109

Summary (SA)

Chapter 109- The destruction of Dakṣa’s sacrifice; Viṣṇu’s discus swallowed by Śiva

{{Ref- SS 179-181}}

ब्रह्मोवाच-

चक्रतीर्थम् इति ख्यातं ब्रह्महत्यादिनाशनम् ।
यत्र चक्रेश्वरो देवश् चक्रम् आप यतो हरिः ॥ १ ॥

यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शङ्करं प्रभुः ।
पूजयाम् आस तत् तीर्थं चक्रतीर्थम् उदाहृतम् ॥ २ ॥

यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे ॥ ३ ॥

दक्षेण दूषिते देवे शिवे शर्वे महेश्वरे ।
अनाह्वाने सुरेशस्य दक्षचित्ते मलीमसे ॥ ४ ॥

दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे ।
अहल्यायां चोक्तवत्यां कुपिताभूत् सुरेश्वरी ॥ ५ ॥

पितरं नाशये पापं क्षमेयं न कथञ्चन ।
शृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि ॥ ६ ॥

पत्युः शृण्वन्ति या निन्दां तासां पापावधिः कुतः ।
यादृशस् तादृशो वापि पतिः स्त्रीणां परा गतिः ॥ ७ ॥

किं पुनः सकलाधीशो महादेवो जगद्गुरुः ।
श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम् ॥ ८ ॥

तस्मात् त्यक्ष्य इमं देहम् इत्य् उक्त्वा सा महासती ।
कोपेन महताविष्टा प्रजज्वाल सुरेश्वरी ॥ ९ ॥

शिवैकचेतना देहं बलाद् योगाच् च तत्यजे ।
महेश्वरो ऽपि सकलं वृत्तम् आकर्ण्य नारदात् ॥ १० ॥

दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा ।
ते ऊचतुर् उभे देवं दक्षक्रतुविनाशनम् ॥ ११ ॥

दाक्षायण्या इति श्रुत्वा मखं प्रायान् महेश्वरः ।
भीमैर् गणैः परिवृतो भूतनाथैः समं ययौ ॥ १२ ॥

मखस् तैर् वेष्टितः सर्वो देवब्रह्मपुरस्कृतः ।
दक्षेण यजमानेन शुद्धभावेन रक्षितः ॥ १३ ॥

वसिष्ठादिभिर् अत्युग्रैर् मुनिभिः परिवारितः ।
इन्द्रादित्याद्यैर् वसुभिः सर्वतःपरिपालितः ॥ १४ ॥

ऋग्यजुःसामवेदैश् च स्वाहाशब्दैर् अलङ्कृतः ।
श्रद्धा पुष्टिस् तथा तुष्टिः शान्तिर् लज्जा सरस्वती ॥ १५ ॥

भूमिर् द्यौः शर्वरी क्षान्तिर् उषा आशा जया मतिः ।
एताभिश् च तथान्याभिः सर्वतः समलङ्कृतः ॥ १६ ॥

त्वष्ट्रा महात्मना चापि कारितो विश्वकर्मणा ।
सुरभिर् नन्दिनी धेनुः कामधुक् कामदोहिनी ॥ १७ ॥

एताभिः कामवर्षाभिः सर्वकामसमृद्धिमान् ।
कल्पवृक्षः पारिजातो लताः कल्पलतादिकाः ॥ १८ ॥

यद् यद् इष्टतमं किञ्चित् तत्र तस्मिन् मखे स्थितम् ।
स्वयं मघवता पूष्णा हरिणा परिरक्षितः ॥ १९ ॥

दीयतां भुज्यतां वापि क्रियतां स्थीयतां सुखम् ।
एतैश् च सर्वतो वाक्यैर् दक्षस्य पूजितं मखम् ॥ २० ॥

आदौ तु वीरभद्रो ऽसौ भद्रकाल्या युतो ययौ ।
शोककोपपरीतात्मा पश्चाच् छूलपिनाकधृक् ॥ २१ ॥

अभ्याययौ महादेवो महाभूतैर् अलङ्कृतः ।
तानि भूतानि परितो मखे वेष्ट्य महेश्वरम् ॥ २२ ॥

क्रतुं विध्वंसयाम् आसुस् तत्र क्षोभो महान् अभूत् ।
पलायन्त ततः केचित् केचिद् गत्वा ततः शिवम् ॥ २३ ॥

केचित् स्तुवन्ति देवेशं केचित् कुप्यन्ति शङ्करम् ।
एवं विध्वंसितं यज्ञं दृष्ट्वा पूषा समभ्यगात् ॥ २४ ॥

पूष्णो दन्तान् अथोत्पाट्य इन्द्रं व्यद्रावयत् क्षणात् ।
भगस्य चक्षुषी विप्र वीरभद्रो व्यपाटयत् ॥ २५ ॥

दिवाकरं पुनर् दोर्भ्यां परिभ्राम्य समाक्षिपत् ।
ततः सुरगणाः सर्वे विष्णुं ते शरणं ययुः ॥ २६ ॥

देवा ऊचुः-

त्राहि त्राहि गदापाणे भूतनाथकृताद् भयात् ।
महेश्वरगणः कश्चित् प्रमथानां तु नायकः ।
तेन दग्धो मखः सर्वो वैष्णवः पश्यतो हरेः ॥ २७ ॥

ब्रह्मोवाच-

हरिणा चक्रम् उत्सृष्टं भूतनाथवधं प्रति ।
भूतनाथो ऽपि तच् चक्रम् आपतच् च तदाग्रसत् ॥ २८ ॥

ग्रस्ते चक्रे ततो विष्णोर् लोकपाला भयाद् ययुः ।
तथा स्थितान् अवेक्ष्याथ दक्षो यज्ञं सुरान् अपि ।
तुष्टाव शङ्करं देवं दक्षो भक्त्या प्रजापतिः ॥ २९ ॥

दक्ष उवाच-

जय शङ्कर सोमेश जय सर्वज्ञ शम्भवे ।
जय कल्याणभृच् छम्भो जय कालात्मने नमः ॥ ३० ॥

आदिकर्तर् नमस् ते ऽस्तु नीलकण्ठ नमो ऽस्तु ते ।
ब्रह्मप्रिय नमस् ते ऽस्तु ब्रह्मरूप नमो ऽस्तु ते ॥ ३१ ॥

त्रिमूर्तये नमो देव त्रिधाम परमेश्वर ।
सर्वमूर्ते नमस् ते ऽस्तु त्रैलोक्याधार कामद ॥ ३२ ॥

नमो वेदान्तवेद्याय नमस् ते परमात्मने ।
यज्ञरूप नमस् ते ऽस्तु यज्ञधाम नमो ऽस्तु ते ॥ ३३ ॥

यज्ञदान नमस् ते ऽस्तु हव्यवाह नमो ऽस्तु ते ।
यज्ञहर्त्रे नमस् ते ऽस्तु फलदाय नमो ऽस्तु ते ॥ ३४ ॥

त्राहि त्राहि जगन्नाथ शरणागतवत्सल ।
भक्तानाम् अप्य् अभक्तानां त्वम् एव शरणं प्रभो ॥ ३५ ॥

ब्रह्मोवाच-

एवं तु स्तुवतस् तस्य प्रसन्नो ऽभून् महेश्वरः ।
किं ददामीति तं प्राह क्रतुः पूर्णो ऽस्तु मे प्रभो ॥ ३६ ॥

तथेत्य् उवाच भगवान् देवदेवो महेश्वरः ।
शङ्करः सर्वभूतात्मा करुणावरुणालयः ॥ ३७ ॥

क्रतुं कृत्वा ततः पूर्णं तस्य दक्षस्य वै मुने ।
एवम् उक्त्वा स भगवान् भूतैर् अन्तरधीयत ॥ ३८ ॥

यथागतं सुरा जग्मुः स्वम् एव सदनं प्रति ।
ततः कदाचिद् देवानां दैत्यानां विग्रहो महान् ॥ ३९ ॥

बभूव तत्र दैत्येभ्यो भीता देवाः श्रियः पतिम् ।
तुष्टुवुः सर्वभावेन वचोभिस् तं जनार्दनम् ॥ ४० ॥

देवा ऊचुः-

शक्रादयो ऽपि त्रिदशाः कटाक्षम् ।
अवेक्ष्य यस्यास् तप आचरन्ति ।
सा चापि यत्पादरता च लक्ष्मीस् ।
तं ब्रह्मभूतं शरणं प्रपद्ये ॥ ४१ ॥

यस्मात् त्रिलोक्यां न परः समानो ।
न चाधिकस् तार्क्ष्यरथान् नृसिंहात् ।
स देवदेवो ऽवतु नः समस्तान् ।
महाभयेभ्यः कृपया प्रपन्नान् ॥ ४२ ॥

ब्रह्मोवाच-

ततः प्रसन्नो भगवाञ् शङ्खचक्रगदाधरः ।
किमर्थम् आगताः सर्वे तत्कर्तास्मीत्य् उवाच तान् ॥ ४३ ॥

देवा ऊचुः-

भयं च तीव्रं दैत्येभ्यो देवानां मधुसूदन ।
ततस् त्राणाय देवानां मतिं कुरु जनार्दन ॥ ४४ ॥

ब्रह्मोवाच-

तान् आगतान् हरिः प्राह ग्रस्तं चक्रं हरेण मे ।
किं करोमि गतं चक्रं भवन्तश् चार्तिम् आगताः ।
यान्तु सर्वे देवगणा रक्षा वः क्रियते मया ॥ ४६ ॥

ब्रह्मोवाच-

ततो गतेषु देवेषु विष्णुश् चक्रार्थम् उद्यतः ।
गोदावरीं ततो गत्वा शम्भोः पूजां प्रचक्रमे ॥ ४७ ॥

सुवर्णकमलैर् दिव्यैः सुगन्धैर् दशभिः शतैः ।
भक्तितो नित्यवत् पूजां चक्रे विष्णुर् उमापतेः ॥ ४८ ॥

एवं सम्पूज्यमाने तु तयोस् तत्त्वम् इदं शृणु ।
कमलानां सहस्रे तु यदैकं नैव पूर्यते ॥ ४९ ॥

तदासुरारिः स्वं नेत्रम् उत्पाट्यार्घ्यम् अकल्पयत् ।
अर्घ्यपात्रं करे गृह्य सहस्रकमलान्वितम् ।
ध्यात्वा शम्भुं ददाव् अर्घ्यम् अनन्यशरणो हरिः ॥ ५० ॥

विष्णुर् उवाच-

त्वम् एव देव जानीषे भावम् अन्तर्गतं नृणाम् ।
त्वम् एव शरणो ऽधीशो ऽत्र का भवेद् विचारणा ॥ ५१ ॥

ब्रह्मोवाच-

वदन्न् उदश्रुनयनो निलिल्ये ऽसाव् इतीश्वरे ।
भवानीसहितः शम्भुः पुरस्ताद् अभवत् तदा ॥ ५२ ॥

गाढम् आलिङ्ग्य विविधैर् वरैर् आपूरयद् धरिम् ।
तद् एव चक्रम् अभवन् नेत्रं चापि यथा पुरा ॥ ५३ ॥

ततः सुरगणाः सर्वे तुष्टुवुर् हरिशङ्करौ ।
गङ्गां चापि सरिच्छ्रेष्ठां देवं च वृषभध्वजम् ॥ ५४ ॥

ततः प्रभृति तत् तीर्थं चक्रतीर्थम् इति स्मृतम् ।
यस्यानुश्रवणेनैव मुच्यते सर्वकिल्बिषैः ॥ ५५ ॥

तत्र स्नानं च दानं च यः कुर्यात् पितृतर्पणम् ।
सर्वपापविनिर्मुक्तः पितृभिः स्वर्गभाग् भवेत् ।
तत् तु चक्राङ्कितं तीर्थम् अद्यापि परिदृश्यते ॥ ५६ ॥