Summary (SA)
Chapter 99- Story of Pṛthuśravas and his younger brother
{{Ref- SS 164}}
ब्रह्मोवाच-
ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः ।
तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ १ ॥
आसीत् पृथुश्रवा नाम प्रियः कक्षीवतः सुतः ।
न दारसङ्ग्रहं लेभे वैराग्यान् नाग्निपूजनम् ॥ २ ॥
कनीयांस् तु समर्थो ऽपि परिवित्तिभयान् मुने ।
नाकरोद् दारकर्मादि नैवाग्नीनाम् उपासनम् ॥ ३ ॥
ततः प्रोचुः पितृगणाः पुत्रं कक्षीवतः शुभम् ।
ज्येष्ठं चैव कनिष्ठं च पृथक् पृथग् इदं वचः ॥ ४ ॥
पितर ऊचुः-
ऋणत्रयापनोदाय क्रियतां दारसङ्ग्रहः ॥ ५ ॥
ब्रह्मोवाच-
नेत्य् उवाच ततो ज्येष्ठः किम् ऋणं केन युज्यते ।
कनीयांस् तु पितॄन् प्राह न योग्यो दारसङ्ग्रहः ॥ ६ ॥
ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयाद् इति ।
ताव् उभौ पुनर् अप्य् एवम् ऊचुस् ते वै पितामहाः ॥ ७ ॥
पितर ऊचुः-
याताम् उभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ ।
कुरुतां गौतमीस्नानं सर्वाभीष्टप्रदायकम् ॥ ८ ॥
गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम् ।
स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयान्वितौ ॥ ९ ॥
दृष्टावनामिता ध्याता गौतमी सर्वकामदा ।
न देशकालजात्यादिनियमो ऽत्रावगाहने ।
ज्येष्ठो ऽनृणस् ततो भूयात् परिवित्तिर् न चेतरः ॥ १० ॥
ब्रह्मोवाच-
ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम् ।
त्रयाणाम् अपि लोकानां काक्षीवतो ऽनृणो ऽभवत् ॥ ११ ॥
ततः प्रभृति तत् तीर्थम् ऋणमोचनम् उच्यते ।
श्रौतस्मार्तर्णेभ्यश् च इतरेभ्यश् च नारद ।
तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत् ॥ १२ ॥