् वा ।
स दीर्घजीवी धनवान् धर्मयुक्तश् ।
चान्ते स्मरञ् शम्भुम् उपैति नित्यम् ॥ २२९ ॥