Summary (SA)
Chapter 103- Disturbance of Priyavrata’s horse-sacrifice
{{Ref- SS 167-168}}
ब्रह्मोवाच-
शमीतीर्थम् इति ख्यातं सर्वपापोपशान्तिदम् ।
तस्याख्यानं प्रवक्ष्यामि शृणु यत्नेन नारद ॥ १ ॥
आसीत् प्रियव्रतो नाम क्षत्रियो जयतां वरः ।
गौतम्या दक्षिणे तीरे दीक्षां चक्रे पुरोधसा ॥ २ ॥
हयमेध उपक्रान्ते ऋत्विग्भिर् ऋषिभिर् वृते ।
तस्य राज्ञो महाबाहोर् वसिष्ठस् तु पुरोहितः ॥ ३ ॥
तद्यज्ञवाटम् अगमद् दानवो ऽथ हिरण्यकः ।
तं दानवम् अभिप्रेक्ष्य देवास् त्व् इन्द्रपुरोगमाः ॥ ४ ॥
भीताः केचिद् दिवं जग्मुर् हव्यवाट् शमिम् आविशत् ।
अश्वत्थं विष्णुर् अगमद् भानुर् अर्कं वटं शिवः ॥ ५ ॥
सोमः पलाशम् अगमद् गङ्गाम्भो हव्यवाहनः ।
अश्विनौ तु हयं गृह्य वायसो ऽभूद् यमः स्वयम् ॥ ६ ॥
एतस्मिन्न् अन्तरे तत्र वसिष्ठो भगवान् ऋषिः ।
यष्टिम् आदाय दैतेयान् न्यवारयद् अथाज्ञया ॥ ७ ॥
ततः प्रवृत्तः पुनर् एव यज्ञो ।
दैत्यो गतः स्वेन बलेन युक्तः ।
इमानि तीर्थानि ततः शुभानि ।
दशाश्वमेधस्य फलानि दद्युः ॥ ८ ॥
प्रथमं तु शमीतीर्थं द्वितीयं वैष्णवं विदुः ।
आर्कं शैवं च सौम्यं च वासिष्ठं सर्वकामदम् ॥ ९ ॥
देवाश् च ऋषयः सर्वे निवृत्ते मखविस्तरे ।
तुष्टाः प्रोचुर् वसिष्ठं तं यजमानं प्रियव्रतम् ॥ १० ॥
तांश् च वृक्षांस् तां च गङ्गां मुदा युक्ताः पुनः पुनः ।
हयमेधस्य निष्पत्त्यै एते याता इतस् ततः ॥ ११ ॥
हयमेधफलं दद्युस् तीर्थानीत्य् अवदन् सुराः ।
तस्मात् स्नानेन दानेन तेषु तीर्थेषु नारद ।
हयमेधफलं पुण्यं प्राप्नोति न मृषा वचः ॥ १२ ॥