100

Summary (SA)

Chapter 100- Story of Kaśyapa and his two wives Suparṇā and Kadrū

{{Ref- SS 164-165}}

ब्रह्मोवाच-

सुपर्णासङ्गमं नाम काद्रवासङ्गमं तथा ।
महेश्वरो यत्र देवो गङ्गापुलिनम् आश्रितः ॥ १ ॥

अग्निकुण्डं च तत्रैव रौद्रं वैष्णवम् एव च ।
सौरं सौम्यं तथा ब्राह्मं कौमारं वारुणं तथा ॥ २ ॥

अप्सरा च नदी यत्र सङ्गता गङ्गया तथा ।
तत्तीर्थस्मरणाद् एव कृतकृत्यो भवेन् नरः ॥ ३ ॥

सर्वपापप्रशमनं शृणु यत्नेन नारद ।
इन्द्रेण हिंसिताः पूर्वं वालखिल्या महर्षयः ।
दत्तार्धतपसः सर्वे प्रोचुस् ते काश्यपं मुनिम् ॥ ४ ॥

वालखिल्या ऊचुः-

पुत्रम् उत्पादयानेन इन्द्रदर्पहरं शुभम् ।
तपसो ऽर्धं तु दास्यामस् तथेत्य् आह मुनिस् तु तान् ॥ ५ ॥

सुपर्णायां ततो गर्भम् आदधे स प्रजापतिः ।
कद्र्वां चैव शनैर् ब्रह्मन् सर्पाणां सर्पमातरि ॥ ६ ॥

ते गर्भिण्याव् उभे आह गन्तुकामः प्रजापतिः ।
अपराधो न च क्वापि कार्यो गमनम् एव च ॥ ७ ॥

अन्यत्र गमनाच् छापो भविष्यति न संशयः ॥ ८ ॥

ब्रह्मोवाच-

इत्य् उक्त्वा स ययौ पत्न्यौ गते भर्तरि ते उभे ।
तदैव जग्मतुः सत्त्रम् ऋषीणां भावितात्मनाम् ॥ ९ ॥

ब्रह्मवृन्दसमाकीर्णं गङ्गातीरसमाश्रितम् ।
उन्मत्ते ते उभे नित्यं वयःसम्पत्तिगर्विते ॥ १० ॥

निवार्यमाणे बहुशो मुनिभिस् तत्त्वदर्शिभिः ।
विकुर्वत्यौ तत्र सत्त्रे समानि च हवींषि च ॥ ११ ॥

योषितां दुर्विलसितं कः संवरितुम् ईश्वरः ।
ते दृष्ट्वा चुक्षुभुर् विप्रा अपमार्गरते उभे ॥ १२ ॥

अपमार्गस्थिते यस्माद् आपगे हि भविष्यथः ।
सुपर्णा चैव कद्रूश् च नद्यौ ते सम्बभूवतुः ॥ १३ ॥

स कदाचिद् गृहं प्रायात् कश्यपो ऽथ प्रजापतिः ।
ऋषिभ्यस् तत्र वृत्तान्तं शापं ताभ्यां सविस्तरम् ॥ १४ ॥

श्रुत्वा तु विस्मयाविष्टः किं करोमीत्य् अचिन्तयत् ।
ऋषिभ्यः कथयाम् आस वालखिल्या इति श्रुताः ॥ १५ ॥

त ऊचुः कश्यपं विप्रं गत्वा गङ्गां तु गौतमीम् ।
तत्र स्तुहि महेशानं पुनर् भार्ये भविष्यतः ॥ १६ ॥

ब्रह्महत्याभयाद् एव यत्र देवो महेश्वरः ।
गङ्गामध्ये सदा ह्य् आस्ते मध्यमेश्वरसञ्ज्ञया ॥ १७ ॥

तथेत्य् उक्त्वा कश्यपो ऽपि स्नात्वा गङ्गां जितव्रतः ।
तुष्टाव स्तवनैः पुण्यैर् देवदेवं महेश्वरम् ॥ १८ ॥

कश्यप उवाच-

लोकत्रयैकाधिपतेर् न यस्य ।
कुत्रापि वस्तुन्य् अभिमानलेशः ।
स सिद्धनाथो ऽखिलविश्वकर्ता ।
भर्ता शिवाया भवतु प्रसन्नः ॥ १९ ॥

तापत्रयोष्णद्युतितापितानाम् ।
इतस् ततो वै परिधावतां च ।
शरीरिणां स्थावरजङ्गमानां ।
त्वम् एव दुःखव्यपनोददक्षः ॥ २० ॥

सत्त्वादियोगस् त्रिविधो ऽपि यस्य ।
शक्रादिभिर् वक्तुम् अशक्य एव ।
विचित्रवृत्तिं परिचिन्त्य सोमं ।
सुखी सदा दानपरो वरेण्यः ॥ २१ ॥

ब्रह्मोवाच-

इत्यादिस्तुतिभिर् देवः स्तुतो गौरीपतिः शिवः ।
प्रसन्नो ह्य् अददाच् छम्भुः कश्यपाय वरान् बहून् ॥ २२ ॥

भार्यार्थिनं तु तं प्राह स्यातां भार्ये उभे तु ते ।
नदीस्वरूपे पत्न्यौ ये गङ्गां प्राप्य सरिद्वराम् ॥ २३ ॥

तत्सङ्गमनमात्रेण ताभ्यां भूयात् स्वकं वपुः ।
ते गर्भिण्यौ पुनर् जाते गङ्गायाश् च प्रसादतः ॥ २४ ॥

ततः प्रजापतिः प्रीतो भार्ये प्राप्य महामनाः ।
आह्वयाम् आस तान् विप्रान् गौतमीतीरम् आश्रितान् ॥ २५ ॥

सीमन्तोन्नयनं चक्रे ताभ्यां प्रीतः प्रजापतिः ।
ब्राह्मणान् पूजयाम् आस विधिदृष्टेन कर्मणा ॥ २६ ॥

भुक्तवत्स्व् अथ विप्रेषु कश्यपस्याथ मन्दिरे ।
भर्तृसमीपोपविष्टा कद्रूर् विप्रान् निरीक्ष्य च ॥ २७ ॥

ततः कद्रूर् ऋषीन् अक्ष्णा प्राहसत् ते च चुक्षुभुः ।
येनाक्ष्णा हसिता पापे भज्यतां ते ऽक्षि पापवत् ॥ २८ ॥

काणाभवत् ततः कद्रूः सर्पमातेति योच्यते ।
ततः प्रसादयाम् आस कश्यपो भगवान् ऋषीन् ॥ २९ ॥

ततः प्रसन्नास् ते प्रोचुर् गौतमी सरितां वरा ।
अपराधसहस्रेभ्यो रक्षिष्यति च सेवनात् ॥ ३० ॥

भार्यान्वितस् तथा चक्रे कश्यपो मुनिसत्तमः ।
ततः प्रभृति तत् तीर्थम् उभयोः सङ्गमं विदुः ।
सर्वपापप्रशमनं सर्वक्रतुफलप्रदम् ॥ ३१ ॥