Summary (SA)
Chapter 101- Purūravas and Sarasvatī
{{Ref- SS 165-166}}
ब्रह्मोवाच-
पुरूरवसम् आख्यातं तीर्थं वेदविदो विदुः ।
स्मरणाद् एव पापानां नाशनं किं तु दर्शनात् ॥ १ ॥
पुरूरवा ब्रह्मसदः प्राप्य तत्र सरस्वतीम् ।
यदृच्छया देवनदीं हसन्तीं ब्रह्मणो ऽन्तिके ।
तां दृष्ट्वा रूपसम्पन्नाम् उर्वशीं प्राह भूपतिः ॥ २ ॥
राजोवाच-
केयं रूपवती साध्वी स्थितेयं ब्रह्मणो ऽन्तिके ।
सर्वासाम् उत्तमा योषिद् दीपयन्ती सभाम् इमाम् ॥ ३ ॥
ब्रह्मोवाच-
उर्वशी प्राह राजानम् इयं देवनदी शुभा ।
सरस्वती ब्रह्मसुता नित्यम् एति च याति च ।
तच् छ्रुत्वा विस्मितो राजा आनयेमां ममान्तिकम् ॥ ४ ॥
ब्रह्मोवाच-
उर्वशी पुनर् अप्य् आह राजानं भूरिदक्षिणम् ॥ ५ ॥
उर्वश्य् उवाच-
आनीयते महाराज तस्याः सर्वं निवेद्य च ॥ ६ ॥
ब्रह्मोवाच-
ततस् तां प्राहिणोत् तत्र राजा प्रीत्या तदोर्वशीम् ।
सा गत्वा राजवचनं न्यवेदयद् अथोर्वशी ॥ ७ ॥
सरस्वत्य् अपि तन् मेने उर्वश्या यन् निवेदितम् ।
सा तथेति प्रतिज्ञाय प्रायाद् यत्र पुरूरवाः ॥ ८ ॥
सरस्वत्यास् ततस् तीरे स रेमे बहुलाः समाः ।
सरस्वान् अभवत् पुत्रो यस्य पुत्रो बृहद्रथः ॥ ९ ॥
तां गच्छन्तीं नृपगृहं नित्यम् एव सरस्वतीम् ।
सरस्वन्तं ततो लक्ष्म ज्ञात्वान्येषु तथा कृतम् ॥ १० ॥
तस्यै ददाव् अहं शापं भूया इति महानदी ।
मच्छापभीता वागीशा प्रागाद् देवीं च गौतमीम् ॥ ११ ॥
कमण्डलुभवां पूतां मातरं लोकपावनीम् ।
तापत्रयोपशमनीम् ऐहिकामुष्मिकप्रदाम् ॥ १२ ॥
सा गत्वा गौतमीं देवीं प्राह मच्छापम् आदितः ।
गङ्गापि माम् उवाचेदं विशापां कर्तुम् अर्हसि ॥ १३ ॥
न युक्तं यत् सरस्वत्याः शापं त्वं दत्तवान् असि ।
स्त्रीणाम् एष स्वभावो वै पुंस्कामा योषितो यतः ॥ १४ ॥
स्वभावचपला ब्रह्मन् योषितः सकला अपि ।
त्वं कथं तु न जानीषे जगत्स्रष्टाम्बुजासन ॥ १५ ॥
विडम्बयति कं वा न कामो वापि स्वभावतः ।
ततो विशापम् अवदं दृश्यापि स्यात् सरस्वती ॥ १६ ॥
तस्माच् छापान् नदी मर्त्ये दृश्यादृश्या सरस्वती ।
यत्रैषा सङ्गता देवी गङ्गायां शापविह्वला ॥ १७ ॥
तत्र प्रायान् नृपवरो धार्मिकः स पुरूरवाः ।
तपस् तप्त्वा समाराध्य देवं सिद्धेश्वरं हरम् ॥ १८ ॥
सर्वान् कामान् अथावाप गङ्गायाश् च प्रसादतः ।
ततः प्रभृति तत् तीर्थं पुरूरवसम् उच्यते ॥ १९ ॥
सरस्वतीसङ्गमं च ब्रह्मतीर्थं तद् उच्यते ।
सिद्धेश्वरो यत्र देवः सर्वकामप्रदं तु तत् ॥ २० ॥