Summary (SA)
Chapter 108- Story of King Ila who became Ilā, the mother of Purūravas
{{Ref- SS 176-179}}
ब्रह्मोवाच-
इलातीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् ।
ब्रह्महत्यादिपापानां पावनं सर्वकामदम् ॥ १ ॥
वैवस्वतान्वये जात इलो नाम जनेश्वरः ।
महत्या सेनया सार्धं जगाम मृगयावनम् ॥ २ ॥
परिबभ्राम गहनं बहुव्यालसमाकुलम् ।
नानाकारद्विजयुतं विटपैः परिशोभितम् ॥ ३ ॥
वनेचरं नृपश्रेष्ठो मृगयागतमानसः ।
तत्रैव मतिम् आधत्त इलो ऽमात्यान् अथाब्रवीत् ॥ ४ ॥
इल उवाच-
गच्छन्तु नगरं सर्वे मम पुत्रेण पालितम् ।
देशं कोशं बलं राज्यं पालयन्तु पुनश् च तम् ॥ ५ ॥
वसिष्ठो ऽपि तथा यातु आदायाग्नीन् पितेव नः ।
पत्नीभिः सहितो धीमान् अरण्ये ऽहं वसाम्य् अथ ॥ ६ ॥
अरण्यभोगभुग्भिश् च वाजिवारणमानुषैः ।
मृगयाशीलिभिः कैश्चिद् यान्तु सर्व इतः पुरीम् ॥ ७ ॥
ब्रह्मोवाच-
तथेत्य् उक्त्वा ययुस् ते ऽपि स्वयं प्रायाच् छनैर् गिरिम् ।
हिमवन्तं रत्नमयं वसंस् तत्र इलो नृपः ॥ ८ ॥
ददर्श कन्दरं तत्र नानारत्नविचित्रितम् ।
तत्र यक्षेश्वरः कश्चित् समन्युर् इति विश्रुतः ॥ ९ ॥
तस्य भार्या समानाम्नी भर्तृव्रतपरायणा ।
तस्मिन् वसत्य् असौ यक्षो रमणीये नगोत्तमे ॥ १० ॥
मृगरूपेण व्यचरद् भार्यया स महामतिः ।
स्वेच्छया स्ववने यक्षः क्रीडते नृत्यगीतकैः ॥ ११ ॥
इत्थं स यक्षो जानाति मृगरूपधरो ऽपि च ।
इलस् तु तं न जानाति कन्दरं यक्षपालितम् ॥ १२ ॥
यक्षस्य गेहं विपुलं नानारत्नविचित्रितम् ।
तत्रोपविष्टो नृपतिर् महत्या सेनया वृतः ॥ १३ ॥
वासं चक्रे स तत्रैव गेहे यक्षस्य धीमतः ।
स यक्षो ऽधर्मकोपेन भार्यया मृगरूपधृक् ॥ १४ ॥
इलं जेतुं न शक्नोमि याचितो न ददाति च ।
हृतं गेहं ममानेन किं करोमीत्य् अचिन्तयत् ॥ १५ ॥
युधि मत्तं कथं हन्यां चेति स्थित्वा स यक्षराट् ।
आत्मीयान् प्रेषयाम् आस यक्षाञ् शूरान् धनुर्धरान् ॥ १६ ॥
यक्ष उवाच-
युद्धे जित्वा च राजानम् इलम् उद्धतदन्तिनम् ।
गृहाद् यथान्यतो याति मम तत् कर्तुम् अर्हथ ॥ १७ ॥
ब्रह्मोवाच-
यक्षेश्वरस्य तद् वाक्याद् यक्षास् ते युद्धदुर्मदाः ।
इलं गत्वाब्रुवन् सर्वे निर्गच्छास्माद् गुहालयात् ॥ १८ ॥
न चेद् युद्धात् परिभ्रष्टः पलाय्य क्व गमिष्यसि ।
तद् यक्षवचनात् कोपाद् युद्धं चक्रे स राजराट् ॥ १९ ॥
जित्वा यक्षान् बहुविधान् उवास दश शर्वरीः ।
यक्षेश्वरो मृगो भूत्वा भार्ययापि वने वसन् ॥ २० ॥
हृतगेहो वनं प्राप्तो हृतभृत्यः स यक्षिणीम् ।
प्राह चिन्तापरो भूत्वा मृगीरूपधरां प्रियाम् ॥ २१ ॥
यक्ष उवाच-
राजा ऽयं दुर्मनाः कान्ते व्यसनासक्तमानसः ।
कथम् आयाति विपदं तत्रोपायो विचिन्त्यताम् ॥ २२ ॥
पापर्द्धिव्यसनान्तानि राज्यान्य् अखिलभूभुजाम् ।
प्रापयोमावनं सुभ्रूर् मृगी भूत्वा मनोहरा ॥ २३ ॥
प्रविशेत् तत्र राजायं स्त्री भविष्यत्य् असंशयम् ।
करणीयं त्वया भद्रे न चैतद् युज्यते मम ।
अहं तु पुरुषो येन त्वं पुनः स्त्री च यक्षिणी ॥ २४ ॥
यक्षिण्य् उवाच-
कथं त्वया न गन्तव्यम् उमावनम् अनुत्तमम् ।
गते ऽपि त्वयि को दोषस् तन् मे कथय तत्त्वतः ॥ २५ ॥
यक्ष उवाच-
हिमवत्पर्वतश्रेष्ठ उमया सहितः शिवः ।
देवैर् गणैर् अनुवृतो विचचार यथासुखम् ।
पार्वती शङ्करं प्राह कदाचिद् रहसि स्थितम् ॥ २६ ॥
पार्वत्य् उवाच-
स्त्रीणाम् एष स्वभावो ऽस्ति रतं गोपायितं भवेत् ।
तस्मान् मे नियतं देशम् आज्ञया रक्षितं तव ॥ २७ ॥
देहि मे त्रिदशेशान उमावनम् इति श्रुतम् ।
विना त्वया गणेशेन कार्त्तिकेयेन नन्दिना ॥ २८ ॥
यस् त्व् अत्र प्रविशेन् नाथ स्त्रीत्वं तस्य भवेद् इति ॥ २९ ॥
यक्ष उवाच-
इत्य् आज्ञोमावने दत्ता प्रसन्नेनेन्दुमौलिना ।
किं करोमि पुमान् कान्ते त्वया प्रणयनार्दितः ।
तस्मान् मया न गन्तव्यम् उमाया वनम् उत्तमम् ॥ ३० ॥
ब्रह्मोवाच-
तद् भर्तृवचनं श्रुत्वा यक्षिणी कामरूपिणी ।
मृगी भूत्वा विशालाक्षी इलस्य पुरतो ऽभवत् ॥ ३१ ॥
यक्षस् तु संस्थितस् तत्र ददर्शेलो मृगीं तदा ।
मृगयासक्तचित्तो वै मृगीं दृष्ट्वा विशेषतः ॥ ३२ ॥
एक एव हयारूढो निर्ययौ तां मृगीम् अनु ।
साकर्षत शनैस् तं तु राजानं मृगयाकुलम् ॥ ३३ ॥
शनैर् जगाम सा तत्र यद् उमावनम् उच्यते ।
अदृश्या तु मृगी तस्मै दर्शयन्ती क्वचित् क्वचित् ॥ ३४ ॥
तिष्ठन्ती चैव गच्छन्ती धावन्ती च विभीतवत् ।
हरिणी चपलाक्षी सा तम् आकर्षद् उमावनम् ॥ ३५ ॥
अनुप्राप्तो हयारूढस् तत् प्राप स उमावनम् ।
उमावनं प्रविष्टं तं ज्ञात्वा सा यक्षिणी तदा ॥ ३६ ॥
मृगीरूपं परित्यज्य यक्षिणी कामरूपिणी ।
दिव्यरूपं समास्थाय चाशोकतरुसन्निधौ ॥ ३७ ॥
तच्छाखालम्बितकरा दिव्यगन्धानुलेपना ।
दिव्यरूपधरा तन्वी कृतकार्या समा तदा ॥ ३८ ॥
हसन्ती नृपतिं प्रेक्ष्य श्रान्तं हयगतं तदा ।
मृगीम् आलोकयन्तं तं चपलाक्षम् इलं तदा ॥ ३९ ॥
भर्तृवाक्यम् अशेषेण स्मरन्ती प्राह भूमिपम् ॥ ४० ॥
समोवाच-
हयारूढाबला तन्वि क्व एकैव तु गच्छसि ।
पुरुषस्य च वेषेण इले कम् अनुयास्यसि ॥ ४१ ॥
ब्रह्मोवाच-
इलेति वचनं श्रुत्वा राजासौ क्रोधमूर्छितः ।
यक्षिणीं भर्त्सयित्वासौ ताम् अपृच्छन् मृगीं पुनः ॥ ४२ ॥
तथापि यक्षिणी प्राह इले किम् अनुवीक्षसे ।
इलेति वचनं श्रुत्वा धृतचापो हयस्थितः ॥ ४३ ॥
कुपितो दर्शयाम् आस त्रैलोक्यविजयी धनुः ।
पुनः सा प्राह नृपतिं महात्मानम् इले स्वयम् ॥ ४४ ॥
प्रेक्षस्व पश्चान् मां ब्रूहि असत्यां सत्यवादिनीम् ।
तदा चालोकयद् राजा स्तनौ तुङ्गौ भुजान्तरे ॥ ४५ ॥
किम् इदं मम सञ्जातम् इत्य् एवं चकितो ऽभवत् ॥ ४६ ॥
इलोवाच-
किम् इदं मम सञ्जातं जानीते भवती स्फुटम् ।
वद सर्वं यथातथ्यं त्वं का वा वद सुव्रते ॥ ४७ ॥
यक्षिण्य् उवाच-
हिमवत्कन्दरश्रेष्ठे समन्युर् वसते पतिः ।
यक्षाणाम् अधिपः श्रीमांस् तद्भार्याहं तु यक्षिणी ॥ ४८ ॥
यत्कन्दरे भवान् राजा तूपविष्टः सुशीतले ।
यस्य यक्षा हता मोहात् त्वया हि सङ्गरं विना ॥ ४९ ॥
ततो ऽहं निर्गमार्थं ते मृगी भूत्वा उमावनम् ।
प्रविष्टा त्वं प्रविष्टो ऽसि पुरा प्राह महेश्वरः ॥ ५० ॥
यस् त्व् अत्र प्रविशेन् मन्दः पुमान् स्त्रीत्वम् अवाप्स्यति ।
तस्मात् स्त्रीत्वम् अवाप्तो ऽसि न त्वं दुःखितुम् अर्हसि ।
प्रौढो ऽपि को ऽत्र जानाति विचित्रभवितव्यताम् ॥ ५१ ॥
ब्रह्मोवाच-
यक्षिणीवचनं श्रुत्वा हयारूढस् तदापतत् ।
तम् आश्वास्य पुनः सैव यक्षिणी वाक्यम् अब्रवीत् ॥ ५२ ॥
यक्षिण्य् उवाच-
स्त्रीत्वं जातं जातम् एव न पुंस्त्वं कर्तुम् अर्हसि ।
गृहाण विद्यां स्त्रीयोग्यां नृत्यं गीतम् अलङ्कृतिम् ।
स्त्रीलालित्यं स्त्रीविलासं स्त्रीकृत्यं सर्वम् एव तत् ॥ ५३ ॥
ब्रह्मोवाच-
इला सर्वम् अथावाप्य यक्षिणीं वाक्यम् अब्रवीत् ॥ ५४ ॥
इलोवाच-
को वा भर्ता किं तु कृत्यं पुनः पुंस्त्वं कथं भवेत् ।
एतद् वदस्व कल्याणी दुःखार्ताया विशेषतः ।
आर्तानाम् आर्तिशमनाच् छ्रेयो नाभ्यधिकं क्वचित् ॥ ५५ ॥
यक्षिण्य् उवाच-
बुधः सोमसुतो नाम वनाद् अस्माच् च पूर्वतः ।
आश्रमस् तस्य सुभगे पितरं नित्यम् एष्यति ॥ ५६ ॥
अनेनैव पथा सोमं पितरं स बुधो ग्रहः ।
द्रष्टुं याति ततो नित्यं नमस्कर्तुं तथैव च ॥ ५७ ॥
यदा याति बुधः शान्तस् तदात्मानं च दर्शय ।
तं दृष्ट्वा त्वं तु सुभगे सर्वकामान् अवाप्स्यसि ॥ ५८ ॥
ब्रह्मोवाच-
ताम् आश्वास्य ततः सुभ्रूर् यक्षिण्य् अन्तरधीयत ।
यक्षिणी सा तम् आचष्ट यक्षो ऽपि सुखम् आप्तवान् ॥ ५९ ॥
इलसैन्यं च तत्रासीत् तद् गतं च यथासुखम् ।
उमावनस्थिता चेला गायन्ती नृत्यती पुनः ॥ ६० ॥
स्त्रीभावम् अनुचेष्टन्ती स्मरन्ती कर्मणो गतिम् ।
कदाचित् क्रियमाणे तु इलया नृत्यकर्मणि ॥ ६१ ॥
ताम् अपश्यद् बुधो धीमान् पितरं गन्तुम् उद्यतः ।
इलां दृष्ट्वा गतिं त्यक्त्वा ताम् आगत्याब्रवीद् बुधः ॥ ६२ ॥
बुध उवाच-
भार्या भव मम स्वस्था सर्वाभ्यस् त्वं प्रिया भव ॥ ६३ ॥
ब्रह्मोवाच-
बुधवाक्यम् इला भक्त्या त्व् अभिनन्द्य तथाकरोत् ।
स्मृत्वा च यक्षिणीवाक्यं ततस् तुष्टाभवन् मुने ॥ ६४ ॥
बुधो रेमे तया प्रीत्या नीत्वा स्वस्थानम् उत्तमम् ।
सा चापि सर्वभावेन तोषयाम् आस तं पतिम् ।
ततो बहुतिथे काले बुधस् तुष्टो ऽवदत् प्रियाम् ॥ ६५ ॥
बुध उवाच-
किं ते देयं मया भद्रे प्रियं यन् मनसि स्थितम् ॥ ६६ ॥
ब्रह्मोवाच-
तद्वाक्यसमकालं तु पुत्रं देहीत्य् अभाषत ।
इला बुधं सोमसुतं प्रीतिमन्तं प्रियं तथा ॥ ६७ ॥
बुध उवाच-
अमोघम् एतन् मद्वीर्यं तथा प्रीतिसमुद्भवम् ।
पुत्रस् ते भविता तस्मात् क्षत्रियो लोकविश्रुतः ॥ ६८ ॥
सोमवंशकरः श्रीमान् आदित्य इव तेजसा ।
बुद्ध्या बृहस्पतिसमः क्षमया पृथिवीसमः ॥ ६९ ॥
वीर्येणाजौ हरिर् इव कोपेन हुतभुग् यथा ॥ ७० ॥
ब्रह्मोवाच-
तस्मिन्न् उत्पद्यमाने तु बुधपुत्रे महात्मनि ।
जयशब्दश् च सर्वत्र त्व् आसीच् च सुरवेश्मनि ॥ ७१ ॥
बुधपुत्रे समुत्पन्ने तत्राजग्मुः सुरेश्वराः ।
अहम् अप्य् आगमं तत्र मुदा युक्तो महामते ॥ ७२ ॥
जातमात्रः सुतो रावम् अकरोत् स पृथुस्वरम् ।
तेन सर्वे ऽप्य् अवोचन् वै सङ्गता ऋषयः सुराः ॥ ७३ ॥
यस्मात् पुरू रवो ऽस्येति तस्माद् एष पुरूरवाः ।
स्याद् इत्य् एवं नाम चक्रुः सर्वे सन्तुष्टमानसाः ॥ ७४ ॥
बुधो ऽप्य् अध्यापयाम् आस क्षात्रविद्यां सुतं शुभाम् ।
धनुर्वेदं सप्रयोगं बुधः प्रादात् तदात्मजे ॥ ७५ ॥
स शीघ्रं वृद्धिम् अगमच् छुक्लपक्षे यथा शशी ।
स मातरं दुःखयुतां समीक्ष्येलां महामतिः ।
नमस्याथ विनीतात्मा इलाम् ऐलो ऽब्रवीद् इदम् ॥ ७६ ॥
ऐल उवाच-
बुधो मातर् मम पिता तव भर्ता प्रियस् तथा ।
अहं च पुत्रः कर्मण्यः कस्मात् ते मानसो ज्वरः ॥ ७७ ॥
इलोवाच-
सत्यं पुत्र बुधो भर्ता त्वं च पुत्रो गुणाकरः ।
भर्तृपुत्रकृता चिन्ता न ममास्ति कदाचन ॥ ७८ ॥
तथापि पूर्वजं किञ्चिद् दुःखं स्मृत्वा पुनः पुनः ।
चिन्तयेयं महाबुद्धे ततो मातरम् अब्रवीत् ॥ ७९ ॥
ऐल उवाच-
निवेदयस्व मे मातस् तद् एव प्रथमं मम ॥ ८० ॥
ब्रह्मोवाच-
इला चैनम् उवाचेदं रहोवाचं कथं वदे ।
तथापि पुत्र ते वच्मि पित्रोः पुत्रो यतो गतिः ।
मग्नानां दुःखपाथोब्धौ पुत्रः प्रवहणं परम् ॥ ८१ ॥
ब्रह्मोवाच-
तन् मातृवचनं श्रुत्वा विनीतः प्राह मातरम् ।
पादयोः पतितश् चापि वद मातर् यथा तथा ॥ ८२ ॥
ब्रह्मोवाच-
सा पुरूरवसं प्राह इक्ष्वाकूणां तथा कुलम् ।
तत्रोत्पत्तिं स्वस्य नाम राज्यप्राप्तिं प्रियान् सुतान् ॥ ८३ ॥
पुरोधसं वसिष्ठं च प्रियां भार्यां स्वकं पदम् ।
वननिर्याणम् एवाथ अमात्यानां पुरोधसः ॥ ८४ ॥
प्रेषणं च नगर्यां तां मृगयासक्तिम् एव च ।
हिमवत्कन्दरगतिं यक्षेश्वरगृहे गतिम् ॥ ८५ ॥
उमावनप्रवेशं च स्त्रीत्वप्राप्तिम् अशेषतः ।
महेश्वराज्ञया तत्र चाप्रवेशं नरस्य तु ॥ ८६ ॥
यक्षिणीवाक्यम् अप्य् अस्य वरदानं तथैव च ।
बुधप्राप्तिं तथा प्रीतिं पुत्रोत्पत्त्याद्य् अशेषतः ॥ ८७ ॥
कथयाम् आस तत् सर्वं श्रुत्वा मातरम् अब्रवीत् ।
पुरूरवाः किं करोमि किं कृत्वा सुकृतं भवेत् ॥ ८८ ॥
एतावता ते तृप्तिश् चेद् अलम् एतेन चाम्बिके ।
यद् अप्य् अन्यन् मनोवर्ति तद् अप्य् आज्ञापयस्व मे ॥ ८९ ॥
इलोवाच-
इच्छेयं पुंस्त्वम् उत्कृष्टम् इच्छेयं राज्यम् उत्तमम् ।
अभिषेकं च पुत्राणां तव चापि विशेषतः ॥ ९० ॥
दानं दातुं च यष्टुं च मुक्तिमार्गस्य वीक्षणम् ।
सर्वं च कर्तुम् इच्छामि तव पुत्र प्रसादतः ॥ ९१ ॥
पुत्र उवाच-
उपायं त्वा तु पृच्छामि येन पुंस्त्वम् अवाप्स्यसि ।
तपसो वान्यतो वापि वदस्व मम तत्त्वतः ॥ ९२ ॥
इलोवाच-
बुधं त्वं पितरं पृच्छ गत्वा पुत्र यथार्थवत् ।
स तु सर्वं तु जानाति उपदेक्ष्यति ते हितम् ॥ ९३ ॥
ब्रह्मोवाच-
तन्मातृवचनाद् ऐलो गत्वा पितरम् अञ्जसा ।
उवाच प्रणतो भूत्वा मातुः कृत्यं तथात्मनः ॥ ९४ ॥
बुध उवाच-
इलं जाने महाप्राज्ञ इलां जातां पुनस् तथा ।
उमावनप्रवेशं च शम्भोर् आज्ञां तथैव च ॥ ९५ ॥
तस्माच् छम्भुप्रसादेन उमायाश् च प्रसादतः ।
विशापो भविता पुत्र ताव् आराध्य न चान्यथा ॥ ९६ ॥
पुरूरवा उवाच-
पश्येयं तं कथं देवं कथं वा मातरं शिवाम् ।
तीर्थाद् वा तपसो वापि तत् पितः प्रथमं वद ॥ ९७ ॥
बुध उवाच-
गौतमीं गच्छ पुत्र त्वं तत्रास्ते सर्वदा शिवः ।
उमया सहितः श्रीमाञ् शापहन्ता वरप्रदः ॥ ९८ ॥
ब्रह्मोवाच-
पुरूरवाः पितुर् वाक्यं श्रुत्वा तु मुदितो ऽभवत् ।
गौतमीं तपसे धीमान् गङ्गां त्रैलोक्यपावनीम् ॥ ९९ ॥
पुंस्त्वम् इच्छंस् तथा मातुर् जगाम तपसे त्वरन् ।
हिमवन्तं गिरिं नत्वा मातरं पितरं गुरुम् ॥ १०० ॥
गच्छन्तम् अन्वगात् पुत्रम् इला सोमसुतस् तथा ।
ते सर्वे गौतमीं प्राप्ता हिमवत्पर्वतोत्तमात् ॥ १०१ ॥
तत्र स्नात्वा तपः किञ्चित् कृत्वा चक्रुः स्तुतिं पराम् ।
भवस्य देवदेवस्य स्तुतिक्रमम् इमं शृणु ॥ १०२ ॥
बुधस् तुष्टाव प्रथमम् इला च तदनन्तरम् ।
ततः पुरूरवाः पुत्रो गौरीं देवीं च शङ्करम् ॥ १०३ ॥
बुध उवाच-
यौ कुङ्कुमेन स्वशरीरजेन ।
स्वभावहेमप्रतिमौ सरूपौ ।
याव् अर्चितौ स्कन्दगणेश्वराभ्यां ।
तौ मे शरण्यौ शरणं भवेताम् ॥ १०४ ॥
इलोवाच-
संसारतापत्रयदावदग्धाः ।
शरीरिणो यौ परिचिन्तयन्तः ।
सद्यः परां निर्वृतिम् आप्नुवन्ति ।
तौ शङ्करौ मे शरणं भवेताम् ॥ १०५ ॥
आर्ता ह्य् अहं पीडितमानसा ते ।
क्लेशादिगोप्ता न परो ऽस्ति कश्चित् ।
देव त्वदीयौ चरणौ सुपुण्यौ ।
तौ मे शरण्यौ शरणं भवेताम् ॥ १०६ ॥
पुरूरवा उवाच-
ययोः सकाशाद् इदम् अभ्युदैति ।
प्रयाति चान्ते लयम् एव सर्वम् ।
जगच्छरण्यौ जगदात्मकौ तु ।
गौरीहरौ मे शरणं भवेताम् ॥ १०७ ॥
यौ देववृन्देषु महोत्सवे तु ।
पादौ गृहाणेश गिरीशपुत्र्याः ।
प्रोक्तं धृतौ प्रीतिवशाच् छिवेन ।
तौ मे शरण्यौ शरणं भवेताम् ॥ १०८ ॥
श्रीदेव्य् उवाच-
किम् अभीष्टं प्रदास्यामि युष्मभ्यं तद् वदन्तु मे ।
कृतकृत्याः स्थ भद्रं वो देवानाम् अपि दुष्करम् ॥ १०९ ॥
पुरूरवा उवाच-
इलो राजा तवाज्ञात्वा वनं प्राविशद् अम्बिके ।
तत् क्षमस्व सुरेशानि पुंस्त्वं दातुं त्वम् अर्हसि ॥ ११० ॥
ब्रह्मोवाच-
तथेत्य् उवाच तान् सर्वान् भवस्य तु मते स्थिता ।
ततः स भगवान् आह देवीवाक्यरतः सदा ॥ १११ ॥
शिव उवाच-
अत्राभिषेकमात्रेण पुंस्त्वं प्राप्नोत्व् अयं नृपः ॥ ११२ ॥
ब्रह्मोवाच-
स्नाताया बुधभार्यायाः शरीराद् वारि सुस्रुवे ।
नृत्यं गीतं च लावण्यं यक्षिण्या यद् उपार्जितम् ॥ ११३ ॥
तत् सर्वं वारिधाराभिर् गङ्गाम्भसि समाविशत् ।
नृत्या गीता च सौभाग्या इमा नद्यो बभूविरे ॥ ११४ ॥
ताश् चापि सङ्गता गङ्गां ते पुण्याः सङ्गमास् त्रयः ।
तेषु स्नानं च दानं च सुरराज्यफलप्रदम् ॥ ११५ ॥
इला पुंस्त्वम् अवाप्याथ गौरीशम्भोः प्रसादतः ।
महाभ्युदयसिद्ध्यर्थं वाजिमेधम् अथाकरोत् ॥ ११६ ॥
पुरोधसं वसिष्ठं च भार्यां पुत्रांस् तथैव च ।
अमात्यांश् च बलं कोशम् आनीय स नृपोत्तमः ॥ ११७ ॥
चतुरङ्गं बलं राज्यं दण्डके ऽस्थापयत् तदा ।
इलस्य नाम्ना विख्यातं तत्र तत् पुरम् उच्यते ॥ ११८ ॥
पूर्वजातान् अथो पुत्रान् सूर्यवंशक्रमागते ।
राज्ये ऽभिषिच्य पश्चात् तम् ऐलं स्नेहाद् असिञ्चयत् ॥ ११९ ॥
सोमवंशकरः श्रीमान् अयं राजा भवेद् इति ।
सर्वेभ्यो मतिमानेभ्यो ज्येष्ठः श्रेष्ठो ऽभवन् मुने ॥ १२० ॥
यत्र च क्रतवो वृत्ता इलस्य नृपतेः शुभाः ।
यत्र पुंस्त्वम् अवाप्याथ यत्र पुत्राः समागताः ॥ १२१ ॥
यक्षिणीदत्तनृत्यादिगीतसौभाग्यमङ्गलाः ।
नद्यो भूत्वा यत्र गङ्गां सङ्गतास् तानि नारद ॥ १२२ ॥
तीर्थानि शुभदान्य् आसन् सहस्राण्य् अथ षोडश ।
उभयोस् तीरयोस् तात तत्र शम्भुर् इलेश्वरः ।
तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ १२३ ॥