106

Summary (SA)

Chapter 106- Story of the origin and distribution of the nectar of immortality

{{Ref- SS 172-173}}

ब्रह्मोवाच-

प्रवरासङ्गमो नाम श्रेष्ठा चैव महानदी ।
यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत् ॥ १ ॥

देवानां दानवानां च सङ्गमो ऽभूत् सुदारुणः ।
तेषां परस्परं वापि प्रीतिश् चाभून् महामुने ॥ २ ॥

ते ऽप्य् एवं मन्त्रयाम् आसुर् देवा वै दानवा मिथः ।
मेरुपर्वतम् आसाद्य परस्परहितैषिणः ॥ ३ ॥

देवदैत्या ऊचुः-

अमृतेनामरत्वं स्याद् उत्पाद्यामृतम् उत्तमम् ।
पिबामः सर्व एवैते भवामश् चामरा वयम् ॥ ४ ॥

एकीभूत्वा वयं लोकान् पालयामः सुखानि च ।
प्राप्स्यामः सङ्गरं हित्वा सङ्गरो दुःखकारणम् ॥ ५ ॥

प्रीत्या चैवार्जितान् अर्थान् भोक्ष्यामो गतमत्सराः ।
यतः स्नेहेन वृत्तिर् या सास्माकं सुखदा सदा ॥ ६ ॥

वैपरीत्यं तु यद् वृत्तं न स्मर्तव्यं कदाचन ।
न च त्रैलोक्यराज्ये ऽपि कैवल्ये वा सुखं मनाक् ।
तद् ऊर्ध्वम् अपि वा यत् तु निर्वैरत्वाद् अवाप्यते ॥ ७ ॥

ब्रह्मोवाच-

एवं परस्परं प्रीताः सन्तो देवाश् च दानवाः ।
एकीभूताश् च सुप्रीता विमथ्य वरुणालयम् ॥ ८ ॥

मन्थानं मन्दरं कृत्वा रज्जुं कृत्वा तु वासुकिम् ।
देवाश् च दानवाः सर्वे ममन्थुर् वरुणालयम् ॥ ९ ॥

उत्पन्नं च ततः पुण्यम् अमृतं सुरवल्लभम् ।
निष्पन्ने चामृते पुण्ये ते च प्रोचुः परस्परम् ॥ १० ॥

यामः स्वं स्वम् अधिष्ठानं कृतकार्याः श्रमं गताः ।
सर्वे समं च सर्वेभ्यो यथायोग्यं विभज्यताम् ॥ ११ ॥

यदा सर्वागमो यत्र यस्मिंल् लग्ने शुभावहे ।
विभज्यताम् इदं पुण्यम् अमृतं सुरसत्तमाः ॥ १२ ॥

इत्य् उक्त्वा ते ययुः सर्वे दैत्यदानवराक्षसाः ।
गतेषु दैत्यसङ्घेषु देवाः सर्वे ऽन्वमन्त्रयन् ॥ १३ ॥

देवा ऊचुः-

गतास् ते रिपवो ऽस्माकं दैवयोगाद् अरिन्दमाः ।
रिपूणाम् अमृतं नैव देयं भवति सर्वथा ॥ १४ ॥

ब्रह्मोवाच-

बृहस्पतिस् तथेत्य् आह पुनर् आह सुरान् इदम् ॥ १५ ॥

बृहस्पतिर् उवाच-

न जानन्ति यथा पापा पिबध्वं च तथामृतम् ।
अयम् एवोचितो मन्त्रो यच् छत्रूणां पराभवः ॥ १६ ॥

द्वेष्याः सर्वात्मना द्वेष्या इति नीतिविदो विदुः ।
न विश्वास्या न चाख्येया नैव मन्त्र्याश् च शत्रवः ॥ १७ ॥

तेभ्यो न देयम् अमृतं भवेयुर् अमरास् ततः ।
अमरेषु च जातेषु तेषु दैत्येषु शत्रुषु ।
ताञ् जेतुं नैव शक्ष्यामो न देयम् अमृतं ततः ॥ १८ ॥

ब्रह्मोवाच-

इति सम्मन्त्र्य ते देवा वाचस्पतिम् अथाब्रुवन् ॥ १९ ॥

देवा ऊचुः-

क्व यामः कुत्र मन्त्रः स्यात् क्व पिबामः क्व संस्थितिः ।
कुर्मस् तद् एव प्रथमं वद वाचस्पते तथा ॥ २० ॥

बृहस्पतिर् उवाच-

यान्तु ब्रह्माणम् अमराः पृच्छन्त्व् अत्र गतिं पराम् ।
स तु ज्ञाता च वक्ता च दाता चैव पितामहः ॥ २१ ॥

ब्रह्मोवाच-

बृहस्पतेर् वचः श्रुत्वा मदन्तिकम् अथागमन् ।
नमस्य मां सुराः सर्वे यद् वृत्तं तन् न्यवेदयन् ॥ २२ ॥

तद् देववचनात् पुत्र तैः सुरैर् अगमं हरिम् ।
विष्णवे कथितं सर्वं शम्भवे विषहारिणे ॥ २३ ॥

अहं विष्णुश् च शम्भुश् च देवगन्धर्वकिन्नरैः ।
मेरुकन्दरम् आगत्य न जानन्ति यथासुराः ॥ २४ ॥

रक्षकं च हरिं कृत्वा सोमपानाय तस्थिरे ।
आदित्यस् तत्र विज्ञाता सोमभोज्यान् अथेतरान् ॥ २५ ॥

सोमो दातामृतं भागं चक्रधृग् रक्षकस् तथा ।
नैव जानन्ति तद् दैत्या दनुजा राक्षसास् तथा ॥ २६ ॥

विना राहुं महाप्राज्ञं सैंहिकेयं च सोमपम् ।
कामरूपधरो राहुर् मरुतां मध्यम् आविशत् ॥ २७ ॥

मरुद्रूपं समास्थाय पानपात्रधरस् तथा ।
ज्ञात्वा दिवाकरो दैत्यं तं सोमाय न्यवेदयत् ॥ २८ ॥

तदा तद् अमृतं तस्मै दैत्यायादैत्यरूपिणे ।
दत्त्वा सोमं तदा सोमो विष्णवे तन् न्यवेदयत् ॥ २९ ॥

विष्णुः पीतामृतं दैत्यं चक्रेणोद्यम्य तच्छिरः ।
चिच्छेद तरसा वत्स तच्छिरस् त्व् अमरं त्व् अभूत् ॥ ३० ॥

शिरोमात्रविहीनं यद् देहं तद् अपतद् भुवि ।
देहं तद् अमृतस्पृष्टं पतितं दक्षिणे तटे ॥ ३१ ॥

गौतम्या मुनिशार्दूल कम्पयद् वसुधातलम् ।
देहं चाप्य् अमरं पुत्र तद् अद्भुतम् इवाभवत् ॥ ३२ ॥

देहं च शिरसो ऽपेक्षि शिरो देहम् अपेक्षते ।
उभयं चामरं जातं दैत्यश् चायं महाबलः ॥ ३३ ॥

शिरः काये समाविष्टं सर्वान् भक्षयते सुरान् ।
तस्माद् देहम् इदं पूर्वं नाशयामो महीगतम् ।
ततस् ते शङ्करं प्राहुर् देवाः सर्वे ससम्भ्रमाः ॥ ३४ ॥

देवा ऊचुः-

महीगतं दैत्यदेहं नाशयस्व सुरोत्तम ।
त्वं देव करुणासिन्धुः शरणागतरक्षकः ॥ ३५ ॥

शिरसा नैव युज्येत दैत्यदेहं तथा कुरु ॥ ३६ ॥

ब्रह्मोवाच-

प्रेषयाम् आस चेशो ऽपि श्रेष्ठां शक्तिं तदात्मनः ।
मातृभिः सहितां देवीं मातरं लोकपालिनीम् ॥ ३७ ॥

ईशायुधधरा देवी ईशशक्तिसमन्विता ।
महीगतं यत्र देहं तत्रागाद् भक्ष्यकाङ्क्षिणी ॥ ३८ ॥

शिरोमात्रं सुराः सर्वे मेरौ तत्रैव सान्त्वयन् ।
देहो देव्या पुनस् तत्र युयुधे बहवः समाः ॥ ३९ ॥

राहुस् तत्र सुरान् आह भित्त्वा देहं पुरा मम ।
अत्रास्ते रसम् उत्कृष्टं तद् आकृष्य शरीरतः ॥ ४० ॥

पृथक्भूते रसे देहं प्रवरे ऽमृतम् उत्तमम् ।
भस्मीभूयात् क्षणेनैव तस्मात् कुर्वन्तु तत् पुरा ॥ ४१ ॥

ब्रह्मोवाच-

एतद् राहुवचः श्रुत्वा प्रीताः सर्वे ऽसुरारयः ।
अभ्यषिञ्चन् ग्रहाणां त्वं ग्रहो भूया मुदान्वितः ॥ ४२ ॥

तद्देववचनाच् छक्तिर् ईश्वरी या निगद्यते ।
देहं भित्त्वा दैत्यपतेः सुरशक्तिसमन्विता ॥ ४३ ॥

आकृष्य शीघ्रम् उत्कृष्टं प्रवरं चामृतं बहिः ।
स्थापयित्वा तु तद् देहं भक्षयाम् आस चाम्बिका ॥ ४४ ॥

कालरात्रिर् भद्रकाली प्रोच्यते या महाबला ।
स्थापितं रसम् उत्कृष्टं रसानां प्रवरं रसम् ॥ ४५ ॥

व्यस्रवत् स्थापितं तत् तु प्रवरा साभवन् नदी ।
आकृष्टम् अमृतं चैव स्थापितं साप्य् अभक्षयत् ॥ ४६ ॥

ततः श्रेष्ठा नदी जाता प्रवरा चामृता शुभा ।
राहुदेहसमुद्भूता रुद्रशक्तिसमन्विता ॥ ४७ ॥

नदीनां प्रवरा रम्या चामृता प्रेरिता तहा ।
तत्र पञ्च सहस्राणि तीर्थानि गुणवन्ति च ॥ ४८ ॥

तत्र शम्भुः स्वयं तस्थौ सर्वदा सुरपूजितः ।
तस्यै तुष्टाः सुराः सर्वे देव्यै नद्यै पृथक् पृथक् ॥ ४९ ॥

वरान् ददुर् मुदा युक्ता यथा पूजाम् अवाप्स्यति ।
शम्भुः सुरपतिर् लोके तथा पूजाम् अवाप्स्यसि ॥ ५० ॥

निवासं कुरु देवि त्वं लोकानां हितकाम्यया ।
सदा तिष्ठ रसेशानि सर्वेषां सर्वसिद्धिदा ॥ ५१ ॥

स्तवनात् कीर्तनाद् ध्यानात् सर्वकामप्रदायिनी ।
त्वां नमस्यन्ति ये भक्त्या किञ्चिद् आपेक्ष्य सर्वदा ॥ ५२ ॥

तेषां सर्वाणि कार्याणि भवेयुर् देवताज्ञया ।
शिवशक्त्योर् यतस् तस्मिन् निवासो ऽभूत् सनातनः ॥ ५३ ॥

अतो वदन्ति मुनयो निवासपुरम् इत्य् अदः ।
प्रवरायाः पुरा देवाः सुप्रीतास् ते वरान् ददुः ॥ ५४ ॥

गङ्गायाः सङ्गमो यस् ते विख्यातः सुरवल्लभः ।
तत्राप्लुतानां सर्वेषां भुक्तिर् वा मुक्तिर् एव च ॥ ५५ ॥

यद् वापि मनसः काम्यं देवानाम् अपि दुर्लभम् ।
स्यात् तेषां सर्वम् एवेह एवं दत्त्वा सुरा ययुः ॥ ५६ ॥

ततः प्रभृति तत् तीर्थं प्रवरासङ्गमं विदुः ।
प्रेरिता देवदेवेन शक्तिर् या प्रेरिता तु सा ॥ ५७ ॥

अमृता सैव विख्याता प्रवरैवं महानदी ॥ ५८ ॥