104

Summary (SA)

Chapter 104- Story of Hariścandra, Rohita, and Śunaḥśepa

{{Ref- SS 168-170}}

ब्रह्मोवाच-

विश्वामित्रं हरिश्चन्द्रं शुनःशेपं च रोहितम् ।
वारुणं ब्राह्मम् आग्नेयम् ऐन्द्रम् ऐन्दवम् ऐश्वरम् ॥ १ ॥

मैत्रं च वैष्णवं चैव याम्यम् आश्विनम् औशनम् ।
एतेषां पुण्यतीर्थानां नामधेयं शृणुष्व मे ॥ २ ॥

हरिश्चन्द्र इति त्व् आसीद् इक्ष्वाकुप्रभवो नृपः ।
तस्य गृहे मुनी प्राप्तौ नारदः पर्वतस् तथा ।
कृत्वातिथ्यं तयोः सम्यग् घरिश्चन्द्रो ऽब्रवीद् ऋषी ॥ ३ ॥

हरिश्चन्द्र उवाच-

पुत्रार्थं क्लिश्यते लोकः किं पुत्रेण भविष्यति ।
ज्ञानी वाप्य् अथवाज्ञानी उत्तमो मध्यमो ऽथवा ।
एतं मे संशयं नित्यं ब्रूताम् ऋषिवराव् उभौ ॥ ४ ॥

ब्रह्मोवाच-

ताव् ऊचतुर् हरिश्चन्द्रं पर्वतो नारदस् तथा ॥ ५ ॥

नारदपर्वताव् ऊचतुः-

एकधा दशधा राजञ् शतधा च सहस्रधा ।
उत्तरं विद्यते सम्यक् तथाप्य् एतद् उदीर्यते ॥ ६ ॥

नापुत्रस्य परो लोको विद्यते नृपसत्तम ।
जाते पुत्रे पिता स्नानं यः करोति जनाधिप ॥ ७ ॥

दशानाम् अश्वमेधानाम् अभिषेकफलं लभेत् ।
आत्मप्रतिष्ठा पुत्रात् स्याज् जायते चामरोत्तमः ॥ ८ ॥

अमृतेनामरा देवाः पुत्रेण ब्राह्मणादयः ।
त्रिऋणान् मोचयेत् पुत्रः पितरं च पितामहान् ॥ ९ ॥

किं तु मूलं किम् उ जलं किं तु श्मश्रूणि किं तपः ।
विना पुत्रेण राजेन्द्र स्वर्गो मुक्तिः सुतात् स्मृताः ॥ १० ॥

पुत्र एव परो लोको धर्मः कामो ऽर्थ एव च ।
पुत्रो मुक्तिः परं ज्योतिस् तारकः सर्वदेहिनाम् ॥ ११ ॥

विना पुत्रेण राजेन्द्र स्वर्गमोक्षौ सुदुर्लभौ ।
पुत्र एव परो लोके धर्मकामार्थसिद्धये ॥ १२ ॥

विना पुत्रेण यद् दत्तं विना पुत्रेण यद् धुतम् ।
विना पुत्रेण यज् जन्म व्यर्थं तद् अवभाति मे ॥ १३ ॥

तस्मात् पुत्रसमं किञ्चित् काम्यं नास्ति जगत्त्रये ।
तच् छ्रुत्वा विस्मयवांस् ताव् उवाच नृपः पुनः ॥ १४ ॥

हरिश्चन्द्र उवाच-

कथं मे स्यात् सुतो ब्रूतां यत्र क्वापि यथातथम् ।
येन केनाप्य् उपायेन कृत्वा किञ्चित् तु पौरुषम् ।
मन्त्रेण यागदानाभ्याम् उत्पाद्यो ऽसौ सुतो मया ॥ १५ ॥

ब्रह्मोवाच-

ताव् ऊचतुर् नृपश्रेष्ठं हरिश्चन्द्रं सुतार्थिनम् ।
ध्यात्वा क्षणं तथा सम्यग् गौतमीं याहि मानद ॥ १६ ॥

तत्रापाम्पतिर् उत्कृष्टं ददाति मनसीप्सितम् ।
वरुणः सर्वदाता वै मुनिभिः परिकीर्तितः ॥ १७ ॥

स तु प्रीतः शनैः काले तव पुत्रं प्रदास्यति ।
एतच् छ्रुत्वा नृपश्रेष्ठो मुनिवाक्यं तथाकरोत् ॥ १८ ॥

तोषयाम् आस वरुणं गौतमीतीरम् आश्रितः ।
ततश् च तुष्टो वरुणो हरिश्चन्द्रम् उवाच ह ॥ १९ ॥

वरुण उवाच-

पुत्रं दास्यामि ते राजंल् लोकत्रयविभूषणम् ।
यदि यक्ष्यसि तेनैव तव पुत्रो भवेद् ध्रुवम् ॥ २० ॥

ब्रह्मोवाच-

हरिश्चन्द्रो ऽपि वरुणं यक्ष्ये तेनेत्य् अवोचत ।
ततो गत्वा हरिश्चन्द्रश् चरुं कृत्वा तु वारुणम् ॥ २१ ॥

भार्यायै नृपतिः प्रादात् ततो जातः सुतो नृपात् ।
जाते पुत्रे अपाम् ईशः प्रोवाच वदतां वरः ॥ २२ ॥

वरुण उवाच-

अद्यैव पुत्रो यष्टव्यः स्मरसे वचनं पुरा ॥ २३ ॥

ब्रह्मोवाच-

हरिश्चन्द्रो ऽपि वरुणं प्रोवाचेदं क्रमागतम् ॥ २४ ॥

हरिश्चन्द्र उवाच-

निर्दशो मेध्यतां याति पशुर् यक्ष्ये ततो ह्य् अहम् ॥ २५ ॥

ब्रह्मोवाच-

तच् छ्रुत्वा वचनं राज्ञो वरुणो ऽगात् स्वम् आलयम् ।
निर्दशे पुनर् अभ्येत्य यजस्वेत्य् आह तं नृपम् ॥ २६ ॥

राजापि वरुणं प्राह निर्दन्तो निष्फलः पशुः ।
पशोर् दन्तेषु जातेषु एहि गच्छाधुनाप्पते ॥ २७ ॥

तच् छ्रुत्वा राजवचनं पुनः प्रायाद् अपाम्पतिः ।
जातेषु चैव दन्तेषु सप्तवर्षेषु नारद ॥ २८ ॥

पुनर् अप्य् आह राजानं यजस्वेति ततो ऽब्रवीत् ।
राजापि वरुणं प्राह पत्स्यन्तीमे अपाम्पते ॥ २९ ॥

सम्पत्स्यन्ति तथा चान्ये ततो यक्ष्ये व्रजाधुना ।
पुनः प्रायात् स वरुणः पुनर्दन्तेषु नारद ।
यजस्वेति नृपं प्राह राजा प्राह त्व् अपाम्पतिम् ॥ ३० ॥

राजोवाच-

यदा तु क्षत्रियो यज्ञे पशुर् भवति वारिप ।
धनुर्वेदं यदा वेत्ति तदा स्यात् पशुर् उत्तमः ॥ ३१ ॥

ब्रह्मोवाच-

तच् छ्रुत्वा राजवचनं वरुणो ऽगात् स्वम् आलयम् ।
यदास्त्रेषु च शस्त्रेषु समर्थो ऽभूत् स रोहितः ॥ ३२ ॥

सर्ववेदेषु शास्त्रेषु वेत्ताभूत् स त्व् अरिन्दमः ।
युवराज्यम् अनुप्राप्ते रोहिते षोडशाब्दिके ॥ ३३ ॥

प्रीतिमान् अगमत् तत्र यत्र राजा सरोहितः ।
आगत्य वरुणः प्राह यजस्वाद्य सुतं स्वकम् ॥ ३४ ॥

ॐ इत्य् उक्त्वा नृपवर ऋत्विजः प्राह भूपतिः ।
रोहितं च सुतं ज्येष्ठं शृण्वतो वरुणस्य च ॥ ३५ ॥

हरिश्चन्द्र उवाच-

एहि पुत्र महावीर यक्ष्ये त्वां वरुणाय हि ॥ ३६ ॥

ब्रह्मोवाच-

किम् एतद् इत्य् अथोवाच रोहितः पितरं प्रति ।
पितापि तद् यथावृत्तम् आचचक्षे सविस्तरम् ।
रोहितः पितरं प्राह शृण्वतो वरुणस्य च ॥ ३७ ॥

रोहित उवाच-

अहं पूर्वं महाराज ऋत्विग्भिः सपुरोहितः ।
विष्णवे लोकनाथाय यक्ष्ये ऽहं त्वरितं शुचिः ।
पशुना वरुणेनाथ तद् अनुज्ञातुम् अर्हसि ॥ ३८ ॥

ब्रह्मोवाच-

रोहितस्य तु तद् वाक्यं श्रुत्वा वारीश्वरस् तदा ।
कोपेन महताविष्टो जलोदरम् अथाकरोत् ॥ ३९ ॥

हरिश्चन्द्रस्य नृपते रोहितः स वनं ययौ ।
गृहीत्वा स धनुर् दिव्यं रथारूढो गतव्यथः ॥ ४० ॥

यत्र चाराध्य वरुणं हरिश्चन्द्रो जनेश्वरः ।
गङ्गायां प्राप्तवान् पुत्रं तत्रागात् सो ऽपि रोहितः ॥ ४१ ॥

व्यतीतान्य् अथ वर्षाणि पञ्च षष्ठे प्रवर्तति ।
तत्र स्थित्वा नृपसुतः शुश्राव नृपते रुजम् ॥ ४२ ॥

मया पुत्रेण जातेन पितुर् वै क्लेशकारिणा ।
किं फलं किं नु कृत्यं स्याद् इत्य् एवं पर्यचिन्तयत् ॥ ४३ ॥

तस्यास् तीरे ऋषीन् पुण्यान् अपश्यन् नृपतेः सुतः ।
गङ्गातीरे वर्तमानम् अपश्यद् ऋषिसत्तमम् ॥ ४४ ॥

अजीगर्तम् इति ख्यातम् ऋषेस् तु वयसः सुतम् ।
त्रिभिः पुत्रैर् अनुवृतं भार्यया क्षीणवृत्तिकम् ।
तं दृष्ट्वा नृपतेः पुत्रो नमस्येदं वचो ऽब्रवीत् ॥ ४५ ॥

रोहित उवाच-

क्षीणवृत्तिः कृशः कस्माद् दुर्मना इव लक्ष्यसे ॥ ४६ ॥

ब्रह्मोवाच-

अजीगर्तो ऽपि चोवाच रोहितं नृपतेः सुतम् ॥ ४७ ॥

अजीगर्त उवाच-

वर्तनं नास्ति देहस्य भोक्तारो बहवश् च मे ।
विनान्नेन मरिष्यामो ब्रूहि किं करवामहे ॥ ४८ ॥

ब्रह्मोवाच-

तच् छ्रुत्वा पुनर् अप्य् आह नृपपुत्र ऋषिं तदा ॥ ४९ ॥

रोहित उवाच-

तव किं वर्तते चित्ते तद् ब्रूहि वदतां वर ॥ ५० ॥

अजीगर्त उवाच-

हिरण्यं रजतं गावो धान्यं वस्त्रादिकं न मे ।
विद्यते नृपशार्दूल वर्तनं नास्ति मे ततः ॥ ५१ ॥

सुता मे सन्ति भार्या च अहं वै पञ्चमस् तथा ।
नैतेषां कतमस्यापि क्रेतान्नेन नृपोत्तम ॥ ५२ ॥

रोहित उवाच-

किं क्रीणासि महाबुद्धे ऽजीगर्त सत्यम् एव मे ।
वद नान्यच् च वक्तव्यं विप्रा वै सत्यवादिनः ॥ ५३ ॥

अजीगर्त उवाच-

त्रयाणाम् अपि पुत्राणाम् एकं वा मां तथैव च ।
भार्यां वापि गृहाणेमां क्रीत्वा जीवामहे वयम् ॥ ५४ ॥

रोहित उवाच-

किं भार्यया महाबुद्धे किं त्वया वृद्धरूपिणा ।
युवानं देहि पुत्रं मे पुत्राणां यं त्वम् इच्छसि ॥ ५५ ॥

अजीगर्त उवाच-

ज्येष्ठपुत्रं शुनःपुच्छं नाहं क्रीणामि रोहित ।
माता कनीयसं चापि न क्रीणाति ततो ऽनयोः ।
मध्यमं तु शुनःशेपं क्रीणामि वद तद्धनम् ॥ ५६ ॥

रोहित उवाच-

वरुणाय पशुः कल्प्यः पुरुषो गुणवत्तरः ।
यदि क्रीणासि मूल्यं त्वं वद सत्यं महामुने ॥ ५७ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा त्व् अजीगर्तः पुत्रमूल्यम् अकल्पयत् ।
गवां सहस्रं धान्यानां निष्कानां चापि वाससाम् ।
राजपुत्र वरं देहि दास्यामि स्वसुतं तव ॥ ५८ ॥

ब्रह्मोवाच-

तथेत्य् उक्त्वा रोहितो ऽपि प्रादात् सवसनं धनम् ।
दत्त्वा जगाम पितरम् ऋषिपुत्रेण रोहितः ।
पित्रे निवेदयाम् आस क्रयक्रीतम् ऋषेः सुतम् ॥ ५९ ॥

रोहित उवाच-

वरुणाय यजस्व त्वं पशुना त्वम् अरुग् भव ॥ ६० ॥

ब्रह्मोवाच-

तथोवाच हरिश्चन्द्रः पुत्रवाक्याद् अनन्तरम् ॥ ६१ ॥

हरिश्चन्द्र उवाच-

ब्राह्मणाः क्षत्रिया वैश्या राज्ञा पाल्या इति श्रुतिः ।
विशेषतस् तु वर्णानां गुरवो हि द्विजोत्तमाः ॥ ६२ ॥

विष्णोर् अपि हि ये पूज्या मादृशाः कुत एव हि ।
अवज्ञयापि येषां स्यान् नृपाणां स्वकुलक्षयः ॥ ६३ ॥

तान् पशून् कृत्वा कृपणं कथं रक्षितुम् उत्सहे ।
अहं च ब्राह्मणं कुर्यां पशुं नैतद् धि युज्यते ॥ ६४ ॥

वरं हि जातु मरणं न कथञ्चिद् द्विजं पशुम् ।
करोमि तस्मात् पुत्र त्वं ब्राह्मणेन सुखं व्रज ॥ ६५ ॥

ब्रह्मोवाच-

एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी ॥ ६६ ॥

आकाशवाग् उवाच-

गौतमीं गच्छ राजेन्द्र ऋत्विग्भिः सपुरोहितः ।
पशुना विप्रपुत्रेण रोहितेन सुतेन च ॥ ६७ ॥

त्वया कार्यः क्रतुश् चैव शुनःशेपवधं विना ।
क्रतुः पूर्णो भवेत् तत्र तस्माद् याहि महामते ॥ ६८ ॥

ब्रह्मोवाच-

तच् छ्रुत्वा वचनं शीघ्रं गङ्गाम् अगान् नृपोत्तमः ।
विश्वामित्रेण ऋषिणा वसिष्ठेन पुरोधसा ॥ ६९ ॥

वामदेवेन ऋषिणा तथान्यैर् मुनिभिः सह ।
प्राप्य गङ्गां गौतमीं तां नरमेधाय दीक्षितः ॥ ७० ॥

वेदिमण्डपकुण्डादि यूपपश्वादि चाकरोत् ।
कृत्वा सर्वं यथान्यायं तस्मिन् यज्ञे प्रवर्तिते ॥ ७१ ॥

शुनःशेपं पशुं यूपे निबध्याथ समन्त्रकम् ।
वारिभिः प्रोक्षितं दृष्ट्वा विश्वामित्रो ऽब्रवीद् इदम् ॥ ७२ ॥

विश्वामित्र उवाच-

देवान् ऋषीन् हरिश्चन्द्रं रोहितं च विशेषतः ।
अनुजानन्त्व् इमं सर्वे शुनःशेपं द्विजोत्तमम् ॥ ७३ ॥

येभ्यस् त्व् अयं हविर् देयो देवेभ्यो ऽयं पृथक् पृथक् ।
अनुजानन्तु ते सर्वे शुनःशेपं विशेषतः ॥ ७४ ॥

वसाभिर् लोमभिस् त्वग्भिर् मांसैः सन्मन्त्रितैर् मखे ।
अग्नौ होष्यः पशुश् चायं शुनःशेपो द्विजोत्तमः ॥ ७५ ॥

उपासिताः स्युर् विप्रेन्द्रास् ते सर्वे त्व् अनुमन्य माम् ।
गौतमीं यान्तु विप्रेन्द्राः स्नात्वा देवान् पृथक् पृथक् ॥ ७६ ॥

मन्त्रैः स्तोत्रैः स्तुवन्तस् ते मुदं यान्तु शिवे रताः ।
एनं रक्षन्तु मुनयो देवाश् च हविषो भुजः ॥ ७७ ॥

ब्रह्मोवाच-

तथेत्य् ऊचुश् च मुनयो मेने च नृपसत्तमः ।
ततो गत्वा शुनःशेपो गङ्गां त्रैलोक्यपावनीम् ॥ ७८ ॥

स्नात्वा तुष्टाव तान् देवान् ये तत्र हविषो भुजः ।
ततस् तुष्टाः सुरगणाः शुनःशेपं च ते मुने ।
अवदन्त सुराः सर्वे विश्वामित्रस्य शृण्वतः ॥ ७९ ॥

सुरा ऊचुः-

क्रतुः पूर्णो भवत्व् एष शुनःशेपवधं विना ॥ ८० ॥

ब्रह्मोवाच-

विशेषेणाथ वरुणश् चावदन् नृपसत्तमम् ।
ततः पूर्णो ऽभवद् राज्ञो नृमेधो लोकविश्रुतः ॥ ८१ ॥

देवानां च प्रसादेन मुनीनां च प्रसादतः ।
तीर्थस्य तु प्रसादेन राज्ञः पूर्णो ऽभवत् क्रतुः ॥ ८२ ॥

विश्वामित्रः शुनःशेपं पूजयाम् आस संसदि ।
अकरोद् आत्मनः पुत्रं पूजयित्वा सुरान्तिके ॥ ८३ ॥

ज्येष्ठं चकार पुत्राणाम् आत्मनः स तु कौशिकः ।
न मेनिरे ये च पुत्रा विश्वामित्रस्य धीमतः ॥ ८४ ॥

शुनःशेपस्य च ज्यैष्ठ्यं ताञ् शशाप स कौशिकः ।
ज्यैष्ठ्यं ये मेनिरे पुत्राः पूजयाम् आस तान् सुतान् ॥ ८५ ॥

वरेण मुनिशार्दूलस् तद् एतत् कथितं मया ।
एतत् सर्वं यत्र जातं गौतम्या दक्षिणे तटे ॥ ८६ ॥

तत्र तीर्थानि पुण्यानि विख्यातानि सुरादिभिः ।
बहूनि तेषां नामानि मत्तः शृणु महामते ॥ ८७ ॥

हरिश्चन्द्रं शुनःशेपं विश्वामित्रं सरोहितम् ।
इत्याद्य् अष्ट सहस्राणि तीर्थान्य् अथ चतुर्दश ॥ ८८ ॥

तेषु स्नानं च दानं च नरमेधफलप्रदम् ।
आख्यातं चास्य माहात्म्यं तीर्थस्य मुनिसत्तम ॥ ८९ ॥

यः पठेत् पाठयेद् वापि शृणुयाद् वापि भक्तितः ।
अपुत्रः पुत्रम् आप्नोति यच् चान्यन् मनसः प्रियम् ॥ ९० ॥