Summary (SA)
Chapter 102- Brahman’s incest
{{Ref- SS 166-167}}
ब्रह्मोवाच-
सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ।
एतानि पञ्च तीर्थानि पुण्यानि मुनयो विदुः ॥ १ ॥
तत्र स्नात्वा तु पीत्वा तु मुच्यते सर्वकल्मषात् ।
सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ॥ २ ॥
एता मम सुता ज्येष्ठा धर्मसंस्थानहेतवः ।
सर्वासाम् उत्तमां काञ्चिन् निर्ममे लोकसुन्दरीम् ॥ ३ ॥
तां दृष्ट्वा विकृता बुद्धिर् ममासीन् मुनिसत्तम ।
गृह्यमाणा मया बाला सा मां दृष्ट्वा पलायिता ॥ ४ ॥
मृगीभूता तु सा बाला मृगो ऽहम् अभवं तदा ।
मृगव्याधो ऽभवच् छम्भुर् धर्मसंरक्षणाय च ॥ ५ ॥
ता मद्भीताः पञ्च सुता गङ्गाम् ईयुर् महानदीम् ।
ततो महेश्वरः प्रायाद् धर्मसंरक्षणाय सः ॥ ६ ॥
धनुर् गृहीत्वा सशरम् ईशो ऽपि मृगरूपिणम् ।
माम् उवाच वधिष्ये त्वां मृगव्याधस् तदा हरः ॥ ७ ॥
तत्कर्मणो निवृत्तो ऽहं प्रादां कन्यां विवस्वते ।
सावित्र्याद्याः पञ्च सुता नदीरूपेण सङ्गताः ॥ ८ ॥
ता आगताः पुनश् चापि स्वर्गं लोकं ममान्तिकम् ।
यत्र ताः सङ्गता देव्या पञ्च तीर्थानि नारद ॥ ९ ॥
सङ्गतानि च पुण्यानि पञ्च नद्यः सरस्वती ।
तेषु स्नानं तथा दानं यत् किञ्चित् कुरुते नरः ॥ १० ॥
सर्वकामप्रदं तत् स्यान् नैष्कर्म्यान् मुक्तिदं स्मृतम् ।
तत्राभवन् मृगव्याधं तीर्थं सर्वार्थदं नृणाम् ।
स्वर्गमोक्षफलं चान्यद् ब्रह्मतीर्थफलं स्मृतम् ॥ ११ ॥