107

Summary (SA)

Chapter 107- Story of Vṛddhagautama and the old maid

{{Ref- SS 174-176}}

ब्रह्मोवाच-

वृद्धासङ्गमम् आख्यातं यत्र वृद्धेश्वरः शिवः ।
तस्याख्यानं प्रवक्ष्यामि शृणु पापप्रणाशनम् ॥ १ ॥

गौतमो वृद्ध इत्य् उक्तो मुनिर् आसीन् महातपाः ।
यदा पुराभवद् बालो गौतमस्य सुतो द्विजः ॥ २ ॥

अनासः स पुरोत्पन्नस् तस्माद् विकृतरूपधृक् ।
स वैराग्याज् जगामाथ देशं तीर्थम् इतस् ततः ॥ ३ ॥

उपाध्यायेन नैवासील् लज्जितस्य समागमः ।
शिष्यैर् अन्यैः सहाध्यायो लज्जितस्य च नाभवत् ॥ ४ ॥

उपनीतः कथञ्चिच् च पित्रा वै गौतमेन सः ।
एतावता गौतमो ऽपि व्यगमच् चरितुं बहिः ॥ ५ ॥

एवं बहुतिथे काले ब्रह्ममात्रा धृते द्विजे ।
नैव चाध्ययनं तस्य सञ्जातं गौतमस्य हि ॥ ६ ॥

नैव शास्त्रस्य चाभ्यासो गौतमस्याभवत् तदा ।
अग्निकार्यं ततश् चक्रे नित्यम् एव यतव्रतः ॥ ७ ॥

गायत्र्यभ्यासमात्रेण ब्राह्मणो नामधारकः ।
अग्न्युपासनमात्रं च गायत्र्यभ्यसनं तथा ॥ ८ ॥

एतावता ब्राह्मणत्वं गौतमस्याभवन् मुने ।
उपासतो ऽग्निं विधिवद् गायत्रीं च महात्मनः ॥ ९ ॥

तस्यायुर् ववृधे पुत्र गौतमस्य चिरायुषः ।
न दारसङ्ग्रहं लेभे नैव दातास्ति कन्यकाम् ॥ १० ॥

तथा चरंस् तीर्थदेशे वनेषु विविधेषु च ।
आश्रमेषु च पुण्येषु अटन्न् आस्ते स गौतमः ॥ ११ ॥

एवं भ्रमञ् शीतगिरिम् आश्रित्यास्ते स गौतमः ।
तत्रापश्यद् गुहां रम्यां वल्लीविटपमालिनीम् ॥ १२ ॥

तत्रोपविश्य विप्रेन्द्रो वस्तुं समकरोन् मतिम् ।
चिन्तयंस् तु प्रविष्टो ऽसाव् अपश्यत् स्त्रियम् उत्तमाम् ॥ १३ ॥

शिथिलाङ्गीम् अथ कृशां वृद्धां च तपसि स्थिताम् ।
ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम् ॥ १४ ॥

स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान् ।
नमस्यन्तं मुनिश्रेष्ठं तं गौतमम् अवारयत् ॥ १५ ॥

वृद्धोवाच-

गुरुस् त्वं भविता मह्यं न मां वन्दितुम् अर्हसि ।
आयुर् विद्या धनं कीर्तिर् धर्मः स्वर्गादिकं च यत् ।
तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः ॥ १६ ॥

ब्रह्मोवाच-

कृताञ्जलिपुटस् तां वै गौतमः प्राह विस्मितः ॥ १७ ॥

गौतम उवाच-

तपस्विनी त्वं वृद्धा च गुणज्येष्ठा च भामिनी ।
अल्पविद्यस् त्व् अल्पवया अहं तव गुरुः कथम् ॥ १८ ॥

वृद्धोवाच-

आर्ष्टिषेणप्रियपुत्र ऋतध्वज इति श्रुतः ।
गुणवान् मतिमाञ् शूरः क्षत्रधर्मपरायणः ॥ १९ ॥

स कदाचिद् वनं प्रायान् मृगयाकृष्टचेतनः ।
विश्रामम् अकरोद् अस्यां गुहायां स ऋतध्वजः ॥ २० ॥

युवा स मतिमान् दक्षो बलेन महता वृतः ।
तं विश्रान्तं नृपवरम् अप्सरा ददृशे ततः ॥ २१ ॥

गन्धर्वराजस्य सुता सुश्यामा इति विश्रुता ।
तां दृष्ट्वा चकमे राजा राजानं चकमे च सा ॥ २२ ॥

इति क्रीडा समभवत् तया राज्ञो महामते ।
निवृत्तकामो राजेन्द्रस् ताम् आपृच्छ्यागमद् गृहम् ॥ २३ ॥

उत्पन्नाहं ततस् तस्यां सुश्यामायां महामते ।
गच्छन्ती मां तदा माता इदम् आह तपोधन ॥ २४ ॥

सुश्यामोवाच-

यस् त्व् अस्यां प्रविशेद् भद्रे स ते भर्ता भविष्यति ॥ २५ ॥

वृद्धोवाच-

इत्य् उक्त्वा सा जगमाथ माता मम महामते ।
तस्माद् अत्र प्रविष्टस् त्वं पुमान् नान्यः कदाचन ॥ २६ ॥

सहस्राणि तथाशीतिं कृत्वा राज्यं पिता मम ।
अत्रैव च तपस् तप्त्वा ततः स्वर्गम् उपेयिवान् ॥ २७ ॥

स्वर्गं याते ऽपि पितरि सहस्राणि तथा दश ।
वर्षाणि मुनिशार्दूल राज्यं कृत्वा तथा परः ॥ २८ ॥

स्वर्गे यातो मम भ्राता अहम् अत्रैव संस्थिता ।
अहं ब्रह्मन् नान्यवृत्ता न माता न पिता मम ॥ २९ ॥

अहम् आत्मेश्वरी ब्रह्मन् निविष्टा क्षत्रकन्यका ।
तस्माद् भजस्व मां ब्रह्मन् व्रतस्थां पुरुषार्थिनीम् ॥ ३० ॥

गौतम उवाच-

सहस्रायुर् अहं भद्रे मत्तस् त्वं वयसाधिका ।
अहं बालस् त्वं तु वृद्धा नैवायं घटते मिथः ॥ ३१ ॥

वृद्धोवाच-

त्वं भर्ता मे पुरा दिष्टो नान्यो भर्ता मतो मम ।
धात्रा दत्तस् ततस् त्वं मां न निराकर्तुम् अर्हसि ॥ ३२ ॥

अथवा नेच्छसि मां त्वम् अप्रदुष्टाम् अनुव्रताम् ।
ततस् त्यक्ष्यामि जीवं मे इदानीं तव पश्यतः ॥ ३३ ॥

अपेक्षिताप्राप्तितो हि देहिनां मरणं वरम् ।
अनुरक्तजनत्यागे पातकान्तो न विद्यते ॥ ३४ ॥

ब्रह्मोवाच-

वृद्धायास् तद् वचः श्रुत्वा गौतमो वाक्यम् अब्रवीत् ॥ ३५ ॥

गौतम उवाच-

अहं तपोविरहितो विद्याहीनो ह्य् अकिञ्चनः ।
नाहं वरो हि योग्यस् ते कुरूपो भोगवर्जितः ॥ ३६ ॥

अनासो ऽहं किं करोमि अतपोविद्य एव च ।
तस्मात् सुरूपं सुविद्याम् आपाद्य प्रथमं शुभे ।
पश्चात् ते वचनं कार्यं ततो वृद्धाब्रवीद् द्विजम् ॥ ३७ ॥

वृद्धोवाच-

मया सरस्वती देवी तोषिता तपसा द्विज ।
तथैवापो रूपवत्यो रूपदाताग्निर् एव च ॥ ३८ ॥

तस्माद् वागीश्वरी देवी सा ते विद्यां प्रदास्यति ।
अग्निश् च रूपवान् देवस् तव रूपं प्रदास्यति ॥ ३९ ॥

ब्रह्मोवाच-

एवम् उक्त्वा गौतमं तं वृद्धोवाच विभावसुम् ।
प्रार्थयित्वा सुविद्यं तं सुरूपं चाकरोन् मुनिम् ॥ ४० ॥

ततः सुविद्यः सुभगः सुकान्तो ।
वृद्धां स पत्नीम् अकरोत् प्रीतियुक्तः ।
तया स रेमे बहुला मनोज्ञया ।
समाः सुखं प्रीतमना गुहायाम् ॥ ४१ ॥

कदाचित् तत्र वसतोर् दम्पत्योर् मुदतोर् गिरौ ।
गुहायां मुनिशार्दूल आजग्मुर् मुनयो ऽमलाः ॥ ४२ ॥

वसिष्ठवामदेवाद्या ये चान्ये च महर्षयः ।
भ्रमन्तः पुण्यतीर्थानि प्राप्नुवंस् तस्य तां गुहाम् ॥ ४३ ॥

आगतांस् तान् ऋषीञ् ज्ञात्वा गौतमः सह भार्यया ।
सत्कारम् अकरोत् तेषां जहसुस् तं च केचन ॥ ४४ ॥

ये बाला यौवनोन्मत्ता वयसा ये च मध्यमाः ।
वृद्धां च गौतमं प्रेक्ष्य जहसुस् तत्र केचन ॥ ४५ ॥

ऋषय ऊचुः-

पुत्रो ऽयं तव पौत्रो वा वृद्धे को गौतमो ऽभवत् ।
सत्यं वदस्व कल्याणि इत्य् एवं जहसुर् द्विजाः ॥ ४६ ॥

विषं वृद्धस्य युवती वृद्धाया अमृतं युवा ।
इष्टानिष्टसमायोगो दृष्टो ऽस्माभिर् अहो चिरात् ॥ ४७ ॥

ब्रह्मोवाच-

इत्य् एवम् ऊचिरे केचिद् दम्पत्योः शृण्वतोस् तदा ।
एवम् उक्त्वा कृतातिथ्या ययुः सर्वे महर्षयः ॥ ४८ ॥

ऋषीणां वचनं श्रुत्वा उभाव् अपि सुदुःखितौ ।
लज्जितौ च महाप्राज्ञौ गौतमो भार्यया सह ।
पप्रच्छ मुनिशार्दूलम् अगस्त्यम् ऋषिसत्तमम् ॥ ४९ ॥

गौतम उवाच-

को देशः किम् उ तीर्थं वा यत्र श्रेयः समाप्यते ।
शीघ्रम् एव महाप्राज्ञ भुक्तिमुक्तिप्रदायकम् ॥ ५० ॥

अगस्त्य उवाच-

वदद्भिर् मुनिभिर् ब्रह्मन् मया श्रुतम् इदं वचः ।
सर्वे कामास् तत्र पूर्णा गौतम्यां नात्र संशयः ॥ ५१ ॥

तस्माद् गच्छ महाबुद्धे गौतमीं पापनाशिनीम् ।
अहं त्वाम् अनुयास्यामि यथेच्छसि तथा कुरु ॥ ५२ ॥

ब्रह्मोवाच-

एतच् छ्रुत्वागस्त्यवाक्यं वृद्धया गौतमो ऽभ्यगात् ।
तत्र तेपे तपस् तीव्रं पत्न्या स भगवान् ऋषिः ॥ ५३ ॥

स्तुतिं चकार देवस्य शम्भोर् विष्णोस् तथैव च ।
गङ्गां च तोषयाम् आस भार्यार्थं भगवान् ऋषिः ॥ ५४ ॥

गौतम उवाच-

खिन्नात्मनाम् अत्र भवे त्वम् एव शरणं शिवः ।
मरुभूमाव् अध्वगानां विटपीव प्रियायुतः ॥ ५५ ॥

उच्चावचानां भूतानां सर्वथा पापनोदनः ।
सस्यानां घनवत् कृष्ण त्वम् अवग्रहशोषिणाम् ॥ ५६ ॥

वैकुण्ठदुर्गनिःश्रेणिस् त्वं पीयूषतरङ्गिणी ।
अधोगतानां तप्तानां शरणं भव गौतमि ॥ ५७ ॥

ब्रह्मोवाच-

ततस् तुष्टावदद् वाक्यं गौतमं वृद्धया युतम् ।
शरणागतदीनार्तं शरण्या गौतमी मुदा ॥ ५८ ॥

गौतम्य् उवाच-

अभिषिञ्चस्व भार्यां त्वं मज्जलैर् मन्त्रसंयुतैः ।
कलशैर् उपचारैश् च ततः पत्नी तव प्रिया ॥ ५९ ॥

सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना ।
सर्वलक्षणसम्पूर्णा रम्यरूपम् अवाप्स्यति ॥ ६० ॥

रूपवत्या पुनस् त्वं वै भार्यया चाभिषेचितः ।
सर्वलक्षणसम्पूर्णः कान्तं रूपम् अवाप्स्यसि ॥ ६१ ॥

ब्रह्मोवाच-

तथेति गाङ्गवचनाद् यथोक्तं तौ च चक्रतुः ।
सुरूपताम् उभौ प्राप्तौ गौतम्याश् च प्रसादतः ॥ ६२ ॥

अभिषेकोदकं यच् च सा नदी समजायत ।
तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम ॥ ६३ ॥

वृद्धा नदीति विख्याता गौतमो ऽपि तथोच्यते ।
वृद्धगौतम इत्य् उक्त ऋषिभिः समवासिभिः ।
वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम् ॥ ६४ ॥

वृद्धोवाच-

मन्नाम्नीयं नदी देवि वृद्धा चेत्य् अभिधीयताम् ।
त्वया च सङ्गमस् तस्यास् तस्यास् तीर्थम् अनुत्तमम् ॥ ६५ ॥

रूपसौभाग्यसम्पत्तिपुत्रपौत्रप्रवर्धनम् ।
आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम् ।
स्नानदानादिहोमैश् च पितॄणां पावनं परम् ॥ ६६ ॥

ब्रह्मोवाच-

अस्त्व् इत्य् आह च तां गङ्गा सुवृद्धां गौतमप्रियाम् ।
गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम् ॥ ६७ ॥

तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः ।
तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम् ॥ ६८ ॥

ततः प्रभृति तत् तीर्थं वृद्धासङ्गमम् उच्यते ॥ ६९ ॥