Summary (SA)
Chapter 105- Story of the (first) purchase of Soma
{{Ref- SS 170-171}}
ब्रह्मोवाच-
सोमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम् ।
तत्र वृत्तं महापुण्यं शृणु यत्नेन नारद ॥ १ ॥
सोमो राजामृतमयो गन्धर्वाणां पुराभवत् ।
न देवानां तदा देवा माम् अभ्येत्येदम् अब्रुवन् ॥ २ ॥
देवा ऊचुः-
गन्धर्वैर् आहृतः सोमो देवानां प्राणदः पुरा ।
तम् अध्यायन् सुरगणा ऋषयस् त्व् अतिदुःखिताः ।
यथा स्यात् सोमो ह्य् अस्माकं तथा नीतिर् विधीयताम् ॥ ३ ॥
ब्रह्मोवाच-
तत्र वाग् विबुधान् आह गन्धर्वाः स्त्रीषु कामुकाः ।
तेभ्यो दत्त्वाथ मां देवाः सोमम् आहर्तुम् अर्हथ ॥ ४ ॥
वाचं प्रत्यूचुर् अमरास् त्वां दातुं न क्षमा वयम् ।
विना तेनापि न स्थातुं शक्यं नैव त्वया विना ॥ ५ ॥
पुनर् वाग् अब्रवीद् देवान् पुनर् एष्याम्य् अहं त्व् इह ।
अत्र बुद्धिर् विधातव्या क्रियतां क्रतुर् उत्तमः ॥ ६ ॥
गौतम्या दक्षिणे तीरे भवेद् देवागमो यदि ।
मखं तु विषयं कृत्वा आयान्तु सुरसत्तमाः ॥ ७ ॥
गन्धर्वाः स्त्रीप्रिया नित्यं पणध्वं तं मया सह ।
तथेत्य् उक्त्वा सुरगणाः सरस्वत्या वचःस्थिताः ॥ ८ ॥
देवदूतैः पृथग् देवान् यक्षान् गन्धर्वपन्नगान् ।
आह्वानं चक्रिरे तत्र पुण्ये देवगिरौ तदा ॥ ९ ॥
ततो देवगिरिर् नाम पर्वतस्याभवन् मुने ।
तत्रागमन् सुरगणा गन्धर्वा यक्षकिन्नराः ॥ १० ॥
देवाः सिद्धाश् च ऋषयस् तथाष्टौ देवयोनयः ।
ऋषिभिर् गौतमीतीरे क्रियमाणे महाध्वरे ॥ ११ ॥
तत्र देवैः परिवृतः सहस्राक्षो ऽभ्यभाषत ॥ १२ ॥
इन्द्र उवाच-
गन्धर्वान् अथ सम्पूज्य सरस्वत्याः समीपतः ।
सरस्वत्या पणध्वं नो युष्माकम् अमृतात्मना ॥ १३ ॥
ब्रह्मोवाच-
तच् छक्रवचनात् ते वै गन्धर्वाः स्त्रीषु कामुकाः ।
सोमं दत्त्वा सुरेभ्यस् तु जगृहुस् तां सरस्वतीम् ॥ १४ ॥
सोमो ऽभवच् चामराणां गन्धर्वाणां सरस्वती ।
अवसत् तत्र वागीशा तथापि च सुरान्तिके ॥ १५ ॥
आयाति च रहो नित्यम् उपांशु क्रियताम् इति ।
अत एव हि सोमस्य क्रयो भवति नारद ॥ १६ ॥
उपांशुना वर्तितव्यं सोमक्रयण एव हि ।
ततो ऽभवद् देवतानां सोमश् चापि सरस्वती ॥ १७ ॥
गन्धर्वाणां नैव सोमो नैवासीच् च सरस्वती ।
तत्रागमन् सर्व एव सोमार्थं गौतमीतटम् ॥ १८ ॥
गावो देवाः पर्वता यक्षरक्षाः ।
सिद्धाः साध्या मुनयो गुह्यकाश् च ।
गन्धर्वास् ते मरुतः पन्नगाश् च ।
सर्वौषध्यो मातरो लोकपालाः ।
रुद्रादित्या वसवश् चाश्विनौ च ।
ये ऽन्ये देवा यज्ञभागस्य योग्याः ॥ १९ ॥
पञ्चविंशतिनद्यस् तु गङ्गायां सङ्गता मुने ।
पूर्णाहुतिर् यत्र दत्ता पूर्णाख्यानं तद् उच्यते ॥ २० ॥
गौतम्यां सङ्गता यास् तु सर्वाश् चापि यथोदिताः ।
तन्नामधेयतीर्थानि सङ्क्षेपाच् छृणु नारद ॥ २१ ॥
सोमतीर्थं च गान्धर्वं देवतीर्थम् अतः परम् ।
पूर्णातीर्थं ततः शालं श्रीपर्णासङ्गमं तथा ॥ २२ ॥
स्वागतासङ्गमं पुण्यं कुसुमायाश् च सङ्गमम् ।
पुष्टिसङ्गमम् आख्यातं कर्णिकासङ्गमं शुभम् ॥ २३ ॥
वैणवीसङ्गमश् चैव कृशरासङ्गमस् तथा ।
वासवीसङ्गमश् चैव शिवशर्या तथा शिखी ॥ २४ ॥
कुसुम्भिका उपारथ्या शान्तिजा देवजा तदा ।
अजो वृद्धः सुरो भद्रो गौतम्या सह सङ्गताः ॥ २५ ॥
एते चान्ये च बहवो नदीनदसहायगाः ।
पृथिव्यां यानि तीर्थानि ह्य् अगमन् देवपर्वते ॥ २६ ॥
सोमार्थं वै तथा चान्ये ऽप्य् आगमन् मखमण्डपम् ।
तानि तीर्थानि गङ्गायां सङ्गतानि यथाक्रमम् ॥ २७ ॥
नदीरूपेण कान्य् एव नदरूपेण कानिचित् ।
सरोरूपेण कान्य् अत्र स्तवरूपेण कानिचित् ॥ २८ ॥
तान्य् एव सर्वतीर्थानि विख्यातानि पृथक् पृथक् ।
तेषु स्नानं जपो होमः पितृतर्पणम् एव च ॥ २९ ॥
सर्वकामप्रदं पुंसां भुक्तिदं मुक्तिभाजनम् ।
एतेषां पठनं चापि स्मरणं वा करोति यः ।
सर्वपापविनिर्मुक्तो याति विष्णुपुरं जनः ॥ ३० ॥